भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 102, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 102

मन एव महद्दुःखं मन एव शरीरकम् ।
मन एव प्रपञ्चाख्यं मन एव कलेवरम् ॥ १९.१४॥

मन एव महासत्यं मन एव चतुर्मुखः ।
मन एव हरिः साक्षात् मन एव शिवः स्मृतः ॥ १९.१५॥

मन एवेन्द्रजालाख्यं मनः संकल्पमात्रकम् ।
मन एव महापापं मन एव दुरात्मवान् ॥ १९.१६॥

मन एव हि सर्वाख्यं मन एव महद्भयम् ।
मन एव परं ब्रह्म मन एव हि केवलम् ॥ १९.१७॥

मन एव चिदाकारं मन एव मनायते ।
चिदेव हि परं रूपं चिदेव हि परं पदम् ॥ १९.१८॥

परं ब्रह्मोऽहमेवाद्य परं ब्रह्मोऽहमेव हि ।
अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९.१९॥

अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः ।
अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ १९.२०॥

अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् ।
अहं नित्यो न संदेह अहं बुद्धिः प्रियः सदा ॥ १९.२१॥

अहमेवाहमेवैकः अहमेवाखिलामृतः ।
अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ १९.२२॥

अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १९.२३॥

अहंकारं न मे दुःखं न मे दोषं न मे सुखम् ।
न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ १९.२४॥

न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् ।
न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ १९.२५॥

न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता ।
न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ १९.२६॥

न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् ।
न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ १९.२७॥

न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् ।
न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ १९.२८॥