भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 371, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 371

326 रत्नावली राजा—( दृष्ट्वा सहर्षम् ) अये वसन्तकः प्राप्तः ! सखे ! परि- ष्वजस्व माम् । ( विदूषकः परिष्वजति ) वसन्तकः—भो वयस्स ! देवीए अनुग्गहिदह्नि । राजा—वेषेणैव निवेदितस्त्वया देव्याः प्रसादः । तत् कथ्यतामिदानीं सागरिकायाः का वार्त्तेति । वसन्तकः—( सवैलक्ष्यमधोमुखस्तिष्ठति ) राजा—वयस्य ! किं न कथयसि ? वसन्तकः—अप्पिअं त्ति णिवेदिदुं ण पारेमि । (क) (क) अप्रियमिति निवेदयितुं न पारयामि । सब्याजैः इति । सब्याजैः छलयुक्तैः शपथैः प्रियेण वचसा मधुरवाक्येन अधिकं चित्तानुवृत्त्या छन्दोऽनुगमनेन परेण निरतिशयेन वैलक्ष्येण विषादेन सह पादपतनैः सखीनां मुहुः वाक्येन अनुरोधवचनेन देवी तथा प्रत्यासत्तिं प्रसन्नताम् न उपागता प्राप्ता प्रापितेत्यर्थः । यथा रुदत्या तया एव देव्या वासवदत्तया एव बाष्पसलिलैः अश्रुजलैः कोपः अपनीतः दूरीकृतः । बाष्पजलपतनाद् अन्तर्गतकोपसम्भारस्य प्रक्षालितवात् कोपस्यापगम इत्यर्थः ॥१॥ बाधते पीडयति । कृत इति । अभोजगर्भसुकुमारतनुः अभ्रोजस्य पद्मस्य गर्भः अन्तः तद्वत् सुकुमारा कोमला तनुः देहः यस्याः सा । तदा साक्षात्कार- वसरे इत्यर्थः । असौ मम प्रियतमा सागरिका प्रथमरागघने मदङ्गे लयप्राप्तेव प्रथमः रागः अनुरागः तेन घने गाढे अनुरागातिशयैनेत्यर्थः । कण्ठग्रहे आलिङ्गने विलीय अनुरागातिशयाद् द्रवीभूय आनन्दरसतां प्राप्य इत्यर्थः । सद्यः इदानीमेव पतन्तः ये मदनमार्गणाः मदनबाणाः तेषां रन्ध्रमार्गैः छिद्रपदैः अवसरं प्राप्य इत्यर्थः । हृदयं प्रविष्टा यथा द्रवीभूतं वस्तु किञ्चित् रन्ध्रपथमवाप्य तेनैव अन्तः प्रविशति तद्वत् ॥२॥ विश्रामस्थानम् विनोदस्थानम् । संयतः बद्धः । बाष्पमोचं अश्रुमोचनम् । निर्भरा निरतिशया उत्कण्ठा तया परिक्षामां क्षीणाम् । श्लाघनीयलावण्यां मनोहरसौन्दर्ययुक्ताम् । परिष्वजस्व आलिङ्गय ।