रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished520 पृष्ठ
पृष्ठ 400, कुल 520 में से
संदर्भ में पढ़ेंपृष्ठ 400
चतुर्थोऽङ्कः 355 बाभ्रव्यः—अमात्य ! अस्ति सादृश्यम् । तत् किं वसन्तकं पृच्छामि प्राप्तिमस्याः ? वसुभूतिः—बाभ्रव्य ! मा मैवम् । महति राजकुले रत्न- बाहुल्याद्¹ दुर्लभो भूषणानां संवादः । विदूषकः—भो ! एसो महाराओ । ता उबसप्पदु अमच्चो । (क) वसुभूतिः—( उपसृत्य ) विजयतां महाराजः ! राजा—( उत्थाय ) ²अभिवादये । वसुभूतिः—अतिश्रेयांस्त्वं भूयाः³ । राजा—आसनमासनमार्य्याय । विदूषकः—( आसनमादाय ) भो ! एदं आसणं । उबबिसदु अमच्चो । (ख) ( वसुभूतिरुपविशति ) बाभ्रव्यः—देव ! बाभ्रव्यः प्रणमति । राजा—( पृष्ठे हस्तं दत्त्वा ) बाभ्रव्य ! इत आस्थताम् । विदूषकः—अमच्च ! एसा देवी बासबदत्ता पणमदि । (ग) वासवदत्ता—अज्ज ! पणमामि । (घ) वसुभूति—आयुष्मति ! वत्सराजसदृशं पुत्रमाप्नुहि । बाभ्रव्यः—देवि ! बाभ्रव्यः प्रणमति । ( सर्वे उपविशन्ति ) (क) भोः, एष महाराजः । तद् उपसर्पतु अमात्यः । (ख) एतदासनम् । उपविशतु अमात्यः । (ग) अमात्य, एषा देवी वासवदत्ता प्रणमति । (घ) आर्य, प्रणमामि ।
- रत्नमालाबाहुल्यात् । 2. आर्य, अभिवादये । 3. आयुष्मान् भव ।