भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 380, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 380

चतुर्थोऽङ्कः 335 वेगाद् बाणान् विमुञ्चन् ¹समदगजघटोत्पिष्टपत्तिर्निपत्य प्रत्येच्छद्वाञ्छिताप्ति²र्द्विगुणितरभसस्तं रुमण्वान् चघ्नेन³ ॥५॥ अपिच— अस्त्र⁴व्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे क्षणं व्यूढ़ासृक्सरिति खनत्प्रहरणे ⁵वम्भ्रीड्लद्दङ्किनि । आह्वयाजिमुखे म कोशलपतिर्भग्ने प्रधाने बले⁶ राजा—कथमस्मदीयान्यपि बलानि भग्नानि⁷ ! विजय—एकेनैव रुमण्वता शरशतैर्मत्तद्विपस्थो हतः ॥६॥ अनेके करिणः हस्तिनः तुरगाः अश्वाः पत्तयः पदातयः तैः दुर्न्निवारण दुद्दमनीयेन । अवष्टभ्य निरुध्य । समवासयितुम् सन्निवेशयितुम् । परिभवम् पराजयम्, अवमानम् इति यावत् । हास्तिकप्रायम् हस्तिनां समूहः हास्तिकम् । तत् प्रायं बहुलं यस्मिन् तत् हस्तिबहुलम् इत्यर्थः । लघु शीघ्रम् । आचक्ष्व ब्रूहि । वेपते कम्पते । कृतनिश्चयः दृढसङ्कल्पः असौ । योद्धुमिति । विन्ध्यात् विन्ध्यपर्व्वतात् योद्धुं निर्गत्य बहिरागत्य तत्क्षणम् अपरेण विन्ध्येन इव द्विरदपतिघटापीडबन्धेन द्विरदानां हस्तिनां पतयः तेषां घटाः समूहाः त एव आपीडबन्धः आपीडानां शेखराणां शिरःस्थितमाल्यानामिति यावत् बन्धेन धारणेन सञ्जीकृताः घनसनिविष्टाः हस्तिनः शिरःस्रग् इव दृश्यन्ते इत्यर्थः । दिग्भागान् दिशः रुन्धन् अभिमुखः अग्रवर्त्ती अभवत् । वेगात् वेगेन बाणान् विमुञ्चन् वर्षन् समद- गजघटोत्पिष्टपत्तिः समदाः मदयुक्ताः गजाः तेषां घटाः समूहाः तैः उत्पिष्टाः निष्पिष्टाः पत्तयः पदातयः यस्य सः रुमण्वान् वेगात् जवात् वाञ्छिताप्तिद्विगुणितरभसः वाञ्छितस्य आप्तिः प्राप्तिः तया द्विगुणितः रभसो वेगः यस्य सः इष्टलाभाशया द्विगुणितवेगः रुमण्वान् इत्यर्थः । चघ्नेन आगत्य तं प्रत्येच्छत् प्राप ॥५॥ अस्त्रेत्यादि । अस्त्रैः शरादिभिः व्यस्तानि विक्षिप्तानि शिरस्त्राणि मस्तकत्राणानि उष्णीषाणीति यावत् शस्त्राणि खङ्गादीनि च तेषां कषणैः घर्षणैः प्रहारैर् वा कृतानि छिन्नानि उत्तमाङ्गानि मस्तकानि यस्मिन् आजिमुखे

  1. करिघटा, विमुञ्चन्नथसमदगजोत्पिष्ट । 2. प्रत्यायाद्वा... । 3. जवेन । 4. शस्त्र ।
  2. वम्भ्रीडलद्—दमद् । 6. भग्नप्रतीपौभवन् । 7. न दृश्यते पुस्तकान्तरे ।
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक) · पृष्ठ 380, कुल 520 में से · BharatKosha