भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

मन एव महद्दुःखं मन एव शरीरकम् ।
मन एव प्रपञ्चाख्यं मन एव कलेवरम् ॥ १९.१४॥

मन एव महासत्यं मन एव चतुर्मुखः ।
मन एव हरिः साक्षात् मन एव शिवः स्मृतः ॥ १९.१५॥

मन एवेन्द्रजालाख्यं मनः संकल्पमात्रकम् ।
मन एव महापापं मन एव दुरात्मवान् ॥ १९.१६॥

मन एव हि सर्वाख्यं मन एव महद्भयम् ।
मन एव परं ब्रह्म मन एव हि केवलम् ॥ १९.१७॥

मन एव चिदाकारं मन एव मनायते ।
चिदेव हि परं रूपं चिदेव हि परं पदम् ॥ १९.१८॥

परं ब्रह्मोऽहमेवाद्य परं ब्रह्मोऽहमेव हि ।
अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९.१९॥

अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः ।
अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ १९.२०॥

अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् ।
अहं नित्यो न संदेह अहं बुद्धिः प्रियः सदा ॥ १९.२१॥

अहमेवाहमेवैकः अहमेवाखिलामृतः ।
अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ १९.२२॥

अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १९.२३॥

अहंकारं न मे दुःखं न मे दोषं न मे सुखम् ।
न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ १९.२४॥

न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् ।
न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ १९.२५॥

न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता ।
न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ १९.२६॥

न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् ।
न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ १९.२७॥

न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् ।
न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ १९.२८॥

केवलम् ब्रह्ममात्रत्वात् केवलं स्वयमेव हि ।
न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥ १९.२९॥

न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः ।
न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥ १९.३०॥

सर्वं ब्रह्मैकरूपत्वादेकं ब्रह्मेति निश्चितम् ।
ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ १९.३१॥

ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि ।
आत्मनोऽन्यत् सदा नास्ति आत्मैवाहं न संशयः ॥ १९.३२॥

आत्मनोऽन्यत् सुखं नास्ति आत्मनोऽन्यदहं न च ।
ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥ १९.३३॥

न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदम् ।
न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥ १९.३४॥

न मे बलं न चण्डालौ न मे विप्रादिवर्गकम् ।
न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥ १९.३५॥

न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् ।
अहं ब्रह्मैकमात्रत्वात् नित्यत्वान्यन्न किञ्चन ॥ १९.३६॥

न मतं न च मे मिथ्या न मे सत्यं वपुः क्वचित् ।
अहमित्यपि नास्त्येव ब्रह्म इत्यपि नाम वा ॥ १९.३७॥

यद्यद्यद्यत्प्रपञ्चोऽस्ति यद्यद्यद्यद्गुरोर्वचः ।
तत्सर्वं ब्रह्म एवाहं तत्सर्वं चिन्मयं मतम् ॥ १९.३८॥

चिन्मयं चिन्मयं ब्रह्म सन्मयं सन्मयं सदा ।
स्वयमेव स्वयं ब्रह्म स्वयमेव स्वयं परः ॥ १९.३९॥

स्वयमेव स्वयं मोक्षः स्वयमेव निरन्तरः ।
स्वयमेव हि विज्ञानं स्वयमेव हि नास्त्यकम् ॥ १९.४०॥

स्वयमेव सदासारः स्वयमेव स्वयं परः ।
स्वयमेव हि शून्यात्मा स्वयमेव मनोहरः ॥ १९.४१॥

तूष्णीमेवासनं स्नानं तूष्णीमेवासनं जपः ।
तूष्णीमेवासनं पूजा तूष्णीमेवासनं परः ॥ १९.४२॥

विचार्य मनसा नित्यमहं ब्रह्मेति निश्चिनु ।
अहं ब्रह्म न सन्देहः एवं तूष्णींस्थितिर्भव ॥ १९.४३॥

सर्वं ब्रह्मैव नास्त्यन्यत् सर्वं ज्ञानमयं तपः । स्वयमेव हि नास्त्येव सर्वातीतस्वरूपवान् ॥ १९.४४॥

वाचातीतस्वरूपोऽहं वाचा जप्यमनर्थकं । मानसः परमार्थोऽयं एतद्वेदमहं न मे ॥ १९.४५॥

कुणपं सर्वभूतादि कुणपं सर्वसंग्रहं । असत्यं सर्वदा लोकमसत्यं सकलं जगत् ॥ १९.४६॥

असत्यमन्यदस्तित्वमसत्यं नास्ति भाषणं । असत्याकारमस्तित्वं ब्रह्ममात्रं सदा स्वयं ॥ १९.४७॥

