रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 405, कुल 520 में से
संदर्भ में पढ़ें360 रत्नावली सम्बन्धलोपो मा भूदिति दत्ता सा रत्नावली देवाय प्रतिपाद- यितुमस्माभिरानीयमाना समुद्रे यानभङ्गान्निमग्ना¹ । (इति रुदन्नधो- मुखस्तिष्ठति ) वासवदत्ता—(सास्रम्) हा हदाह्मि मंदभाइणी ! हा बहिणि रअणावलि ! कहिं दाणिं सि ? देहि मे पडिवअणं । ( इति मूर्च्छिता पतति ) (क) राजा—समाश्वसिहि समाश्वसिहि । दुरवगाहा गति- र्दैवस्य । वाहनभङ्गपतितोत्थितौ² नन्वेतावेव ते निदर्शनम् । ( इति वसुभूतिबाभ्रव्यौ दर्शयति ) वासवदत्ता—अज्जउत्त ! जुज्जदि एब्बं । परं कुदो मम एत्तिअं भाअधेअं ? (ख) राजा—( अपवार्य ) बाभ्रव्य ! किमेवमिति सर्व्वथा नाव- गच्छामि । बाभ्रव्य—देव ! श्रूयताम्— ( नेपथ्ये महान् कलकलः ) हर्म्याणां हेमशृङ्गश्रियमिव निचयैरर्चिषामादधानः मान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः । कुर्व्वन् क्रीडामहीन्द्रं सजलजलधरश्यामलं धूमपातै- रेष प्लोषार्त्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः ॥१४॥ (क) हा हतास्मि मन्दभागिनी ! हा भगिनि रत्नावलि ! क्व इदानीमसि ? देहि मे प्रतिवचनम् । (ख) आर्य्यपुत्र, युज्यते एवम् । परं कुतः मम एतावद् भागधेयम् ?
- सा च युष्मदन्तिकमानीयमाना यानभङ्गात् सागरे निमग्ना । 2. यानभङ्ग- पतितोत्थितौ ।