भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 406, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 406

चतुर्थोऽङ्कः 361 ( सर्व्वे सम्भ्रान्ताः पश्यन्ति ) ¹राजा—कथमन्तःपुरेऽग्निः ! ( ससम्भ्रममुत्थाय ) कष्टम् ! देवी वासवदत्ता दग्धा ! देवीदाहप्रवादोऽयं योऽभूल्लावणके पुरा । करिष्यन्निव तत् सत्यमद्याग्निरयमुत्थितः ² ॥१५॥ वासवदत्ता—अज्जउत्त ! परित्ताहि परित्ताहि ! (क) राजा—अये ! कथमतिसम्भ्रमात् पार्श्वस्थापि देवी नोप- लक्षिता ! ( देव्याः पाणिं गृहीत्वालिङ्ग्य ) देवि ! समाश्वसिहि समाश्वसिहि । (क) आर्य्यपुत्र, परित्रायस्व, परित्रायस्व । सम्बन्धलोपः वासवदत्ता सिंहलेश्वरस्य भागिनेयी आसीद्, अतः सिंहलेश्वरस्य उदयनेन सह जामातृसम्बन्धः तस्य लोपः इत्यर्थः । प्रतिपादयितुं दातुम् । दुरवगाह्य दुष्प्रवेशा दुर्बोध्या इति यावत् । निदर्शनं दृष्टान्तः दुरवगाहत्वस्य इत्यर्थः । हर्म्याणामिति । अग्निः अर्चिषां ज्वालानां निचयैः समूहैः हर्म्याणां सौधानां हेमशृङ्गश्रियम् इव स्वर्णशृङ्गम् तस्य श्रियं शोभाम् इव अग्नेः शिखायाः स्वर्णवर्णत्वादित्यर्थः । सान्द्रं घनं यद् उद्यानं तत्र ये द्रुमाः वृक्षाः तेषाम् अग्राणि शिरोभागाः तेषां म्लपनं दहनं तेन पिशुनितं सूचितः अत्यन्तः निरतिशयः तीव्रः असह्यः अभितापः सन्तापः यस्य सः अग्निरिति शेषः । धूमपातैः धूम- सङ्घातैः क्रीडामहीध्रं क्रीडापर्वतम् । सजलाः जलपूर्णाः ये जलधराः मेघाः तद्वत् श्यामलं कृष्णवर्णं कुर्व्वन् । प्लोषार्त्तयोषिज्जने प्लोषेण दाहेन आर्तः कातरः योषितां स्त्रियां जनः यस्मिन् तस्मिन् अन्तःपुरे इति शेषः । अन्तःपुरे उत्थितः । स्रग्धरावृत्तम् ॥१४॥ सम्भ्रान्ताः भीताः । देवीति । देवीदाहप्रवादः देव्याः वासवदत्तायाः दाहस्य प्रवादः प्रचारः यौगन्धरायणेन प्रचारित इत्यर्थः । लावणके वत्सराजस्य नगरविशेषे वासवदत्तायाः

  1. अपिच देव्या दाहप्रवादोऽयं etc. राजा—कथमन्तःपुरेऽग्निः etc.
  2. करिष्यन्निव तं सत्यमयमग्निः समुत्थितः ।