असत्यं वेदवेदांगं असत्यं शास्त्रनिश्चयः । असत्यं श्रवणं ह्येतदसत्यं मननं च तत् ॥ १९.४८॥

असत्यं च निदिध्यासः सजातीयमसत्यकं । विजातीयमसत् प्रोक्तं सत्यं सत्यं न संशयः । सर्वं ब्रह्म सदा ब्रह्म एकं ब्रह्म चिदव्ययं ॥ १९.४९॥

चेतोविलासजनितं किल विश्वमेत- द्विश्वाधिकस्य कृपया परिपूर्णभास्वात् । नास्त्यन्यतः श्रुतिशिरोत्थितवाक्यमोघ- श्शास्त्रानुसारकरणैर्भवते विमुक्त्यै ॥ १९.५०॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मानंदप्रकरणं नाम एकोनविंशोऽध्यायः ॥

॥ विंशोऽध्यायः ॥

ऋभुः –

शृणु केवलमत्यन्तं रहस्यं परमाद्भुतम् ।
इति गुह्यतरं सद्यो मोक्षप्रदमिदं सदा ॥ २०.१॥

सुलभं ब्रह्मविज्ञानं सुलभं शुभमुत्तमम् ।
सुलभं ब्रह्मनिष्ठानां सुलभं सर्वबोधकम् ॥ २०.२॥

सुलभं कृतकृत्यानां सुलभं स्वयमात्मनः ।
सुलभं कारणाभावं सुलभं ब्रह्मणि स्थितम् ॥ २०.३॥

सुलभं चित्तहीनानां स्वयं तच्च स्वयं स्वयं ।
स्वयं संसारहीनानां चित्तं संसारमुच्यते ॥ २०.४॥

सृष्टेदं न संसारः ब्रह्मैवेदं मनो न च ।
ब्रह्मैवेदं भयं नास्ति ब्रह्मैवेदं न किंचन ॥ २०.५॥

ब्रह्मैवेदमसत् सर्वं ब्रह्मैवेदं परायणम् ।
ब्रह्मैवेदं शरीराणां ब्रह्मैवेदं तृणं न च ॥ २०.६॥

ब्रह्मैवास्मि न चाऽन्योऽस्मि ब्रह्मैवेदं जगन्न च ।
ब्रह्मैवेदं वियन्नास्ति ब्रह्मैवेदं क्रिया न च ॥ २०.७॥

ब्रह्मैवेदं महोत्मानं ब्रह्मैवेदं प्रियं सदा ।
ब्रह्मैवेदं जगन्नांतो ब्रह्मैवाहं भयं न हि ॥ २०.८॥

ब्रह्मैवाहं सदाचित्तं ब्रह्मैवाहमिदं न हि ।
ब्रह्मैवाहं तु यन्निध्या ब्रह्मैवाहमियं भ्रमा ॥ २०.९॥

ब्रह्मैव सर्वसिद्धान्तो ब्रह्मैव मनसास्पदम् ।
ब्रह्मैव सर्वभवनं ब्रह्मैव मुनिमण्डलम् ॥ २०.१०॥

ब्रह्मैवाहं तु नास्त्यन्यद् ब्रह्मैव गुरुपूजनम् ।
ब्रह्मैव नान्यत् किञ्चित्तु ब्रह्मैव सकलं सदा ॥ २०.११॥

ब्रह्मैव त्रिगुणाकारं ब्रह्मैव हरिरूपकम् ।
ब्रह्मणोऽन्यत् पदं नास्ति ब्रह्मणोऽन्यत् क्षणं न मे ॥ २०.१२॥

ब्रह्मैवाहं नान्यवार्ता ब्रह्मैवाहं न च श्रुतम् ।
ब्रह्मैवाहं समं नास्ति सर्वं ब्रह्मैव केवलम् ॥ २०.१३॥

ब्रह्मैवाहं न मे भोगो ब्रह्मैवाहं न मे पृथक् ।
ब्रह्मैवाहं सतं नास्ति ब्रह्मैव ब्रह्मरूपकः ॥ २०.१४॥

ब्रह्मैव सर्वदा भाति ब्रह्मैव सुखमुत्तमम् ।
ब्रह्मैव नानाकारत्वात् ब्रह्मैवाहं प्रियं महत् ॥ २०.१५॥

ब्रह्मैव ब्रह्मणः पूज्यं ब्रह्मैव ब्रह्मणो गुरुः ।
ब्रह्मैव ब्रह्ममाता तु ब्रह्मैवाहं पिता सुतः ॥ २०.१६॥

