भारतकोश
संग्रह पर लौटें

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

(ततः प्रविशत्यासनस्थो गृहीतवसन्तोत्सववेषो राजा विदूषकश्च) राजा—( सगर्वमवलोक्य ) सखे वसन्तक ! विदूषकः—आणावेदु भवं । (क) राजा—राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः । प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥८॥ (क) आज्ञापयतु भवान् । राज्यम् इति । राज्यं निर्जितशत्रु, निर्जिताः शत्रवः यस्य तत् राज्यमित्यस्य विशेषणम् । योग्यसचिवे यौगन्धरायणे समस्तः भरः न्यस्तः दत्तः । प्रजाः प्रकृतयः प्रशमिताशेषोपसर्गाः प्रशमिताः दूरीकृताः अशेषाः उपसर्गाः उपप्लवाः यासां ताः, एवं सम्यक्पालनेन लालिताः संवर्द्धिताः भवन्ति । प्रद्योतस्य अवन्तीश्वरस्य सुता वासवदत्ता मत्पत्नी रमणीयगुणसम्पन्ना इत्यर्थः । त्वं विदूषकः इत्यर्थः । वसन्तसमयश्च अयम् । युवयोः उभौ वसन्तविदूषकौ परमानन्द- प्रदौ इत्यभिप्रायः । कामः मदनः नाम्ना मदनोत्सव इति निजनाम्ना उत्सवस्य अनुष्ठितत्वात् कामं पर्याप्तं धृतिं सन्तोषं उपैतु प्राप्नोतु, उत्सवस्य तन्नामभावेन एव तस्य चानन्दो भवतु । अहं मन्ये, मम पुनः अयं महान् उत्सवः प्रजानामुपद्रवादिविहीनत्वात् । एतेन राज्ञः उदयनस्य लोकप्रियत्वं व्यज्यते । शार्दूलविक्रीड़ितं वृत्तम् । राज्ञः महोत्सवं प्रति पूर्व्व- पूर्व्वपदानां हेतुतया काव्यलिङ्गमलङ्कारः । महोत्सवोपभोगे कामदेवापेक्षया राज्ञः उत्कर्षे व्यज्यमाने व्यतिरेकालङ्कारध्वनिः । अत्र श्लोके नायकस्य धीरललितत्वम् उक्तम् ॥८॥ Prose. राज्यं निर्जितशत्रु ( भवति ), योग्यसचिवे समस्तः भरः न्यस्तः । प्रजाः प्रशमिताशेषोपसर्गाः (सत्यः ) सम्यक्पालनलालिताः (भवन्ति)। प्रद्योतस्य सुता, वसन्त- समयः त्वं च ;—इति नाम्ना कामः कामं धृतिमुपैतु, मम पुनः अयं महान् उत्सवः ( इति ) मन्ये ॥८॥

প্রথমোঽঙ্কঃ 25 Beng. Trans. ( তারপর বসন্তোৎসবের বেশ ধারণ করিয়া আসনোপবিষ্ট রাজা ও বিদূষক প্রবেশ করিলেন ) রাজা ( আনন্দের সহিত অবলোকন করিয়া )—সখে বসন্তক ! বিদূ—মহারাজ আদেশ করুন। রাজা—রাজ্য শত্রুশূন্য হইয়াছে, যোগ্য অমাত্যের উপর সমস্ত ভার ন্যস্ত করা হইয়াছে। নানাপ্রকার উপদ্রব দূরীভূত হওয়ায় প্রজাগণ সম্যগ্রূপে পরিপালিত হইতেছে। মহারাজ প্রদ্যোতের কন্যা ( আমার স্ত্রী বাসবদত্তা ), তুমি এবং এই বসন্তকাল ( রহিয়াছ ) ; ইহাতে মদনদেব উৎসবের নামমাত্রেই সন্তোষলাভ করুন ; কিন্তু আমি মনে করি, ইহা আমার পক্ষে একটা মহান্ উৎসব ॥৯॥ Eng. Trans. ( Then enter the king and the jester attired in the costume of the Spring-festival and seated on seats) King. ( Looking with joy ) My dear Vasantaka ! Jester. What does your Majesty command ? King. My kingdom is bereft of enemies ; the charge has been laid upon a worthy minister. The subjects have been duly looked after on occount of all of their troubles being removed. Here are the daughter of Pradyota, the spring season and yourself. Let the god of love attain satisfaction as much as he can from the mere name of the festival ; but I think it is a great festival to me. 9. Eng. Expl. Here the king Udayana attending the Spring- festival refers to the self-complacence which he has got, in course of his speech with the jester. As a dutiful king he has purged the state of all disturbing elements; he has relieved his own people of all troubles that often visited them; he has confidently laid all the charges of the kingdom over his faithful and worthy minister Yaugandharáyana. He has got a qualified wife like Vāsavadattá the daughter of king Pradyota. The ever-gay jester Vasantaka was there ; the time was the charming spring season. Considering all these favourable and joyful circumstances the king says that under the collocation of these circumstances he

