भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 131, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 131

॥ षड्विंशोऽध्यायः ॥

ऋभुः -

वक्ष्ये सच्चित्परानन्दं स्वभावं सर्वदा सुखम् ।
सर्ववेदपुराणानां सारात् सारतरं स्वयं ॥ २६.१॥

न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.२॥

न क्वचिन्नाथ एवाहं नाक्षरं न परात्परम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.३॥

न बहिर्भ्यान्तरं नाहं न सङ्कल्पो न विग्रहः ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.४॥

न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.५॥

न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः ।
न जपं न परिच्छिन्नं न व्यापकमसत् फलम् ॥ २६.६॥

न गुरुश्च च शिष्यो वा न स्थिरं न शुभाशुभम् ।
नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ २६.७॥

अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् ।
न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ २६.८॥

न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् ।
न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ २६.९॥

न शरीरं न लिङ्गं वा न कारणमकारणम् ।
न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ २६.१०॥

न सञ्चितं च नागामि न सत्यं च त्वमाहकम् ।
नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् ॥ २६.११॥

न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् ।
न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ २६.१२॥

न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् ।
न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ २६.१३॥