रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 71, कुल 520 में से
संदर्भ में पढ़ें26 रत्नावली feels a unique joy ; but as regards the god of love, he merely attains satisfaction by the festivity being celebrated in his name only. This shows how king Udayana was a dutiful king and much light is thrown on his character by this stanza. विदूषकः—( सहर्षम् ) भो वयस्स, एव्वं णेदं। अहं उण जानामि ण भबदो ण कामदेवस्स मम ज्जेब्ब एक्कस्स बह्मणस्स¹ अयं मअणमहुस्सबो जेण² पियवयस्सेण एव्वं मन्तोअदि। ( विलोक्य ) ता किं उण इमिणा। पेक्ख दाव इमस्स महुमत्त- कामिणीजणसअंगाहग्गहिदसिङ्गकजलप्पहारणच्चन्तणाअरजणज- णिदकोदूहलस्स समन्तदो सुब्बत्त³महल्लुद्दामचच्चरीसद्दमुहर- रच्छामुहसोहिणो पइण्णपड़वासपुञ्जपिञ्जरिज्जन्त⁴दिसामुहस्स सिरिअं⁵ मअण-महुस्सबस्स। (क) राजा—( सहर्षं समन्तादवलोक्य ) अहो, परां कोटिमधिरोहति प्रमोदः पौराणाम्। (क) भो वयस्य, एवं न्विदम्। अहं पुनर्ज्ञानामि न भवतः न कामदेवस्य मम एव एकस्य ब्राह्मणस्य मदनमहोत्सवो येन प्रियवयस्येन एवं मन्यते। तत् किं पुनरनेन। प्रेक्षस्व तावत् अस्य मधुमत्तकामिनीजनस्वयंग्राहगृहीतशृङ्गकजलप्रहारनृत्यन्नागरजनजनितकौतूहलस्य समन्ततः सुवृत्तमहल्लोद्दामचर्चरीशब्दमुखररथ्यामुखशोभिनः प्रकीर्णपट-वासपुञ्जपिञ्जरीकृत- दिशामुखस्य श्रियं मदनमहोत्सवस्य। भो वयस्य इति। वयस्य इति राजानमुद्दिश्य सम्बुद्धिः। 'वयस्य राजन्निति भवेद् वाच्यो महीपतिः'—इति भरते। अयमेव उत्सवः अस्य ब्राह्मणस्य न वायं तव न वा कामदेवस्य। मधुना वसन्तोत्सवेन मत्तः कामिनीजनः तस्य स्वयं ग्राहः स्वेच्छया ग्रहणं तेन गृहीतानि यानि शृङ्गकानि (पिचकारीति भाषा ) तन्निर्गतं जलं तस्य प्रहारः तेन नृत्यन्तः पौराः ये जनाः तैः जनितं कौतूहलं यस्मिन् तस्य मदनमहोत्सवस्य 1 बह्मणस्स अयं। 2 जह्म। 3 सुब्भन्त। 4 दइ। 5 ससिरिचदं।