ब्रह्मैव ब्रह्म देवं च ब्रह्मैव ब्रह्म तज्जयः ।
ब्रह्मैव ध्यानरूपात्मा ब्रह्मैव ब्रह्मणो गुणः ॥ २०.१७॥

आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किंचन ।
आत्मैव सततं ह्येत्मा आत्मैव गुरुरात्मनः ॥ २०.१८॥

आत्मज्योतिरहंभूतमात्मैवास्ति सदा स्वयं ।
स्वयं तत्त्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥ २०.१९॥

स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् ।
स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययं ॥ २०.२०॥

स्वयं नाशं च सिद्धांतं स्वयमात्मा प्रकाशकः ।
स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ॥ २०.२१॥

स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ।
स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥ २०.२२॥

स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः ।
अयं छेदं च नास्त्येव अयं भेदविवर्जितः ॥ २०.२३॥

ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा ।
ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव शिववत् सदा ॥ २०.२४॥

ब्रह्मैव शश्वद्भाति ब्रह्मैव स्थूलवत् स्वयं ।
ब्रह्मैव सततं नान्यत् ब्रह्मैव गुरुरात्मनः ॥ २०.२५॥

आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयं ।
स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥ २०.२६॥

स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते ।
स्वयं ब्रह्म स्वयं देहः स्वयं पूर्णः परः पुमान् ॥ २०.२७॥

स्वयं तत्त्वमसि ब्रह्म स्वयं भाति प्रकाशकः ।
स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥ २०.२८॥

स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः । स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ २०.२९॥

स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः । स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ २०.३०॥

स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः । स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः ॥ २०.३१॥

अखण्डः परिपूर्णोऽहमखण्डरसपूरणः । अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ २०.३२॥

इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक् स्वयं । अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ २०.३३॥

अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः । ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥ २०.३४॥

ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः । ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥ २०.३५॥

ब्रह्मैवाहमनन्तात्मा ब्रह्मैवाहं सुखं परं । ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥ २०.३६॥

ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि । ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महोदयः ॥ २०.३७॥

ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा । ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव फलवत् स्वयं ॥ २०.३८॥

ब्रह्मैव मूर्तिवद्भाति तद्ब्रह्मासि न संशयः । ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥ २०.३९॥

ब्रह्मैव भूतिवद्भाति ब्रह्मैव जडवत् स्वयं । ब्रह्मैवोंकारवत् सर्वं ब्रह्मैवोंकाररूपवत् ॥ २०.४०॥

ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयं । सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चन ॥ २०.४१॥

ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चन । सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्घटवत् सदा ॥ २०.४२॥

ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा । ब्रह्मैव शुद्धरूपत्वात् दृग्रूपत्वात् स्वयं महत् ॥ २०.४३॥

अहमेव परं ब्रह्म अहमेव परात्परः । अहमेव मनोतीत अहमेव जगत्परः ॥ २०.४४॥

अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः । आनन्दोऽहं निराधारो ब्रह्मैव न च किंचन ॥ २०.४५॥

नान्यत् किंचिदहं ब्रह्म नान्यत् किंचिच्चिदव्ययः । आत्मनोऽन्यत् परं तुच्छमात्मनोऽन्यदहं नहि ॥ २०.४६॥

आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलं । आत्मन्येवात्मना चित्तमात्मैवाहं न तत् पृथक् ॥ २०.४७॥

आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे । आत्मैवाहं गुणो नास्ति आत्मैव न पृथक् क्वचित् ॥ २०.४८॥

अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशं । अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ २०.४९॥

आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयं । अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ २०.५०॥

जीवभावं सदाऽसत्यं शिवसद्भावमीदृशं । विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ २०.५१॥

अहमेव सदा पूर्णं अहमेव निरन्तरं । नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ २०.५२॥

अहमेव परानन्द अहमेव क्षणान्तिकः । अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ २०.५३॥

वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितं । अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ २०.५४॥

अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः । इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ २०.५५॥

इदं सुखमहं ब्रह्म इदं सुखमहं जडं । इदं ब्रह्म न सन्देहः सत्यं सत्यं पुनः पुनः ॥ २०.५६॥

इत्यात्मवैभवं प्रोक्तं सर्वलोकेषु दुर्लभं । सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ॥ २०.५७॥

शान्तिदान्तिपरमा भवतान्ताः स्वान्तभान्तमनिशं शशिकान्तं ।

अंतकांतकमहो कलयंतः वेदमौलिवचनैः किल शांताः ॥ २०.५८॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे आत्मवैभवप्रकरणं नाम विंशोऽध्यायः ॥