26 रत्नावली feels a unique joy ; but as regards the god of love, he merely attains satisfaction by the festivity being celebrated in his name only. This shows how king Udayana was a dutiful king and much light is thrown on his character by this stanza. विदूषकः—( सहर्षम् ) भो वयस्स, एव्वं णेदं। अहं उण जानामि ण भबदो ण कामदेवस्स मम ज्जेब्ब एक्कस्स बह्मणस्स¹ अयं मअणमहुस्सबो जेण² पियवयस्सेण एव्वं मन्तोअदि। ( विलोक्य ) ता किं उण इमिणा। पेक्ख दाव इमस्स महुमत्त- कामिणीजणसअंगाहग्गहिदसिङ्गकजलप्पहारणच्चन्तणाअरजणज- णिदकोदूहलस्स समन्तदो सुब्बत्त³महल्लुद्दामचच्चरीसद्दमुहर- रच्छामुहसोहिणो पइण्णपड़वासपुञ्जपिञ्जरिज्जन्त⁴दिसामुहस्स सिरिअं⁵ मअण-महुस्सबस्स। (क) राजा—( सहर्षं समन्तादवलोक्य ) अहो, परां कोटिमधिरोहति प्रमोदः पौराणाम्। (क) भो वयस्य, एवं न्विदम्। अहं पुनर्ज्ञानामि न भवतः न कामदेवस्य मम एव एकस्य ब्राह्मणस्य मदनमहोत्सवो येन प्रियवयस्येन एवं मन्यते। तत् किं पुनरनेन। प्रेक्षस्व तावत् अस्य मधुमत्तकामिनीजनस्वयंग्राहगृहीतशृङ्गकजलप्रहारनृत्यन्नागरजनजनितकौतूहलस्य समन्ततः सुवृत्तमहल्लोद्दामचर्चरीशब्दमुखररथ्यामुखशोभिनः प्रकीर्णपट-वासपुञ्जपिञ्जरीकृत- दिशामुखस्य श्रियं मदनमहोत्सवस्य। भो वयस्य इति। वयस्य इति राजानमुद्दिश्य सम्बुद्धिः। 'वयस्य राजन्निति भवेद् वाच्यो महीपतिः'—इति भरते। अयमेव उत्सवः अस्य ब्राह्मणस्य न वायं तव न वा कामदेवस्य। मधुना वसन्तोत्सवेन मत्तः कामिनीजनः तस्य स्वयं ग्राहः स्वेच्छया ग्रहणं तेन गृहीतानि यानि शृङ्गकानि (पिचकारीति भाषा ) तन्निर्गतं जलं तस्य प्रहारः तेन नृत्यन्तः पौराः ये जनाः तैः जनितं कौतूहलं यस्मिन् तस्य मदनमहोत्सवस्य 1 बह्मणस्स अयं। 2 जह्म। 3 सुब्भन्त। 4 दइ। 5 ससिरिचदं।

प्रथमोऽङ्कः 27 इत्यस्य विशेषणम् । सुवृत्तं सुवर्त्तुलं सुनिषादितं वा, क्षुभ्यन्त इति पाठे शब्दायमानम्, यत् मद्दलं वाद्ययन्त्रविशेषः तेन या उद्दामा चर्चरी गीतमिश्रवाद्यविशेषः तस्याः शब्दः तेन मुखरा शब्दायमाना या रथ्या राजपथः तस्य मुखानि तैः शोभते तस्य । प्रकीर्णाः विक्षिप्ताः ये पटवासाः पिष्टातकाः (आबिर इति भाषा) । तेषां पुञ्जं तेन पिञ्जरीकृतानि दिशामुखानि दिक्मण्डलानि यस्मिन् तथाविधस्य । परां कोटिं परां काष्ठाम् । अधिरोहति आरोहति । Beng. Trans. বিদূষক (সহর্ষে)—হে বয়স্য, ঠিক তাই। আমি কিন্তু জানি যে এই মদনোৎসব আপনারও নয়, কামদেবেরও নয়, ইহা কেবল একা এই ব্রাহ্মণের জন্যই যাহার জন্য প্রিয় বয়স্য এইরূপ বলিতেছেন। যাক্, এই দেখুন যে মদনমহোৎসবে মদ্য- পানে মত্ত কামিনীগণ নিজ নিজ শৃঙ্গক (অর্থাৎ পিচকারী) স্বহস্তে ধরিয়া জলক্ষেপণ করায় নৃত্যশীল নাগরিক পুরুষগণ কৌতূহলের সৃষ্টি করিতেছে, যাহাতে চতুর্দ্দিকে সুবর্ত্তুল মদ্দল- যোগে উদ্দাম গীতধ্বনি দ্বারা মুখর রাজপথসমূহ শোভা পাইতেছে এবং যাহাতে সমস্ত দিগ্মণ্ডল উৎক্ষিপ্ত পটবাস (অর্থাৎ আবিরচূর্ণ) দ্বারা পিঙ্গল বর্ণ ধারণ করিয়াছে সেই মদন- মহোৎসবের শোভা সন্দর্শন করুন। রাজা—(আনন্দের সহিত চতুর্দ্দিকে অবলোকন করিয়া) অহো, পৌরজনগণের আনন্দ পরা কাষ্ঠা লাভ করিয়াছে। Eng. Trans. Jester ( Joyfully )—O friend, it is so. But I know that this Cupid festivity is not meant for you nor for the god of love but only for this Brahmana (or Brahmana-lad—diff. read.) of whom my dear friend has spoken thus. What is the use of this talk? Now, observe the beauty of this great festival of Cupid,—in which much curiosity (gaiety) has been created by the citizens (males) dancing—as they are struck by showers of water issuing out of the syringes taken of their own accord by the women drunken with wine,—which is beautified by the openings of the streets being resounded with songs (or clappings of hands) accompanied by the sounds of the round tabors beaten on all sides,—and in which the quarters have been coloured by heaps of red powders ( patavasa ) scattered all round. King (Joyfully looking around )—Ah! the pleasure of the citizens is attaining its climax.

