रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished520 पृष्ठ
पृष्ठ 396, कुल 520 में से
संदर्भ में पढ़ेंपृष्ठ 396
चतुर्थोऽङ्कः 351 काञ्चन—जं देवो आणवेदि । (क) (ऐन्द्रजालिकेन सह निष्क्रान्ता) राजा—वसन्तक ! प्रत्युद्गम्य प्रवेश्यतां वसुभूतिः । विदूषकः—जं भट्टा आणवेदि । (ख) (इति निष्क्रान्तः) (ततः प्रविशति वसन्तकेन प्रत्युद्गम्यमानो वसुभूतिर्बाभ्रव्यश्च) वसुभूतिः—(समन्तादवलोक्य) अहो वत्सेश्वरस्यानुभावः ! तथाहि आर्चिष्मा जयकुञ्जरेण तुरगान्विर्वर्णयन् वल्लभान् सङ्घातध्वनिना कृतः क्षितिभृतां¹ गोष्ठीषु तिष्ठन् क्षणम् । सद्यो विस्मृतसिंहलेश्वरविभवः कक्षाप्रदेशेऽप्यहो द्वाःस्थेनेव कुतूहलेन महता ग्राम्यो यथाहं कृतः ॥१२॥ बाभ्रव्यः—वसुभूते ! अद्य खलु चिरात् स्वामिनं द्रक्ष्यामीति यत्सत्यमानन्दातिशयेन किमप्यवस्थान्तरमनुभवामि ।