॥ एकविंशोऽध्यायः ॥

ऋभुः -

महारहस्यं वक्ष्यामि वेदान्तेषु च गोपितं । यस्य श्रवणमात्रेण ब्रह्मैव भवति स्वयं ॥ २१.१॥

सच्चिदानन्दमात्रोऽहं सर्वं सच्चिन्मयं ततं । तदेव ब्रह्म संपश्येत् ब्रह्मैव भवति स्वयं ॥ २१.२॥

अहं ब्रह्म इदं ब्रह्म नाना ब्रह्म न संशयः । सत्यं ब्रह्म सदा ब्रह्मास्म्यहं ब्रह्मैव केवलं ॥ २१.३॥

गुरुर्ब्रह्म गुणो ब्रह्म सर्वं ब्रह्मापरोऽस्म्यहं । नान्तं ब्रह्म अहं ब्रह्म सर्वं ब्रह्मोपरोऽस्म्यहं ॥ २१.४॥

वेदवेद्यं परं ब्रह्म विद्या ब्रह्म विशेषतः । आत्मा ब्रह्म अहं ब्रह्म आद्यन्तं ब्रह्म सोऽस्म्यहं ॥ २१.५॥

सत्यं ब्रह्म सदा ब्रह्म अन्यन्नास्ति सदा परं । अहं ब्रह्मात्वहं नास्ति अहंकारपरं नहि ॥ २१.६॥

अहं ब्रह्म इदं नास्ति अयमात्मा महान् सदा । वेदान्तवेद्यो ब्रह्मात्मा अपरं शशशृङ्गवत् ॥ २१.७॥

भूतं नास्ति भविष्यं न ब्रह्मैव स्थिरतां गतः । चिन्मयोऽहं जडं तुच्छं चिन्मात्रं देहनाशनं ॥ २१.८॥

चित्तं किंचित् क्वचिच्चापि चित्तं दूरोऽहमात्मकः । सत्यं ज्ञानमनन्तं यन्नान्यतं जडदुःखकं ॥ २१.९॥

आत्मा सत्यमनन्तात्मा देहमेव न संशयः । वार्ताप्यसच्छ्रुतं तन्न अहमेव महोमहः ॥ २१.१०॥

एकसंख्याप्यसद्ब्रह्म सत्यमेव सदाऽप्यहं । सर्वमेवमसत्यं च उत्पन्नत्वात् परात् सदा ॥ २१.११॥

सर्वावयवहीनोऽपि नित्यत्वात् परमो ह्यहं । सर्वं दृश्यं न मे किंचित् चिन्मयत्वाद्यदाम्यहं ॥ २१.१२॥

आग्रहं च न मे किंचित् चिन्मयत्वाद्यदाम्यहं । इदमित्यपि निर्देशो न क्वचिन्न क्वचित् सदा ॥ २१.१३॥

निर्गुणब्रह्म एवाहं सुगुरोरुपदेशतः । विज्ञानं सगुणो ब्रह्म अहं विज्ञानविग्रहः ॥ २१.१४॥

निर्गुणोऽस्मि निरंशोऽस्मि भवोऽस्मि भरणोऽस्म्यहम् । देवोऽस्मि द्रव्यपूर्णोऽस्मि शुद्धोऽस्मि रहितोऽस्म्यहम् ॥ २१.१५॥

रसोऽस्मि रसहीनोऽस्मि तुर्योऽस्मि शुभभावनः । कामोऽस्मि कार्यहीनोऽस्मि नित्यनिर्मलविग्रहः ॥ २१.१६॥

आचारफलहीनोऽस्मि अहं ब्रह्मास्मि केवलम् । इदं सर्वं परं ब्रह्म अयमात्मा न विस्मयः ॥ २१.१७॥

पूर्णापूर्णस्वरूपात्मा नित्यं सर्वात्मविग्रहः । परमानन्दतत्त्वात्मा परिच्छिन्नं न हि क्वचित् ॥ २१.१८॥

एकात्मा निर्मलाकार अहमेवेति भावय । अहंभावनया युक्त अहंभावेन संयुतः ॥ २१.१९॥

शान्तं भावय सर्वात्मा शाम्यतत्त्वं मनोमलः । देहोऽहमिति संत्यज्य ब्रह्माहमिति निश्चिनु ॥ २१.२०॥

