ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 13, कुल 249 में से
संदर्भ में पढ़ेंसंभोगप्राप्तिरेव प्रकटजगतः कारणतया सदा व्योमैवेत्थं भवति हृदये सर्वजगतां । अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदं महामृत्युर्देशो भवति शिखरन्याद इति च ॥ २.२५॥
प्रकरणवचनेन वेदजाते भगवति भवनाशने महेशे । प्रविशति शिव एव भोगभोक्तृ- नियमनदर्शनतो हि वाक्यजातं ॥ २.२६॥
विशेषणैः शंकरमेव नित्यं द्विधा वदत्येवमुपाधियोगात् । अतोऽन्तरा वाक्यपदैः समर्थिः स्थानादियोगैर्भगवानुमापतिः ॥ २.२७॥
सुखाभिधानात् सुखमेव शंभुः कं ब्रह्म खं ब्रह्म इति श्रुतीरितः । श्रुतोपवाक्योपनिषत्प्रचोदितः गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २.२८॥
अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् । भयभीताः खलु यस्य सोमसूर्यानलवाय्वंबुजसंभवा भ्रमंति ॥ २.२९॥
अंतर्यामितयैव लोकमखिलं जानात्युमायाः पतिः । भूतेष्वंतर्गतोऽपि भूतनिवहो नो जानते शंकरं ॥ २.३०॥
न तत्स्मृत्या धर्मैरभलषणतो भेदविधुरं न शारीरं भेदे भवति अगजानायकवरे । अदृश्यत्वाद्धर्मैः खलु भगवानन्यदिति च परादादित्यं चामतिरपि च भेदप्रकलने ॥ २.३१॥
भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा । भावो वा भवति प्रभाविरहितं ब्रह्मेत्यना चाह तत् ॥ २.३२॥
स्मृतं मानं शंभौ भगवति च तत्साधनतया- प्यतो दैवं भूतं न भवति च साक्षात् परशिवे । अभिव्यक्तौ चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते तथा संपत्तिर्यैर्भुवि भवति किं शंभुकलने ॥ २.३३॥
यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते भ्यद्वेद्धंधिरपि प्रकीर्णवचनात् सांख्यैव बाह्यांतरा ।