28 रत्नावली तथाहि— कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरै¹- र्हेमालङ्कारभाभिर्भरनमितशिरः²शेखरैः कैङ्किरातैः । एषा वेषाभिलक्ष्यस्वविभवविजिताशेषवित्तेशकोशा कौशाम्बी शातकुम्भद्रवखचितजनेवैकपीता विभाति ॥१०॥ अपिच— धारायन्त्रविमुक्तसन्ततपयःपूरैः स्नुते³ सर्व्वतः सद्यः सान्द्रविमर्दकर्द्दमकृतक्रोड़े क्षणं प्राङ्गणे । उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः⁴ सैन्दूरीक्रियते जनेन⁵ चरणन्यासैः पुरः कुट्टिमम् ॥११॥ विदूषकः । (विलोक्य) एव्वं पि सुविअद्ध-जणजलभरि- दसिङ्गकजलप्पहारमुक्कसिक्कारमणोहरं बारविलासिणीजणविल- सिदं आलोएदु पियवयस्सो । (क) (क) एवमपि सुविदग्धजनजलभरितशृङ्गकजलप्रहारमुक्तसीत्कारमनोहरं वार- विलासिनीजनविलसितमालोकयतु प्रियवयस्यः । तथाहि । कीर्णैः उत्क्षिप्तैः कुङ्कुमक्षोदगौरैः कुङ्कुमस्य चूर्णवत् गौरैः अरुणैः ‘गौरोऽरुणे’ इत्यमरः । कृतदिवसमुखैः कृतं दिवसस्य मुखं प्रत्यूष इत्यर्थः, यैः उत्कीर्णारुण- पटवासैः निखिलदिवसं प्रत्यूष इव विभातीत्याशयः । तद्वत् पिष्टातकौघैः पटवास- पुञ्जौः हेमालङ्कारभाभिः सुवर्णालङ्कारदीप्तिभिः । कैङ्किरातैः किङ्किराताः अशोकाः तेषां विकारैः पुष्पैरित्यर्थः । भरेण नमितम् आनतं शिरसः शेखराणि येषां तैरशोकपुष्पैः अरुण- वर्णैः, भरनमितशिखैः इति पाठे शेखरैः इत्यस्य विशेषणत्वम् । वेषेण वस्त्रादिना 1 क्षोदवासैः । 2 नमितशिखैः । 3 प्लुते । 4 विकसत्सिन्दूरसान्द्रारुणम् । 5 जनस्य ।

प्रथमोऽङ्कः । २९ अभिलक्ष्यः अनुमेयः स्वविभवः स्वकीयैश्वर्य्यं तेन विजिताः अशेषस्य विशेषस्य कुवेरस्य कोशाः वित्तसञ्चयाः यया सा कौशाम्बी नगरी शातकुम्भं सुवर्णं 'तपनीयं शातकुम्भम्' इत्यमरः तस्य द्रवः तेन खचिताः अलङ्कृताः जनाः यस्यां सा । सर्व्ववारुणवर्णदर्शनादेवमुत्प्रेक्षा । किञ्च एकः प्रधानः पीतवर्णः यस्याः सा विभाति शोभते । कौशाम्बी नगरी सर्व्वथा पीत- वर्णा परिलक्ष्यते जनैः । स्रग्धरावृत्तम् । उत्प्रेक्षालङ्कारः । कौशाम्ब्याञ्च मदनोत्- सवे लोकातिशयसम्पत्तिवर्णनादुदात्तालङ्कारः ॥ १० ॥ अपिच—धारायन्त्र इति । धारायन्त्रैः शृङ्गकैः नलिकाभिर्वा विमुक्तं सन्ततं निरवच्छिन्नं यत् पयःपूरं जलप्रवाहः तेन प्लुते व्याप्ते सद्यः सान्द्राः निविड़ाः ये विमर्द्दाः पादैः निष्पेषाः तैः यः कर्द्दमः तस्मिन् क्रीडा यस्मिन् प्राङ्गणे चत्वरे उद्दामानाम् अप्रतिबन्धं नृत्यन्तीनां क्रीडन्तीनां वा प्रमदानां कपोलेभ्यः निपतत् यत् सिन्दूरं तस्य रागेण लौहित्येन अरुणैः रक्तवर्णैः चरणन्यासैः पदविन्यासैः पुरः, पुनः इति पाठो वा । कुट्टिमं बद्धभूमिः जनेन सेन्दूरीक्रियते अरुणीक्रियते सिन्दूरं क्रियते इति वा पाठः । शार्दू'लविक्रीड़ितं वृत्तम् । ॥११॥ सुविदग्धाः क्रीड़ाविषये अभिज्ञाः 'छेकी विदग्ध इति । सीत्कारः जलपतनशैत्यात् सीत् इति शब्दाः । वारस्य समूहस्य विलासिन्यः सर्व्वसामान्याः स्त्रियः गणिकाः । Prose. कीदृशैः कुङ्कुमक्षोदगौरैः कृतदिवसमुखैः पिष्टातकौघैः हेमालङ्कारभाभिः भरनमितशिखरैः कैङ्किरातैः ( अथवा भरनमितशिखैः कैङ्किरातैः शेखरैः—इति पाठः ) वेशाभिलक्ष्यस्वविभवविजिताशेषवित्तेशाकीशा एषा कौशाम्बी शातकुम्भद्रवखचितजना इव एकपीता विभाति ॥ १० ॥ सर्व्वतः धारायन्त्रविमुक्तसन्ततपयःपूरप्लुते सद्यः सान्द्रविमर्द्दकर्द्दमलसत्क्रीड़ प्राङ्गणे चत्वम् उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः चरणन्यासैः जनेन पुरः कुट्टिमं सेन्दूरीक्रियते ( अथवा, पाठान्तरे सिन्दूरं क्रियते ) ॥ ११ ॥ Beng. Trans. দেখ, কুঙ্কুমচূর্ণের ন্যায় অরুণবর্ণ ও ইতস্ততঃ উৎক্ষিপ্ত যে আবীরচূর্ণ ( সকল সময়ে ) প্রত্যূষের সৃষ্টি করিয়াছে, সেই আবীরচূর্ণ ও স্বর্ণালঙ্কারের দীপ্তি, এবং ভারাবনত অশোকপুষ্পের শিখরসমূহ দ্বারা কৌশাম্বীনগরী নিরবচ্ছিন্ন পীতবর্ণ ধারণ করিয়াছে ও ইহার জনসমূহ গলিতসুবর্ণ দ্বারা খচিত বলিয়া মনে হইতেছে ; এবং এই নগরীর বস্ত্রালঙ্কারাদি দর্শনে মনে হইতেছে যে ইহা স্বকীয় বিভব দ্বারা কুবেরের সমস্ত বিত্তসঞ্চয়কে পরাজিত করিয়াছে ॥১০॥

