ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 101, कुल 249 में से
संदर्भ में पढ़ें॥ एकोनविंशोऽध्यायः ॥
ऋभुः -
ब्रह्मानन्दं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् । यस्य श्रवणमात्रेण सदा मुक्तिमवाप्नुयात् ॥ १९.१॥
परमानन्दोऽहमेवात्मा सर्वदानन्दमेव हि । पूर्णानन्दस्वरूपोऽहं चिदानन्दमयं जगत् ॥ १९.२॥
सदानन्तमनन्तोऽहं बोधानन्दमिदं जगत् । बुद्धानन्दस्वरूपोऽहं नित्यानन्दमिदं मनः ॥ १९.३॥
केवलानन्दमात्रोऽहं केवलज्ञानवानहम् । इति भावय यत्नेन प्रपञ्चोपशमाय वै ॥ १९.४॥
सदा सत्यं परं ज्योतिः सदा सत्यादिलक्षणः । सदा सत्यादिहीनात्मा सदा ज्योतिः प्रियो ह्यहम् ॥ १९.५॥
नास्ति मिथ्याप्रपञ्चात्मा नास्ति मिथ्या मनोमयः । नास्ति मिथ्याभिधानात्मा नास्ति चित्तं दुरात्मवान् ॥ १९.६॥
नास्ति मूढतरो लोके नास्ति मूढतमो नरः । अहमेव परं ब्रह्म अहमेव स्वयं सदा ॥ १९.७॥
इदं परं च नास्त्येव अहमेव हि केवलम् । अहं ब्रह्मास्मि शुद्धोऽस्मि सर्वं ब्रह्मैव केवलम् ॥ १९.८॥
जगत्सर्वं सदा नास्ति चित्तमेव जगन्मयम् । चित्तमेव प्रपञ्चाख्यं चित्तमेव शरीरकम् ॥ १९.९॥
चित्तमेव महद्दोषं चित्तमेव हि बालकः । चित्तमेव महोत्साहं चित्तमेव महानसत् ॥ १९.१०॥
चित्तमेव हि मिथ्यात्मा चित्तं शशविषाणवत् । चित्तं नास्ति सदा सत्यं चित्तं वन्ध्याकुमारवत् ॥ १९.११॥
चित्तं शून्यं न सन्देहो ब्रह्मैव सकलं जगत् । अहमेव हि चैतन्यं अहमेव हि निर्गुणम् ॥ १९.१२॥
मन एव हि संसारं मन एव हि मण्डलम् । मन एव हि बन्धत्वं मन एव हि पातकम् ॥ १९.१३॥