रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 78, कुल 520 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ३३ अथवा— इह पढमं मधुमासो जणस्स हिअआइं कुणइ मिउलाइं । पच्छा बिज्झइ कामो लद्धपसरेहिं कुसुमबाणेहिं ॥१५॥ (ग) (ग) अथवा, इह प्रथमं मधुमासः जनस्य हृदयानि करोति मृदुलानि । पश्चात् विध्यति कामी लब्धप्रसरैः कुसुमबाणैः ॥१५॥ द्विपदी छन्दोविशेषः प्राकृतपैङ्गले उक्तः, कुसुमायुधेति । कुसुमायुधस्य प्रियः दूतः समासान्तः कपप्रत्ययः । दक्षिणपवनस्य कामोद्दीपकत्वाद् इत्यर्थः । मुकुलानि सञ्जातानि एषाम् इति मुकुलायितानि । शिथिलितं शिथिलं कृतं मानस्य अभिमानस्य ग्रन्थणं यस्मिन् इति समासान्त-कप् । दक्षिणपवने प्रवहति मानिनीनां मानशैथिल्यं जायते इत्यर्थः ॥ १३ ॥ विकसितेति ॥ वसन्ते बकुलाशोकानां पुष्पोद्गमः जायते युवतीनां पादताड़नात् मधुगण्डूषदानेन च । उत्कण्ठितः विरहाद् इत्यर्थः, यः प्रियजनः तस्य मेलकः सङ्गमयिता ; वसन्तसमागमे दक्षिणपवने प्रवाति रागातिशयात् अभिमतजनानां परस्परं 'मिलनं सञ्जायते मानापगमात् । प्रतिपालने प्रतीक्षायां असमर्थः । युवतीसार्थकः युवतीसमूहः ताम्यति म्लायति ॥ १४ ॥ इहेति । लब्धप्रसरैः लब्धावकाशैः ॥ १५ ॥ Prose. कुसुमायुधप्रियदूतकः मुकुलायितबहुचूतकः शिथिलितमानग्रन्थकः दक्षिणपवनकः वाति ॥ विकसितवकुलाशोककः उत्कण्ठितप्रियमेलकः प्रतिपालनासमर्थकः युवतीसार्थकः ताम्यति ॥ इह प्रथमं मधुमासः जनस्य हृदयानि मृदुलानि करोति । पश्चात् कामः लब्धप्रसरैः कुसुमबाणैः विध्यति ॥ १३, १४, १५ ॥ Beng. Trans. (অনন্তর মদনাবেশ অভিনয় ও দ্বিপদীখণ্ড নামক সঙ্গীত গান করিতে করিতে দুইজন দাসীর প্রবেশ) মদনিকা—(গান করিতে লাগিল) পুষ্পবাণ মদনের প্রিয়দূত দক্ষিণপবন আম্রতরুসমূহকে মুকুলিত করিয়া মানিনী- গণের মানগ্রন্থি শিথিল করতঃ প্রবাহিত হইতেছে ।১৩। (মুখগণ্ডূষ ও পদতাড়নের দ্বারা) বকুল ও অশোকবৃক্ষকে পুষ্পিত করিয়া উৎকণ্ঠিত 3