30 রত্নাবলী পুনশ্চ—ধারাযন্ত্রবিমুক্ত অবিচ্ছিন্ন জলপ্রবাহ দ্বারা সমগ্র প্রাঙ্গণ পরিপ্লুত হইলে তথায় জনসমূহ পদনিক্ষেপের দ্বারা সদ্যঃ সমুখিত কর্দ্দমে ক্রীড়া করিতেছে ; এবং উদ্দাম রমণীগণের কপোলস্থল হইতে বিচ্যুত সিন্দূররাগের দ্বারা অরুণিত চরণবিক্ষেপের দ্বারা এই প্রাঙ্গণের দৃঢ়বদ্ধ ভূমিতল ( কুট্টিম ) কিছুক্ষণের জন্য রক্তবর্ণ ধারণ করিতেছে। ১১। Since— Eng. Trans. The city of Kaushambi whose own riches displayed by the garments have surpassed the entire treasury of the lord of wealth, glitters yellow everywhere as if its people are all covered with liquid yellow gold with the scattered heaps of Pistataka (red powder), as red as saffron- powder, imparting the spectacle of day-break ( down ),— and with Ashoka flowers, having their tops bent down under their weight and with the brilliance of golden ornaments. Again,— In the courtyard which has been all through flooded with showers of water continuously issuing from artificial fountains ( or syringes ) the people are playing in the mud created afresh by the heavy tread of feet, ; and the paved floor is rendered red by the people with their foot-prints that are red on account of the vermilion-powders falling from the brow of the boisterous ladies. 11. Jester (Looking)—O dear friend, behold the sporting of the courtesans charming on account of the hissing sound (Sitkara) uttered by them owing to their being struck with the showers of water issuing from the syringes filled with water by the gallants. राजा—( विलोक्य ) वयस्य, सम्यग् दृष्टं भवता¹ । कुतः— अस्मिन् प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ् मणिविभूषणरश्मिजालैः । पातालमुद्यतफणाकृतिमङ्गकोऽयं मामद्य संस्मारयतीव² भुजङ्गलोकः ॥१२॥ 1 ख्या। 2 तौव।

प्रथमोऽङ्कः 31 विदूषकः :—( विलोक्य¹ ) भो वयस्स, पेक्ख पेक्ख । एसा क्खु मदणिआ मदणबसबिसंट्ठु लं बसन्ताभिणअं² णच्चन्ती चूअलदिआए सह इदो ज्जेब्ब आगच्छदित्ति अबलोएदु³ पिअबअस्सो ॥ (क) (क) भो वयस्य, प्रेक्षस्व प्रेक्षस्व । एषा खलु मदनिका मदनवशविसंष्ठुलं वसन्ता- भिनयं नृत्यन्ती चूतलतिकया सह इत एवागच्छतीत्यवलोकयतु प्रियवयस्यः । अस्मिन् मदनमहोत्सवे प्रकीर्णः यः पटवासः पिष्टातकः तेन कृतः अन्धकारः अतिप्रभूतपिष्टातकपटेन सूर्यकिरणाव्यवधानात्, तस्मिन् । मणिमयानि विभूषणानि तेषां रश्मिजालैः । ( सर्पपक्षे ) मणयः एव विभूषणानि तेषां रश्मिजालैः । मनाक् ईषत् दृष्टः उद्यताः उत्थिताः फणा इव आकृति

32 রত্নাবলী অস্পষ্টভাবে দেখা যাইতেছে যে, কামুকগণ সর্পফণাকৃতি পিচকারিগুলি উত্তোলিত করিতেছে। শিরোমণির কিরণসমূহ দ্বারা ঈষৎ দৃষ্ট সর্পগণ শৃঙ্গকাকৃতি ফণা উত্তোলন করিয়া (যে পাতালপুরীতে অবস্থান করে)—ইহা যেন আজ আমাকে সেই পাতালপুরী স্মরণ করাইয়া দিতেছে॥১২॥ বিদূষক—(অবলোকন করিয়া) বয়স্য, দেখুন দেখুন—এই সেই মদনিকা মদনাবেশে ব্যাকুল হইয়া বসন্তকালোচিত নৃত্য করিতে করিতে চূতলতিকার সহিত এইদিকে আসিতেছে। Eng. Trans. King (Looking)—My friend, you have marked well ; for, in this darkness created by the clouds of Patavāsa dust, the host of dissolute people lifting up their syringes shaped like the hoods of snakes, (or snakes lifting up their syringe-like hoods), dimly perceptible through masses of rays of jewel-ornaments (or hood-gems) reminds me of the subterranean world. 12. Jester—Behold, my friend, how this Madaniká accompanied by Chutalatiká is coming towards this direction dancing the Spring-dance (or the dance in the manner suited to the spring season), completety overcome with the influence of the passion of love. ( ततः प्रविशति मदनलीलां नाटयन्त्यौ द्विपदीखण्डं गायन्त्यौ चेट्यौ ) मदनिका¹ ( गायति ) कुसुमाउहपिअदूओ मउलोकिदबहुचूओ। सिढिलिअमाणमहत्थो वाअदि दाहिणपवणओ ॥१३॥ (क) ²विअसिअबउलासोओ ³उक्कण्ठिअपिअमेलओ। पडिवालनअसमत्थो तम्मइ जुवईसत्यओ ॥१४॥ (ख) (क) कुसुमायुधप्रियदूतको मुकुलायितबहुचूतकः। शिथिलितमानमहत्त्वको वाति दक्षिणपवनकः ॥१३॥ (ख) विकसितबकुलाशोक उत्कण्ठितप्रियमेलकः। प्रतिपालनसमर्थस्ताम्यति युवतिसार्थकः ॥१४॥ 1 चेट्यौ। 2 विरलविसट्ठिअ, विअसिअबउलामोअओ। 3 उक्कंठिअपिअजणओ।

