भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 433, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 433

388 रत्नावलो ( भरतवाक्यम् ) उर्व्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टा- मिष्टैस्त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः । आकल्पान्तं च भूयात् समुपचितसुखः सङ्गमः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुर्ज्जया वज्रलेपाः ॥२२॥ ( इति निष्क्रान्ताः सर्वे ) इति ऐन्द्रजालिको नाम चतुर्थोऽङ्कः ॥ अवसिता रत्नावली नाटिका ॥ नीत इति । विक्रमबाहुः सिंहलराजः आत्मसमतां आत्मतुल्यतां परिणयसम्बन्धेन इत्यर्थः । नीतः प्रापितः । उर्व्वीतले भूतले सारं रत्नभूता भुवनप्राप्तौैकहेतुः समग्र- पृथिवीलाभस्य एकैव कारणभूता प्रिया इयं सागरिका प्राप्ता । देवी वासवदत्ता भगिनी- लाभात् सागरिकालाभात् । वासवदत्तायाः मातुलस्य सिंहलेश्वरस्य कन्या रत्नावली वासव-