ब्रह्मैवाहं ब्रह्ममात्रं ब्रह्मणोऽन्यन्न किंचन । इदं नाहमिदं नाहमिदं नाहं सदा स्मर ॥ २१.२१॥

अहं सोऽहमहं सोऽहमहं ब्रह्मेति भावय । चिदहं चिदहं ब्रह्म चिदहं चिदहं वद ॥ २१.२२॥

नेदं नेदं सदा नेदं न त्वं नाहं च भावय । सर्वं ब्रह्म न संदेहः सर्वं वेदं न किंचन ॥ २१.२३॥

सर्वं शब्दार्थभवनं सर्वलोकभयं न च । सर्वतीर्थं न सत्यं हि सर्वदेवालयं न हि ॥ २१.२४॥

सर्वचैतन्यमात्रत्वात् सर्वं नाम सदा न हि । सर्वरूपं परित्यज्य सर्वं ब्रह्मेति निश्चिनु ॥ २१.२५॥

ब्रह्मैव सर्वं तत्सत्यं प्रपञ्चं प्रकृतिर्नहि । प्राकृतं स्मरणं त्यज्य ब्रह्मस्मरणमाहर ॥ २१.२६॥

ततस्तदपि संत्यज्य निजरूपे स्थिरो भव । स्थिररूपं परित्यज्य आत्ममात्रं भवत्सा ॥ २१.२७॥

त्यागत्वमपि संत्यज्य भेदमात्रं सदा त्यज । स्वयं निजं समावृत्य स्वयमेव स्वयं भज ॥ २१.२८॥

इदमित्यङ्गुलीदृष्टमिदमस्तमचेतनम् । इदं वाक्यं च वाक्येन वाचाऽपि परिवेदनम् ॥ २१.२९॥

सर्वभावं न सन्देहः सर्वं नास्ति न संशयः । सर्वं तुच्छं न सन्देहः सर्वं माया न संशयः ॥ २१.३०॥

त्वं ब्रह्म्याहं न सन्देहो ब्रह्म्यैवेदं न संशयः । सर्वं चित्तं न सन्देहः सर्वं ब्रह्म न संशयः ॥ २१.३१॥

ब्रह्मोऽन्यद्वाति चेन्मिथ्या सर्वं मिथ्या परावरा । न देहं पञ्चभूतं वा न चित्तं भ्रान्तिमात्रकम् ॥ २१.३२॥

न च बुद्धीन्द्रियाभावो न मुक्तिर्हृह्यामात्रकम् । निमिषं च न शङ्कापि न सङ्कल्पं तदस्ति चेत् ॥ २१.३३॥

अहङ्कारमसद्विद्धि अभिमानं तदस्ति चेत् । न चित्तस्मरणं तच्चेन्न सन्देहो जरा यदि ॥ २१.३४॥

प्राणो???बीयीते शास्ति प्राणो यदिह गन्धकम् । चक्षुर्यदिह भूतस्य श्रोत्रं श्रवणभावनम् ॥ २१.३५॥

त्वगस्ति चेत् स्पर्शसत्ता जिह्वा चेद्रससङ्ग्रहः । जीवोऽस्ति चेज्जीवनं च पादश्चेत् पादचारणम् ॥ २१.३६॥

हस्ता यदि क्रियासत्ता स्रष्टा चेत् सृष्टिसम्भवः । रक्ष्यं चेद्रक्षको विष्णुर्भक्ष्यं चेद्भक्षकः शिवः ॥ २१.३७॥

सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् । पूज्यं चेत् पूजनं चास्ति भास्यं चेद्ध्यासकः शिवः ॥ २१.३८॥

सर्वं मिथ्या न सन्देहः सर्वं चिन्मात्रमेव हि । अस्ति चेत् कारणं सत्यं कार्यं चैव भविष्यति ॥ २१.३९॥

नास्ति चेन्नास्ति हीनोऽहं ब्रह्मैवाहं परायणम् । अत्यन्तदुःखमेतद्धि अत्यन्तसुखमव्ययम् ॥ २१.४०॥

अत्यन्तं जन्ममात्रं च अत्यन्तं रणसम्भवम् । अत्यन्तं मलिनं सर्वमत्यन्तं निर्मलं परम् ॥ २१.४१॥

अत्यन्तं कल्पनं दुष्टं अत्यन्तं निर्मलं त्वहम् । अत्यन्तं सर्वदा दोषमत्यन्तं सर्वदा गुणम् ॥ २१.४२॥

अत्यन्तं सर्वदा शुभ्रमत्यन्तं सर्वदा मलम् । अत्यन्तं सर्वदा चाहमत्यन्तं सर्वदा इदम् ॥ २१.४३॥

