भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 61, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 61

16 रत्नावली सूत्रधारः—( आकर्ण्य सहर्षम् ) आर्ये¹, नन्वयं मम यवीयान् भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव। तदेहि। आवामपि नेपथ्यग्रहणाय सज्जीभवावः। ( इति निष्क्रान्तौ ) इति प्रस्तावना सूत्रधारः । अन्यस्माद् अपि द्वीपात् सिंहलद्वीपाद् इति उपक्षेपः। जलनिधेः समुद्रस्य मध्यात् दिशोऽपि अन्तात् । अभिमुखीभूतः अनुकूलः विधिः दैवम् अभिमतम् इष्टजनम् आनीय झटिति शीघ्रं घटयति मेलयति । आर्याऽच्छन्दमिदम् । तल्लक्षणं—"यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या" ॥६॥ अत्र मुखसन्धेः उपक्षेपो नामाङ्गम् । भरतपुत्र, भरतस्य नाट्यशास्त्रकारत्वात् सर्वेषामभिनेतृणां तस्य पुत्रस्थानीयत्वम् इति ज्ञेयम् । गृहीतयौगन्धरायणभूमिकः, यौगन्धरायणस्य भूमिका वेषः ; “भूमिका रचनायां स्यात् वेशान्तरपरिग्रहे” इति मेदिनी । गृहीता यौगन्धरायणस्य भूमिका येन सः । इति निष्क्रान्तौ इति । निष्क्रान्तौ निर्गतौ । तदुक्तं “एषामन्यतमेनार्थं पात्रं वाक्षिप्य सूत्रभृत् । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत्” इति ॥ इति प्रस्तावना ।' प्रस्तूयते काव्यार्थः अनया सा प्रस्तावना । तल्लक्षणम् :—“नटो विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्व्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥” अत्र कथोद्घातरूपा प्रस्तावना । अन्यद् विश्लेषणं तु छात्रसटीकायां द्रष्टव्यम् । Prose. अन्यस्मादपि द्वीपात्, जलनिधेः अपि मध्यात्, दिशः अपि अन्तात् अभिमतम् आनीय अभिमुखीभूतः विधिः झटिति घटयति ॥६॥ Beng. Trans. सूत्रधार—আর্য্যে, দূরস্থ বলিয়া উদ্বেগের কোনও কারণ নাই। দেখ— 1 आर्ये किमतः परं विलम्बसे ।