प्रथमोऽङ्कः ३३ अथवा— इह पढमं मधुमासो जणस्स हिअआइं कुणइ मिउलाइं । पच्छा बिज्झइ कामो लद्धपसरेहिं कुसुमबाणेहिं ॥१५॥ (ग) (ग) अथवा, इह प्रथमं मधुमासः जनस्य हृदयानि करोति मृदुलानि । पश्चात् विध्यति कामी लब्धप्रसरैः कुसुमबाणैः ॥१५॥ द्विपदी छन्दोविशेषः प्राकृतपैङ्गले उक्तः, कुसुमायुधेति । कुसुमायुधस्य प्रियः दूतः समासान्तः कपप्रत्ययः । दक्षिणपवनस्य कामोद्दीपकत्वाद् इत्यर्थः । मुकुलानि सञ्जातानि एषाम् इति मुकुलायितानि । शिथिलितं शिथिलं कृतं मानस्य अभिमानस्य ग्रन्थणं यस्मिन् इति समासान्त-कप् । दक्षिणपवने प्रवहति मानिनीनां मानशैथिल्यं जायते इत्यर्थः ॥ १३ ॥ विकसितेति ॥ वसन्ते बकुलाशोकानां पुष्पोद्गमः जायते युवतीनां पादताड़नात् मधुगण्डूषदानेन च । उत्कण्ठितः विरहाद् इत्यर्थः, यः प्रियजनः तस्य मेलकः सङ्गमयिता ; वसन्तसमागमे दक्षिणपवने प्रवाति रागातिशयात् अभिमतजनानां परस्परं 'मिलनं सञ्जायते मानापगमात् । प्रतिपालने प्रतीक्षायां असमर्थः । युवतीसार्थकः युवतीसमूहः ताम्यति म्लायति ॥ १४ ॥ इहेति । लब्धप्रसरैः लब्धावकाशैः ॥ १५ ॥ Prose. कुसुमायुधप्रियदूतकः मुकुलायितबहुचूतकः शिथिलितमानग्रन्थकः दक्षिणपवनकः वाति ॥ विकसितवकुलाशोककः उत्कण्ठितप्रियमेलकः प्रतिपालनासमर्थकः युवतीसार्थकः ताम्यति ॥ इह प्रथमं मधुमासः जनस्य हृदयानि मृदुलानि करोति । पश्चात् कामः लब्धप्रसरैः कुसुमबाणैः विध्यति ॥ १३, १४, १५ ॥ Beng. Trans. (অনন্তর মদনাবেশ অভিনয় ও দ্বিপদীখণ্ড নামক সঙ্গীত গান করিতে করিতে দুইজন দাসীর প্রবেশ) মদনিকা—(গান করিতে লাগিল) পুষ্পবাণ মদনের প্রিয়দূত দক্ষিণপবন আম্রতরুসমূহকে মুকুলিত করিয়া মানিনী- গণের মানগ্রন্থি শিথিল করতঃ প্রবাহিত হইতেছে ।১৩। (মুখগণ্ডূষ ও পদতাড়নের দ্বারা) বকুল ও অশোকবৃক্ষকে পুষ্পিত করিয়া উৎকণ্ঠিত 3

34 রত্নাবলী প্রিয়জনের সহিত মিলনের জন্য উৎকণ্ঠা প্রকাশ করতঃ প্রিয়জন-প্রতীক্ষায় অসমর্থ যুবতিবৃন্দ শুকাইয়া যাইতেছে ।।১৪। এইসময়ে বসন্তঋতু জনগণের হৃদয় কোমল করিয়া দেয়, পরে কামদেব অবসর পাইয়া পুষ্পবাণের দ্বারা বিদ্ধ করে। ॥১৫॥ Eng Trans. (Entering two handmaids gesticulating the play of love and singing a Dvipadi song) Madaniká (sings)—The southern breeze, the messenger of the flower-arrowed god, is blowing having caused the mango trees to blossom and softened the sensitiveness of the ladies. 13. The host of youthful ladies having caused the Vakula and Ashoka trees to blossom, longing for union with their dear ones but being unable to wait is pining away. 14. This spring season at this time softens the heart of the people, but the god of love having got the scope pierces (the mind) afterwards with his flowery arrows. 15. राजा—(निर्वर्ण्य)¹—मधुरोऽयमासां² निर्भरः क्रीड़ारसः । तथाहि— स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः क्षोभाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः³ क्रीड़न्त्याः पोड़येव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥१६॥ विदूषकः—भो वयस्स, अहं वि एदाणं बहुपरिअणाणं मज्झे णच्चन्तो मत्तणमङ्गुस्सवं माणिइस्सं⁴। (क) राजा—(सस्मितम्) वयस्य, एवं क्रियताम् । 1 विलोक्य। 2 अहो निर्भरं क्रीड़ारसः परिजनस्य। 3 उर्व्वः।