అత్యంతం సర్వదా బ్రహ్మ అత్యంతం సర్వదా జగత్ । ఏతావదుక్తమభయమహం భేదం న కించన ॥ २१.४४॥

सदसद्वापि नास्त्येव सदसद्वापि वाक्यकम् । नास्ति नास्ति न सन्देहो ब्रह्मैवाहं न संशयः ॥ २१.४५॥

कारणं कार्यरूपं वा सर्वं नास्ति न संशयः । कर्ता भोक्ता क्रिया वापि न भोज्यं भोगतृप्तता ॥ २१.४६॥

सर्वं ब्रह्म न सन्देहः सर्वशब्दो न वास्तवम् । भूतं भविष्यं वार्तं तु कार्यं वा नास्ति सर्वदा ॥ २१.४७॥

सदसद्वैद्यभेदं वा न गुणा गुणभागिनः । निर्मलं वा मलं वापि नास्ति नास्ति न किञ्चन ॥ २१.४८॥

भाष्यं वा भाषणं वापि नास्ति नास्ति न किञ्चन । प्रबलं दुर्बलं वापि अहं च त्वं च वा क्वचित् ॥ २१.४९॥

ग्राह्यं च ग्राहकं वापि उपेक्ष्यं नात्मनः क्वचित् । तीर्थं वा स्नानरूपं वा देवो वा देवपूजनम् ॥ २१.५०॥

जन्म वा मरणं हेतुर्नास्ति नास्ति न किञ्चन । सत्यं वा सत्यरूपं वा नास्ति नास्ति न किञ्चन ॥ २१.५१॥

मातरः पितरो वापि देहो वा नास्ति किञ्चन । दृग्रूपं दृश्यरूपं वा नास्ति नास्तीह किञ्चन ॥ २१.५२॥

मायाकार्यं च माया वा नास्ति नास्तीह किञ्चन । ज्ञानं वा ज्ञानभेदो वा नास्ति नास्तीह किञ्चन ॥ २१.५३॥

सर्वप्रपञ्चहेयत्वं प्रोक्तं प्रकरणं च ते । यः शृणोति सकृद्वापि आत्माकारं प्रपद्यते ॥ २१.५४॥

स्कन्दः –

माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा । विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजे यस्यानल्पतपोभिरुग्रकरणाद्यक् तस्य मुक्तिः स्थिरा ॥ २१.५५॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ॥

॥ द्वाविंशोऽध्यायः ॥

ऋभुः —

वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्वं जगन्मृषा । अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥ २२.१॥

अहं ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् । अहं ब्रह्म न मे वार्ता अहं ब्रह्म न मे द्वयम् ॥ २२.२॥

अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः । अहं ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥ २२.३॥

अहं ब्रह्म न मे सोऽयमहं वैश्वानरो न हि । अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥ २२.४॥

सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः । अहमेव शरीरान्तरहमेव स्थिरः सदा ॥ २२.५॥

एवं विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् । अनेकशतसाहस्रैश्चैक एव विवेकवान् ॥ २२.६॥

तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः । ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥ २२.७॥

ज्ञानिनः चार्चनेनैव जीवन्मुक्तो भवेन्नरः । ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥ २२.८॥

अहं ब्रह्म न संदेहः अहमेव गुरुः परः । अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥ २२.९॥

गुणातीतो जनातीतः परातीतो मनः परः । परतः परतोऽतीतो बुद्ध्यतीतो रसात् परः ॥ २२.१०॥

भावातीतो मनातीतो वेदातीतो विदः परः । शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥ २२.११॥

अव्यक्तात् परतोऽतीत इत्येवं ज्ञाननिश्चयः । क्वचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥ २२.१२॥

तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयं । ज्ञानिनो महिमा किंचिदणुमात्रमपि स्फुटम् ॥ २२.१३॥

हरिणापि हरेणापि ब्रह्मणापि सुरैरपि ।
न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥ २२.१४ ॥

अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभं ।
विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितं ॥ २२.१५ ॥

द्रष्टुं च भाषितुं वापि दुर्लभं पादसेवनं ।
कदाचित् पादतीर्थेन स्नातश्चेत् ब्रह्म एव सः ॥ २२.१६ ॥

सर्वं मिथ्या न संदेहः सर्वं ब्रह्मैव केवलं ।
एतत् प्रकरणं प्रोक्तं सर्वसिद्धान्तसंग्रहः ॥ २२.१७ ॥

