रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 99, कुल 520 में से
संदर्भ में पढ़ें54 रत्नावली विभ्राजसे मकरकेतनमर्च्चयन्ती बालप्रवालविटपि-प्रभवा लतेव ॥२०॥ अपिच— स्पृष्टस्त्वयैष¹ दयिते ! स्मरपूजाव्यापृतेन हस्तेन । उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यतेऽशोकः ॥२१॥ अपिच— अनङ्गोऽयमनङ्गत्वमद्य निन्दति ध्रुवम् । यदनेन न सम्प्राप्तः पाणिसंस्पर्शोत्सवस्तव ॥२२॥ काञ्चन—भट्टिणि ! अच्चिदो भअवं पज्जुम्णो । ता करेहि भत्तुणो पूजासक्कारं² । (क) वासव—तेण हि उवणेहि मे कुसुमाईं विलेवणं च । (ख) काञ्चन—भट्टिणि ! एदं सब्बं सज्जं । (ग) ( वासवदत्ता गन्धेन राजानं पूजयति ) (क) भर्त्रि, अर्चितः भगवान् प्रद्युम्नः । तत् कुरु भर्तुः पूजासत्कारम् । (ख) तेन हि उपनय मे कुसुमानि विलेपनञ्च । (ग) भर्त्रि, एतत् सर्व्वं सज्जम् । प्रत्ययेति । प्रत्यग्रः नूतनः यः मज्जनविशेषः स्नानविशेषः तेन विविक्ता शुद्धा कान्तिः शोभा यस्याः सा । ( लतापक्षे ) सद्यः मज्जनविशेषः सेचनविशेषः इति शेषं पूर्व्ववत् । कुसुमभं पुष्पविशेषः तस्य इदमिति कौसुम्भः यः रागः लौहित्यम् इत्यर्थः । तेन रुचिरः शोभितः स्फुरन् विलसन् च अंशुकानां वस्त्राञ्चलं यस्याः सा । नियमपालनात् वासवदत्ता लोहितवस्त्रं परिदधाना चासीदित्यर्थः । (लतापक्षे) कौसुम्भं कुसुमस्य इदम् इति तद्वत् रागः लौहित्यं तेन रुचिरा चार्वी स्फुरद्भिः अंशुभिः किरणैः सूर्यकिरणैः कान्ता रमणीया मकर- केतनं कामदेवम् अर्च्चयन्ती बालः नवोद्गतः प्रबालः यस्य सः विटपी वृक्षः प्रभवः उत्पत्ति- 1 स्वयैव । 2 उददं पूजासक्कारं ।