प्रथमोऽङ्कः 35 विदूषकः—जं भवं आणवेदित्ति। (उत्थाय चेटीमध्ये नृत्यति) भोदि मदणिए भोदि चूदलदिए मंपि एदं चच्चरिअं¹ सिक्खा- वेध (ख) उभे—भो वयस्सहदास, ण क्खु एसा चच्चरी, द्विबदीखण्डं क्खु एदं। (ग) विदूषकः—(सहर्षम्) किं एदिणा खण्डेण मोअआ करी- अन्ति ?(घ) मदनिका—(विहस्य) णहि णहि। पठ्ठोअदि क्खु एदं। (ङ) विदूषकः—(सविषादम्) जइ पठ्ठोअदि ता अलं एदिणा। वरं पिअवअस्ससआसं ज्जेव्व गमिस्सं। (गन्तुमिच्छति।) (च) उभे—एहि कीलह्म। बसन्तअ कहिं गच्छसि ? (इति बहुविधं वसन्तकम् आकर्षतः, विदूषकश्च बलाद् गच्छति)। (छ) (क) भो वयस्य॑, अहमपि एतासां बहुपरिजनानां मध्ये नृत्यन् मदनमहोत्सवं मानयिष्यामि। (ख) यद् भवान् आज्ञापयति इति। भवति मदनिके, भवति चूतलतिके, मामपि एतत् चर्च'रिकं शिक्षयतम्। (ग) भो वयस्यहताश, न खलु एषा चर्च'री, द्विपदीखण्ड' खलु एतत् । (घ) किम् एतेन खण्डे'न मोदकाः क्रियन्ते ? (ङ) नहि नहि, पठ्यते खलु एतत् । (च) यदि पठ्यते तत् अलम् एतेन । वरं प्रियवयस्यसकाशं गच्छामि । (छ) एहि क्रीड़ामः, वसन्तक कुत्र गच्छसि ? निर्भरं: अतिमात्रः । निर्भरत्वस्य कारण' विशदयति स्रस्त इति । स्तनभरेण विनमत् आनतप्रायं यत् मध्य' कटिदेशः तस्य तस्मिन् भङ्गः तस्मिन् अनपेक्षा अनवधानं यस्याः यथा स्यात् तथा, नृत्यविक्षिप्तचेतसः मध्यभङ्ग' प्रति औदासीन्यमिति भावः। क्रीड़न्त्याः लीलायाः 1 चर्चिरिं ।

, there is a colon! "বিদূষক:—(আনন্দে)" And look at "খণ্ডের ( মিছরীর )": there are spaces inside parentheses! "( মিছরীর )" Line 22: "মদনিকা—(হাসিয়া) না না, ইহা কেবল পাঠ করা হয়।" Line 23: "বিদূষক:—(বিষাদের সহিত) যদি ইহা পাঠ করা হয়, তাহা হইলে ইহাতে আমার" Notice again: "বিদূষক:—"! Line 24: "প্রয়োজন কি ? বরং প্রিয় বয়স্যের নিকট যাইব। ( যাইতে উদ্যত )" Wait, look at "( যাইতে উদ্যত )" - space after ( and before )? In line 24: "( যাইতে উদ্যত )" - yes, "( যাইতে উদ্যত )" Line 25: "উভয়ে—এস, আমরা ক্রীড়া করি ; বসন্তক, তুমি কোথায় যাইতেছ ? (এই বলিয়া" Wait, look at the semicolon and question mark: "করি ;", "যাইতেছ ?" Line 26: "উভয়ে বহু প্রকারে বসন্তককে আকর্ষণ করিল এবং বিদূষক বলপূর্ব্বক চলিয়া গেল)" Line 27: "Eng. Tran.—King (Looking with wonder)—oh, how great is" Wait, is "oh" capitalized or lowercase? "—oh, how great is" (lowercase 'o'!). Line 28: "the fondness of our female attendants

प्रथमोऽङ्कः [r]37 lady having danced being regardless of the middle part (waist) of her body being broken owing to its being bent down under the weight of the breasts,—the mass of her dishevelled hair being scattered is forsaking the beauty of chaplets on her head ; these two anklets in her feet are screaming doubly ; and the necklace being tossed on account of continuous trembling is striking her breast out of pain as it were. 16. Jester—O friend, I like to congratulate this Cupid-festival by dancing and singing in the midst of these two. King—(Smiling) Let it be done (by you). Jester—(Rises up and dances in the midst of the two maid- servants) O lady Madaniká, O lady Chutalatiká, please help me to learn this Charchari (a kind of song with clapping). Both—(Laughing) Oh unfortunate one, it is not a Charchari but a song of Dvipadikhanda metre. Jester—( Rejoicing ) Are sweets made out of

38 रत्नावली मदनिका—एहि तरह्मा । (ग) उभे—(उपसृत्य) जेदु जेदु भट्ठा । भट्ठा देवी आणवेदि (इत्यर्धोक्ते लज्जां नाटयन्त्यौ) णहि णहि विण्णवेदि । [घ] राजा—(सहर्षं विहस्य सादरम् ) नन्वाज्ञापयतीत्येव रमणीयम् । विशेषतोऽद्य मदनमहोत्सवे । तत् कथय किमाज्ञापयति देवी । विदूषकः—आः दासीए धीए ! किं देवी आणवेदि ? (ङ) चेट्यौ—एव्वं देवी विण्णवेदि—अज्ज क्खु मए मअरंदुज्जाणं गदुअ रत्तासोअपायवदलसंठाविदस्स भगवदो कुसुमाउहस्स पूजा णिव्वत्तइदव्वा । तहिं अत्ताउत्तेण संणिहिदेण होदव्वम् । (च) राजा—(सानन्दम्) वयस्य, ननु वक्तव्यमुत्सवादुत्सवा- न्तरमापतितम् । [L1

