रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 80, कुल 520 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः 35 विदूषकः—जं भवं आणवेदित्ति। (उत्थाय चेटीमध्ये नृत्यति) भोदि मदणिए भोदि चूदलदिए मंपि एदं चच्चरिअं¹ सिक्खा- वेध (ख) उभे—भो वयस्सहदास, ण क्खु एसा चच्चरी, द्विबदीखण्डं क्खु एदं। (ग) विदूषकः—(सहर्षम्) किं एदिणा खण्डेण मोअआ करी- अन्ति ?(घ) मदनिका—(विहस्य) णहि णहि। पठ्ठोअदि क्खु एदं। (ङ) विदूषकः—(सविषादम्) जइ पठ्ठोअदि ता अलं एदिणा। वरं पिअवअस्ससआसं ज्जेव्व गमिस्सं। (गन्तुमिच्छति।) (च) उभे—एहि कीलह्म। बसन्तअ कहिं गच्छसि ? (इति बहुविधं वसन्तकम् आकर्षतः, विदूषकश्च बलाद् गच्छति)। (छ) (क) भो वयस्य॑, अहमपि एतासां बहुपरिजनानां मध्ये नृत्यन् मदनमहोत्सवं मानयिष्यामि। (ख) यद् भवान् आज्ञापयति इति। भवति मदनिके, भवति चूतलतिके, मामपि एतत् चर्च'रिकं शिक्षयतम्। (ग) भो वयस्यहताश, न खलु एषा चर्च'री, द्विपदीखण्ड' खलु एतत् । (घ) किम् एतेन खण्डे'न मोदकाः क्रियन्ते ? (ङ) नहि नहि, पठ्यते खलु एतत् । (च) यदि पठ्यते तत् अलम् एतेन । वरं प्रियवयस्यसकाशं गच्छामि । (छ) एहि क्रीड़ामः, वसन्तक कुत्र गच्छसि ? निर्भरं: अतिमात्रः । निर्भरत्वस्य कारण' विशदयति स्रस्त इति । स्तनभरेण विनमत् आनतप्रायं यत् मध्य' कटिदेशः तस्य तस्मिन् भङ्गः तस्मिन् अनपेक्षा अनवधानं यस्याः यथा स्यात् तथा, नृत्यविक्षिप्तचेतसः मध्यभङ्ग' प्रति औदासीन्यमिति भावः। क्रीड़न्त्याः लीलायाः 1 चर्चिरिं ।