दुर्लभं यः पठेद्भक्त्या ब्रह्म संपद्यते नरः ।
वक्ष्ये ब्रह्ममयं सर्वं नान्यत् सर्वं जगन्मृषा ॥ २२.१८ ॥

ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदं ।
अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥ २२.१९ ॥

सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः ।
सर्ववर्जितशांतात्मा सर्वमंगलविग्रहः ॥ २२.२० ॥

अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे ।
न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥ २२.२१ ॥

ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः ।
ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयं ॥ २२.२२ ॥

ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः ।
आत्मैव द्वैतवद्भाति आत्मैव परमं पदं ॥ २२.२३ ॥

ब्रह्मैवं भेदरहितं भेदमेव महद्द्वयं ।
आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयं ॥ २२.२४ ॥

आत्मैव नान्यत् सर्वत्र सर्वं ब्रह्मैव नान्यकः ।
अहमेव सदा भामि ब्रह्मैवास्मि परोऽस्म्यहं ॥ २२.२५ ॥

निर्मलोऽस्मि परं ब्रह्म कार्याकार्यविवर्जितः ।
सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२६ ॥

निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽस्म्यहं ।
अक्षरोऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहं ॥ २२.२७ ॥

समरूपोऽस्मि शांतोऽस्मि तत्परोऽस्मि चिदव्ययः ।
सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥ २२.२८ ॥

सदाऽखण्डैकरूपोऽस्मि सदामानविवर्जितः । सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२९॥

सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः । सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥ २२.३०॥

एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः । एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥ २२.३१॥

एवं ब्रह्मोत्थवान् ज्ञानी ब्रह्मोहमिति निश्चयः । स एव पुरुषो लोके ब्रह्मोहमिति निश्चितः ॥ २२.३२॥

स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मवान् । ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥ २२.३३॥

नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः । नाहं मांसं न मेऽस्थीनि नाहङ्कारकलेवरः ॥ २२.३४॥

न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहं । सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥ २२.३५॥

नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहं । न वाच्योऽहं न मुक्तोऽहं न बुद्धोऽहं कदाचन ॥ २२.३६॥

न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहं । सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥ २२.३७॥

न घ्राणोऽहं न गन्धोऽहं न बिहण्योऽयं न मे प्रियः । नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥ २२.३८॥

ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन । न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥ २२.३९॥

नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः । पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥ २२.४०॥

गुह्यं नाहं न चानन्दो न प्रजापतिदेवता । सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ २२.४१॥

नाहं मनो न सङ्कल्पो न चन्द्रो न च साक्षिकः । नाहं बुद्धीन्द्रियो ब्रह्म नाहं निश्चयरूपवान् ॥ २२.४२॥

नाहङ्कारमहं रुद्रो नाभिमानो न साक्षिकः । चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥ २२.४३॥

नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् । न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ २२.४४॥

न पारमार्थिको देवो नाहमन्नमयो जडः । न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ २२.४५॥

न विज्ञानमयः कोशो नानन्दमयकोशवान् । ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ २२.४६॥

एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् । सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥ २२.४७॥

एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् । शशशृङ्गवदेवेदं नरशृङ्गवदेव तत् ॥ २२.४८॥

आकाशपुष्पसदृशं यथा मरुमरीचिका । गन्धर्वनगरं यद्यदिन्द्रजालवदेव हि ॥ २२.४९॥

असत्यमेव सततं पञ्चरूपकमिष्यते । शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ २२.५०॥

माता मृते रोदनाय द्रव्यं दत्त्वाऽह्वयेज्जनान् । तेषां रोदनमात्रं यत् केवलं द्रव्यपञ्चकम् ॥ २२.५१॥

तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् । अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ २२.५२॥

अहमेव सुखं चेति अहमेव न चापरः । अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ २२.५३॥

अहं निर्मलशुद्धेति अहं जीवविलक्षणः । अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ २२.५४॥

अहमेव हि चिन्मात्रमहमेव हि निर्गुणः । सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ २२.५५॥

नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् । एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ २२.५६॥

ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन । एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ २२.५७॥

तं वेदादिवचोभीरीडितमहायागैश्च भोगैर्वृतै-
र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।
तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं
तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२.५८॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥

॥ त्रयोविंशोऽध्यायः ॥

ऋभुः -

निदाघ शृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् ।
इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥ 23.1॥

नानाविधजनं लोकं नाना कारणकार्यकम् ।
ब्रह्मैवान्यदसत् सर्वं सच्चिदानन्द एव हि ॥ 23.2॥

अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्मोहमेव हि ।
कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥ 23.3॥

वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात् परः ।
हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥ 23.4॥