प्रथमोऽङ्कः 39 तलसंस्थापितस्य भगवतः कुसुमायुधस्य पूजा निर्व्वर्तयितव्या। तत्र आर्य्यपुत्रेण सन्निहितेन भवितव्यम्। (ज) भो वयस्य, उत्तिष्ठ तत्र एव गच्छावः येन तत्र गतस्य ब्राह्मणबालकस्य मे स्वस्तिवाचनं किमपि भविष्यति। Beng. Trans. বিদূষক—(রাজার নিকটে যাইয়া) বয়স্য, নৃত্য করিয়াছি। না না, আমি ক্রীড়া করিয়া পলায়ন করিয়াছি। রাজা—ভালই করিয়াছ। চূতলতিকা—হাঁ, মদনিকে! আমরা অনেকক্ষণ ক্রীড়া করিয়াছি। অতএব, এস, মহারাজের নিকট মহিষীর সংবাদ দিই। মদনিকা—এস, শীঘ্র যাওয়া যাক্। উভয়ে—(পরিক্রমণপূর্ব্বক সমীপবর্ত্তিনী হইয়া) মহারাজের জয় হউক। মহারাজ মহিষী আদেশ করিয়াছেন—(এইরূপ অর্দ্ধেক বলিয়া—লজ্জার সহিত) না, না বিজ্ঞপ্তি করিয়াছেন— রাজা—(সহর্ষে আদর করিয়া হাসিতে হাসিতে) মদনিকে, আজ্ঞা করিয়াছেন— এইরূপ (বাক্য) অত্যন্ত মনোরম—বিশেষতঃ আজ মদনমহোৎসবে। তা বল, মহিষী কি আদেশ করিয়াছেন? বিদূষক—অরে দাসীপুত্রি! মহিষী কি আদেশ করিয়াছেন? উভয়ে—দেবী এইরূপ বিজ্ঞপ্তি করিয়াছেন—আজ আমি মকরন্দ-উদ্যানে গিয়া রক্তা- শোকতরুমূলে স্থাপিত ভগবান্ কুসুমাযুধের পূজা সমাপ্ত করিব। তথায় আর্য্যপুত্রকে সন্নিহিত থাকিতে হইবে। রাজা—(আনন্দের সহিত) বয়স্য, নিশ্চয়ই বলিতে হইবে যে এক উৎসবের পর অন্য একটা উৎসব আসিয়া পড়িয়াছে। বিদূষক—হে বয়স্য, গাত্রোত্থান করুন, সেইখানেই যাওয়া যাক; কারণ সেখানে গেলে এই ব্রাহ্মণপুত্রের কিছু স্বস্তিবাচন মিলিবে (দান পাওয়া যাইবে)। Eng. Trans. Jester (Approaching the King)—Friend, I have danced ; no no, I have escaped after a fun. King—It is well done.

40 रत्नावली Chuta—Hallo Madaniká, we have danced for a long time. Let us now go and report the message of the Queen to the King. Madaniká—Friend, let us be in haste. Both—(Walking around and approaching) Victory to your Majesty ! Your Majesty, . the Queen has ordered—(feeling abashed when half-uttered) ; no no, the Queen has informed— King—( Rejoicing and laughing ) Oh Madaniká, the expression namely that 'the Queen has ordered' is charming (to hear) specially in this Cupid-festival to-day. However, please say what is ordered by the Queen. Jester—O you harlot's daughter ! what is the order of the Queen ? Both—Thus informs the Queen—'To day I shall finish the worship in honour of the flower-weaponed god consecrated under the red Ashoka tree within the Makaranda garden where my husband will have to remain present.' King—(Rejoicing) Friend, surely it is to be said that a second festivity is come after the first one. Jester—O friend, get up. Let us go there, 'as having gone there this Bráhmana lad will receive some gifts (or food) by Svastiváchana (invocation of blessings). राजा—मदनिके, गम्यतां देव्यै निवेदयितुम् अयमहमागत एव मकरन्दोद्यानमिति। चेट्यौ—जं भट्टा आणवेदि। (इति निष्क्रान्ते) (क) राजा—वयस्य ! आदेशय मकरन्दोद्यानस्य मार्गम्। विदूषकः—एदु एदु भट्टा¹। (ख)

  1. भवं।

प्रथमोऽङ्कः 41 ( इति परिक्रामतः ) विदूषकः—( अग्रतोऽवलोक्य ) एदं^१ मकरंदुज्जाणं, ता एहि पबिसह्म । (ग) ( इति प्रविशतः ) विदूषकः—(अवलोक्य सविस्मयम्) भो महाराज^२ ! पेक्ख पेक्ख दाव एदं क्खु मलयमारुदंदोलिद^३-मउलन्त^४सहआरमञ्जरी- रेणुपडलपडिवद्धपडविभाणं मत्तमहुअरमुक्कझङ्कारमिलिट- कोइला^५लावसंगोदसुहावहं तुह्मागमणदंसिआदरं विअ मअर'- दुज्जाणं लक्खीअदि । ता पबिसदु भवं । (घ) राजा—(समन्तादवलोक्य) अहो मकरन्दोद्यानस्य परा श्री:^६ ! इह हि— उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो भृङ्गालीविरुतैः कलैरविशदव्याहारलीलाभृतः । घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहु- र्भ्रान्तिं^७प्राप्यमधुप्रसङ्ग^८जनितां मत्ता इवामी द्रुमाः ॥२७॥ (क) यद् भर्त्ता आज्ञापयति । (ख) एतु एतु भर्त्ता । (ग) एतत् मकरन्दोद्यानं ; तदेहि प्रविशावः । (घ) भो महाराज ! प्रेक्षस्व प्रेक्षस्व तावदेतत् खलु मलयमारुतान्दोलितमुकुलायमान- सहकारमञ्जरीरेणुपटलप्रतिबद्धपटवितानं मत्तमधुकर-मुक्तझङ्कार-मिलित-कोकिलालाप- सङ्गीतसुखावहं तवागमनदर्शितादरमिव मकरन्दोद्यानं लक्ष्यते । तत् प्रविशतु भवान् ।

  1. भो एदं । 2. वयस्य । 3. मारुद'दोलण' । 4. पफुल्लन्त । 5. कोइलाव ।
  2. रम्यता । 7. भ्रान्ति । 8. मधुप्रसङ्गमधुना ।

