भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 410, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 410

चतुर्थोऽङ्कः 365 राजा—कथं देवि ! सागरिका विपद्यते ! एष गच्छामि । वसुभूतिः—देव ! किमिदमकारणमेव पतङ्गवृत्तिः क्रियते ? बाभ्रव्यः—देव ! युक्तमाह वसुभूतिः । विदूषकः—(राजानमुत्तरीये गृहीत्वा) भो ! मा क्खु साहसं करेहि । (क) राजा—(उत्तरीयमाकर्षन्) अरे ! धिङ्मुखं ! सागरिका विपद्यते ! किमद्यापि प्राणाः परिरक्ष्यन्ते¹ । (ज्वलनप्रवेशं नाटयित्वा धूमाभिभवं नाटयति ) विरम विरम वह्ने ! मुञ्च धूमानुबन्धं प्रकटयसि किमुच्चैरर्चिषां चक्रवालम् । विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ॥१६॥² वासवदत्ता—कधं मम दुक्खभाइणीए वअणादो एव्वं बव- सिदं³ अज्जउत्तेण । ता अहंवि अनुगमिस्सं । (ख) विदूषकः—(परिक्रामन्नग्रतो भूत्वा) भोदि ! अहंपि दे मग्गोव- देसको⁴ होमि । (ग) वसुभूतिः—कथं ! प्रविष्ट एव ज्वलनं वत्सराजः ! तन्ममापि दृष्टराजपुत्रीविपत्तेर्युक्तमिहैवात्मानमाहुतीकर्तुम् । (क) भोः, मा साहसं कुरु । (ख) कथं मम दुःखभागिन्याः वचनादेवं व्यवसित- मार्यपुत्रेण ? तदहमपि अनुगमिष्यामि । (ग) भवति, अहमपि ते मार्गोपदेशको भवामि ।

  1. प्राणाः धार्यन्ते । 2. कथमासन्नहुतवहा वर्तते सागरिका ! तत् त्वरितमेनां सम्भावयामि । 3. अब्भवसिदं । 4. पथोवदेसको ।