सर्वोपनिषदो ब्रह्म सौम्यं ब्रह्म समोऽस्म्यहम् ।
अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥ 23.5॥

त्रुटिर्ब्रह्म मनो ब्रह्म वृष्टिर्ब्रह्म सदामुदः ।
इदं ब्रह्म परं ब्रह्म तत्त्वं ब्रह्म सदा जपः ॥ 23.6॥

अकारो ब्रह्म एवाहमुकारोऽहं न संशयः ।
मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥ 23.7॥

शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् ।
यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥ 23.8॥

रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः ।
कुम्भकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥ 23.9॥

ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
एवं च निश्चितौ मुक्तः सद्य एव न संशयः ॥ 23.10॥

केचिदेव महामूढाः द्वैतमेवं वदन्ति हि ।
न सम्भाष्याः सदानर्हाः नमस्कारे न योग्यता ॥ 23.11॥

मूढा मूढतराश्चान्यस्तथा मूढतमाः परे ।
एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥ 23.12॥

सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् ।
अहमित्यपि नास्त्येव परमित्यपि न क्वचित् ॥ 23.13॥

ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥ २३.१४॥

नित्यातीतमनित्यानाममितं ब्रह्म केवलम् ।
ब्रह्मैव नान्यत्सर्वं सच्चिदानन्दमात्रकम् ॥ २३.१५॥

द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्ध्या न तत् स्मर ।
सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव केवलम् ॥ २३.१६॥

बुद्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् ।
आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥ २३.१७॥

काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् ।
ब्रह्ममात्रेण संपश्यन् ब्रह्ममात्रपरो भव ॥ २३.१८॥

ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः ।
ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥ २३.१९॥

शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर ।
सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥ २३.२०॥

नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् ।
प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥ २३.२१॥

निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः ।
परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥ २३.२२॥

द्वैतस्वमात्रसिद्धोऽहं साम्राज्यपदलक्षणम् ।
इत्येवं निश्चयं कुर्वन् सदा तिष्ठ यथासुखम् ॥ २३.२३॥

दृढनिश्चयरूपात्मा दृढनिश्चयसन्मयः ।
दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥ २३.२४॥

दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः ।
दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ॥ २३.२५॥

दृढनिश्चयजीवात्मा संशयं नाशमेष्यति ।
दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥ २३.२६॥

दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् ।
दृढनिश्चयमेवात्र कारणं मोक्षसंपदः ॥ २३.२७॥

एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् ।
ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥ २३.२८॥

आत्मानन्दस्वरूपोऽहं नान्यदस्तीति भावय । ततस्तदपि सन्त्यज्य एक एव स्थिरो भव ॥ २३.२९॥

ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा । निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत् ततः ॥ २३.३०॥

वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव । आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥ २३.३१॥

चिन्मात्रत्वं च सन्त्यज्य सर्वतूष्णींपरो भव । सर्वतूष्णीं च सन्त्यज्य महातूष्णींपरो भव ॥ २३.३२॥

महातूष्णीं च सन्त्यज्य चित्ततूष्णीं समाश्रय । चित्ततूष्णीं च सन्त्यज्य जीवतूष्णीं समाहर ॥ २३.३३॥

जीवतूष्णीं परित्यज्य जीवशून्यपरो भव । शून्यत्यागं परित्यज्य यथा तिष्ठ तथासि भो ॥ २३.३४॥

तिष्ठत्वमपि सन्त्यज्य अवाङ्मानसगोचरः । ततः परं न वक्तव्यं ततः पश्येन्न किञ्चन ॥ २३.३५॥

नो चेत् सर्वपरित्यागो ब्रह्मैवाहमितीरय । सदा स्मरन् सदा चिन्त्यं सदा भावय निर्गुणं ॥ २३.३६॥

सदा तिष्ठस्व तत्त्वज्ञ सदा ज्ञानी सदा परः । सदानन्दः सदातीतः सदादोषविवर्जितः ॥ २३.३७॥

सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः । सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥ २३.३८॥

सदा ब्रह्म सदा मोदः सदानन्दः सदा परः । सदा स्वयं सदा शून्यः सदा मौनी सदा शिवः ॥ २३.३९॥

सदा सर्वं सदा मित्रः सदा स्नानं सदा जपः । सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥ २३.४०॥

देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज । आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥ २३.४१॥

एवं स्थिते त्वं मुक्तोऽसि न तु कार्या विचारणा । ब्रह्मैव सर्वं यत्किञ्चित् सच्चिदानन्द एव हि ॥ २३.४२॥

अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः । प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥ २३.४३॥