भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 69, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 69

(ततः प्रविशत्यासनस्थो गृहीतवसन्तोत्सववेषो राजा विदूषकश्च) राजा—( सगर्वमवलोक्य ) सखे वसन्तक ! विदूषकः—आणावेदु भवं । (क) राजा—राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः । प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥८॥ (क) आज्ञापयतु भवान् । राज्यम् इति । राज्यं निर्जितशत्रु, निर्जिताः शत्रवः यस्य तत् राज्यमित्यस्य विशेषणम् । योग्यसचिवे यौगन्धरायणे समस्तः भरः न्यस्तः दत्तः । प्रजाः प्रकृतयः प्रशमिताशेषोपसर्गाः प्रशमिताः दूरीकृताः अशेषाः उपसर्गाः उपप्लवाः यासां ताः, एवं सम्यक्पालनेन लालिताः संवर्द्धिताः भवन्ति । प्रद्योतस्य अवन्तीश्वरस्य सुता वासवदत्ता मत्पत्नी रमणीयगुणसम्पन्ना इत्यर्थः । त्वं विदूषकः इत्यर्थः । वसन्तसमयश्च अयम् । युवयोः उभौ वसन्तविदूषकौ परमानन्द- प्रदौ इत्यभिप्रायः । कामः मदनः नाम्ना मदनोत्सव इति निजनाम्ना उत्सवस्य अनुष्ठितत्वात् कामं पर्याप्तं धृतिं सन्तोषं उपैतु प्राप्नोतु, उत्सवस्य तन्नामभावेन एव तस्य चानन्दो भवतु । अहं मन्ये, मम पुनः अयं महान् उत्सवः प्रजानामुपद्रवादिविहीनत्वात् । एतेन राज्ञः उदयनस्य लोकप्रियत्वं व्यज्यते । शार्दूलविक्रीड़ितं वृत्तम् । राज्ञः महोत्सवं प्रति पूर्व्व- पूर्व्वपदानां हेतुतया काव्यलिङ्गमलङ्कारः । महोत्सवोपभोगे कामदेवापेक्षया राज्ञः उत्कर्षे व्यज्यमाने व्यतिरेकालङ्कारध्वनिः । अत्र श्लोके नायकस्य धीरललितत्वम् उक्तम् ॥८॥ Prose. राज्यं निर्जितशत्रु ( भवति ), योग्यसचिवे समस्तः भरः न्यस्तः । प्रजाः प्रशमिताशेषोपसर्गाः (सत्यः ) सम्यक्पालनलालिताः (भवन्ति)। प्रद्योतस्य सुता, वसन्त- समयः त्वं च ;—इति नाम्ना कामः कामं धृतिमुपैतु, मम पुनः अयं महान् उत्सवः ( इति ) मन्ये ॥८॥

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक) · पृष्ठ 69, कुल 520 में से · BharatKosha