रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 55, कुल 520 में से
संदर्भ में पढ़ेंमङ्गलञ्च शीतवति । पृथिवी च सस्यसम्पन्ना प्रभूतधान्यशालिशिला भवतु । चन्द्रवपुः चन्द्र इव वपुः देहं यस्य सर्व्वाह्लादकत्वादित्यर्थः । नरेन्द्रचन्द्रः सर्वोत्कर्षेण वर्त्तमानः राजा—प्रकृत्यार- गौडर्वः नायकः उदयनी वा—प्रतपतु प्रतापशीली भवतु । पुष्पिताग्रावृत्तम् । 'अयुजि नयुगरफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणम् ॥ ४ ॥ Prose. उडुपतिना जितम् ; सुरेभ्यः नमः ; द्विजवृषभाः निरुपद्रवाः भवन्तु ; पृथिवी च सर्व्वसस्या भवतु । चन्द्रवपुः नरेन्द्रचन्द्रः प्रतपतु ॥ ४ ॥ Beng. Trans. নক্ষত্রমণ্ডলাধিপতি চন্দ্রমায় জয় হউক, দেবগণকে নমস্কার করি। দ্বিজশ্রেষ্ঠগণ নিরুপদ্রব হউন ; পৃথিবী শস্যসম্পন্না হউক এবং সোম্যমূর্তি মহারাজও প্রভাব- সম্পন্ন হউন। ৪। Eng. Trans. Glory to the moon, reverence to the gods. Let the illustrious Brahmanas be free from troubles. May the Earth be fertile aad may the king of moonlike loveliness shine ever resplendent. 4. (नाद्यन्ते) सूत्रधारः—अलमतिविस्तरेण¹। अद्याहं वसन्तोत्सवे सबहुमानमाहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पाद- पद्मोपजीविना राजसमूहेनोक्तो यथा—‘अस्मत्स्वामिना श्रीहर्ष- देवेनापूर्व्ववस्तुरचनालङ्कृता रत्नावली नाम नाटिका कृतेत्यस्माभिः श्रोत्रपरम्परया श्रुता, न तु प्रयोगतो दृष्टा। तत्तस्यैव राज्ञः सकलजनहृदयाह्लादिनो बहुमानाद् अस्मासु चानुग्रहबुद्ध्या यथावत् प्रयोगेण त्वया नाटयितव्या’ इति। ²तद्यावदिदानीं नेपथ्यरचनां कृत्वा यथाभिलषितं सम्पादयामि।³ अये, आव- र्ज्जितानि च मया सकलसामजिकानां मनांसीति मे निश्चयः। यतः⁴-- पूर्वोक्तेन नान्दीश्लोकचतुष्टयेन ‘नान्दी काव्यार्थसूचिका’ इति नियममनुसृत्य तत्र प्रथमश्लोकेन गिरिजया शिवानुकूल्यार्थं कुसुमाञ्जलिना तदाराधनद्वारा सागरिकया वत्स- 1 प्रसङ्गेन। 2. परिक्रम्यावलोक्य च। 3 परिषदमवलोक्य। 4 कुतः।