रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 87, कुल 520 में से
संदर्भ में पढ़ें42 रत्नावली मलयमारुतेत्यादि मकरन्दोद्यानस्य विशेषणम्। मलयमारुतेन आन्दोलिताः कम्पिताः मुकुलायमानाः सहकारमञ्जर्य्यः तासां रेणुपटलेन प्रतिक्षणं सन्नहं विरचितमिति यावत् पटवितानं चन्द्रातपः यस्मिन् तत्। चूतमञ्जरीणां रेणुपटलेन उद्याने चन्द्रातपः विरचित इति भावः। कोकिलालापः कोकिलखनः कोकिलाराव इति वा पाठः। उद्यानस्य शोभां वर्णयति उद्यदित्यादिना। उद्यताम् उद्गच्छतां विद्रुमाणां प्रवालानां--'विद्रुमो रत्नवृक्षेऽपि प्रवालेऽपि पुमानयम्' इति मेदिनी—कान्तिरिव कान्तिर्येषां तैः किसलयैः पल्लवैः तासां तादृग्वर्णां त्विषं कान्तिं बिभ्रतः धारयन्तः द्रुमा इति शेषः। कलै मधुरैः भृङ्गाली भ्रमरसमूहः तस्याः विकृतैः झङ्कृतैः अविशदः अस्पष्टः यो व्याहारः भाषितं 'व्याहार उक्तिर्लपितं भाषितम्' इत्यमरः। तस्य लीलां बिभ्रति ये ते, मत्ता अपि मदावेशात् अस्पष्टोक्तिं कुर्व्वन्ति इति भावः। मलयामिलस्य आहतिभिः ताड़नैः चलैः चञ्चलैः शाखासमूहैः मुहुः घूर्णन्तः भ्रमन्तः। मत्ता अपि मादकत्वप्रभावात् इतश्चेतश्च भ्रमन्ति इति भावः। एतादृशाः द्रुमाः मधुप्रसङ्गः (द्रुमपक्षे) मधोः वसन्तकालस्य, तथा च मधुनः मद्यस्य प्रसङ्गः सम्पर्कः तेन जनितां भ्रान्तिं भ्रमणं भ्रमञ्च प्राप्य मत्ता इव दृश्यन्ते इति भावः। भान्तीति पाठे द्रुमाः अधुना मधुप्रसङ्गं प्राप्य मत्ता इव भान्तीति अन्वयः। अत्र श्लेषानुप्राणितोत्प्रेक्षालङ्कारः। शार्दूलविक्रीड़ितं वृत्तम् ॥१७॥ Prose. उद्यद्विद्रुमकान्तिभिः किसलयैः तासां त्विषं बिभ्रतः कलैः भृङ्गालीविकृतैः अविशदव्याहारलीलाभृतः मलयानिलाहतिचलैः शाखासमूहैः मुहुः घूर्णन्तः अमी द्रुमाः मधुप्रसङ्गजनितां भ्रान्तिं प्राप्य मत्ताः इव (दृश्यन्ते)। (अथवा पाठान्तरे—अमी द्रुमाः अधुना मधुप्रसङ्गं प्राप्य मत्ता इव भान्ति) ॥१७॥ Beng. Trans. রাজা—মদনিকে, যাও গিয়া দেবীকে জানাও যে আমি এখনই মকরন্দোদ্যানে আসিতেছি। উভয়ে—যাহা মহারাজ আদেশ করেন। (উভয়ে নিষ্ক্রান্ত) রাজা—বয়স্য, মকরন্দোদ্যানে পথ দেখাও। বিদূষক—আসুন, আসুন, মহারাজ!