रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 397, कुल 520 में से
संदर्भ में पढ़ें352 रत्नावली प्रत्युद्गम्य अभिमुखं गत्वा सत्कृत्येत्यर्थः । प्रत्युद्गम्यमानः सत्क्रियमाणः । अनुभावः प्रभावः । आचित्रेति । जयकुञ्जरेण जयस्य विजयस्य कुञ्जरः युद्धजयानुकूलः हस्ती । तेन आचितः आकृष्टः वल्लभात् प्रियात् राज्ञः इत्यर्थः । तुरगान् निर्वर्णयन् पश्यन् सङ्गीत- ध्वनिना हृतः आकृष्टः । क्षितिभृतां राज्ञां गोष्ठीषु सभाषु चण' तिष्ठन् सद्यो- विस्मृतसिंहलशविभवः सिंहलेश्वरस्य ऐश्वर्य्यं विस्मृत्य वत्सराजस्य ऐश्वर्य्यातिशयदर्शना- दित्यर्थः । अहं वसुभूतिः कक्षाप्रदेशेऽपि कक्षायाः प्रकोष्टस्य प्रदेशे एकदेशेऽपि हाःस्थेन एव द्वारपालेन एव महता कुतूहलेन औत्सुक्येन मम विस्मयातिशयं दृष्ट्वा द्वारपालस्यापि महत् कौतूहलमित्याशयः । ग्राम्यः अदृष्टनगरादिकः ग्रामीणः जनः यथा इव । कृतः । यथा कश्चित् जानपदः नगरं प्राप्य समन्ताद् ऐश्वर्य्यबाहुल्यदर्शनाद् विस्मयविह्वलः सन् पौरस्य जनस्य औत्सुक्यं वर्द्धयति तथा अहं वसुभूतिः दृष्टसिंहलेशविभवोऽपि वत्सराजस्य महदैश्वर्य्यं विलोक्य द्वारपालेनापि ग्राम्य इति विनिर्णीत इति भावः ॥१२॥ बाभ्रव्यः वत्सराजस्य कञ्चुकी । विहड्डिमिति । साध्वसवशात् भीतिवशात् कम्पस्य वेपथोः विहड्डिं प्रथयतितराम् अतिशयेन वर्द्धयति । बाष्पसलिलैः अश्रुजलैः अविस्पष्टाम् अविशदां दृष्टिं तिरयति आच्छादयति । गद्गदतया स्वररोधतया स्खलद्वर्णां गलदक्षरां वाणीं जड़- यतितराम् अतिशयेन अस्पष्टीकरोति । मम हि परितोषः प्रभुदर्शनादित्यर्थः । जरायाः वार्द्धक्यस्य साहाय्यं करोति । वृद्धत्वे मनुष्यस्य कम्पः परिवर्द्धते, दृष्टिः अविशदा भवति, वचनं गद्गदतथा दुर्बोध्यं भवति इत्यर्थः । बाभ्रव्यस्य प्रभुदर्शनेन आनन्दातिशयात् सात्त्विक- भावोदयेन कम्पादीनां विहड्डिरित्याशयः॥१३॥ Prose order—जयकुञ्जरेण आचितः वल्लभात् तुरगान् निर्वर्णयन् सङ्गीत- ध्वनिना हृतः क्षितिभृतां गोष्ठीषु चण' तिष्ठन् कक्षाप्रदेशे अपि अहो ! सद्यो विस्मृत- सिंहलेशविभवः अहं हाःस्थेन एव कुतूहलेन ग्राम्यः यथा कृतः ॥१२॥ मम हि अद्य परितोषः साध्वसवशात् कम्पस्य विहड्डिं प्रथयतितरां, पुनः बाष्पसलिलैः अविस्पष्टां दृष्टिं तिरयति, गद्गदतया स्खलद्वर्णां वाणीं जड़यतितरां, ( एवमसौ ) जरायाः साहाय्यं कुरुते ॥१३॥ Beng. Trans. বাসবদত্তা—আর্য্যপুত্র, ইন্দ্রজাল এখন থাকুক। মাতুলগৃহ হইতে প্রধানামাত্য বসুভূতি আসিয়াছেন। তাঁহার এখন অভ্যর্থনা করুন।