42 रत्नावली मलयमारुतेत्यादि मकरन्दोद्यानस्य विशेषणम्। मलयमारुतेन आन्दोलिताः कम्पिताः मुकुलायमानाः सहकारमञ्जर्य्यः तासां रेणुपटलेन प्रतिक्षणं सन्नहं विरचितमिति यावत् पटवितानं चन्द्रातपः यस्मिन् तत्। चूतमञ्जरीणां रेणुपटलेन उद्याने चन्द्रातपः विरचित इति भावः। कोकिलालापः कोकिलखनः कोकिलाराव इति वा पाठः। उद्यानस्य शोभां वर्णयति उद्यदित्यादिना। उद्यताम् उद्गच्छतां विद्रुमाणां प्रवालानां--'विद्रुमो रत्नवृक्षेऽपि प्रवालेऽपि पुमानयम्' इति मेदिनी—कान्तिरिव कान्तिर्येषां तैः किसलयैः पल्लवैः तासां तादृग्वर्णां त्विषं कान्तिं बिभ्रतः धारयन्तः द्रुमा इति शेषः। कलै मधुरैः भृङ्गाली भ्रमरसमूहः तस्याः विकृतैः झङ्कृतैः अविशदः अस्पष्टः यो व्याहारः भाषितं 'व्याहार उक्तिर्लपितं भाषितम्' इत्यमरः। तस्य लीलां बिभ्रति ये ते, मत्ता अपि मदावेशात् अस्पष्टोक्तिं कुर्व्वन्ति इति भावः। मलयामिलस्य आहतिभिः ताड़नैः चलैः चञ्चलैः शाखासमूहैः मुहुः घूर्णन्तः भ्रमन्तः। मत्ता अपि मादकत्वप्रभावात् इतश्चेतश्च भ्रमन्ति इति भावः। एतादृशाः द्रुमाः मधुप्रसङ्गः (द्रुमपक्षे) मधोः वसन्तकालस्य, तथा च मधुनः मद्यस्य प्रसङ्गः सम्पर्कः तेन जनितां भ्रान्तिं भ्रमणं भ्रमञ्च प्राप्य मत्ता इव दृश्यन्ते इति भावः। भान्तीति पाठे द्रुमाः अधुना मधुप्रसङ्गं प्राप्य मत्ता इव भान्तीति अन्वयः। अत्र श्लेषानुप्राणितोत्प्रेक्षालङ्कारः। शार्दूलविक्रीड़ितं वृत्तम् ॥१७॥ Prose. उद्यद्विद्रुमकान्तिभिः किसलयैः तासां त्विषं बिभ्रतः कलैः भृङ्गालीविकृतैः अविशदव्याहारलीलाभृतः मलयानिलाहतिचलैः शाखासमूहैः मुहुः घूर्णन्तः अमी द्रुमाः मधुप्रसङ्गजनितां भ्रान्तिं प्राप्य मत्ताः इव (दृश्यन्ते)। (अथवा पाठान्तरे—अमी द्रुमाः अधुना मधुप्रसङ्गं प्राप्य मत्ता इव भान्ति) ॥१७॥ Beng. Trans. রাজা—মদনিকে, যাও গিয়া দেবীকে জানাও যে আমি এখনই মকরন্দোদ্যানে আসিতেছি। উভয়ে—যাহা মহারাজ আদেশ করেন। (উভয়ে নিষ্ক্রান্ত) রাজা—বয়স্য, মকরন্দোদ্যানে পথ দেখাও। বিদূষক—আসুন, আসুন, মহারাজ!

प्रथमोऽङ्कः 43 ( দুইজনে প্রবেশ করিয়া ) বিদূষক—( বিস্ময়ের সহিত অবলোকন করিয়া ) মহারাজ, দেখুন দেখুন, মলয়- পবনের দ্বারা আন্দোলিত মুকুলিত চূতমঞ্জরীর রেণুসমূহ দ্বারা একটা চন্দ্রাতপ বিরচিত করিয়া এবং মত্ত মধুকরসমূহের ঝঙ্কারমিশ্রিত কোকিলস্বররূপ সঙ্গীতের দ্বারা সুখাবহ হইয়া যেন মকরন্দোদ্যান আপনার আগমনের জন্য সাদর অভিনন্দন প্রকাশ করিতেছে। অতএব আপনি প্রবেশ করুন। রাজা—(চতুর্দ্দিকে অবলোকন করিয়া) আহা মকরন্দোদ্যানের কি শোভাতিশয় ! এখানে— সমুদ্গত প্রবালের ন্যায় কান্তিবিশিষ্ট পল্লবসমূহের দ্বারা-তাম্রবর্ণ আভা ধারণ করিয়া ভৃঙ্গসমূহের মধুর গুঞ্জনের দ্বারা অস্পষ্ট ভাষার বিলাস প্রকাশ করতঃ মলয়ানিল-তাড়নে চঞ্চল শাখাসমূহ দ্বারা মুহুর্মুহুঃ আন্দোলিত হইয়া বৃক্ষ সকল মধুসম্পর্ক ( মধু—বসন্ত অথবা মদ্য)-জনিত ভ্রান্তি (ভ্রম অথবা ভ্রমণ) লাভ করিয়া উন্মত্তের ন্যায় দেখা যাইতেছে। (পাঠান্তরে—এই বৃক্ষ সকল এখন মধুসংসর্গ পাইয়া উন্মত্তের ন্যায় শোভা পাইতেছে ) ।।৭।। Eng. Trans. King—O Madaniká, go and inform the Queen that I am just coming to the Makaranda garden. Both—As your Majesty commands. (Both exeunt) King—O fsiend, show me the path to the Makaranda garden. Jester—This way, this way, Sire. (Both enter) Jester (Looking with wonder)—behold, behold, here is the Makaranda garden that has formed a canopy by a cloud of polens of the newly sprouted mango-blossoms shaken by the southern breeze and that appears pleasant on account of the song in the form of the sweet notes of cuckoos mingled with the sweet humming sound made by the maddened black bees and thus looks ready, as it were, to welcome your approach with due respect. Therefore, please enter it.