ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 132, कुल 249 में से
संदर्भ में पढ़ेंन सङ्कल्पं न प्रपञ्चं न जागरणराजकं । न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ २६.१४॥
न सर्वं समलं नेष्टं न नीतिर्न च पूजनं । न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ २६.१५॥
न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणं । नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकं ॥ २६.१६॥
न पुण्यं न च वा पापं न क्रिया दोषकारणं । न चाध्यात्मं नाधिभूतं न दैवतमसम्भवं ॥ २६.१७॥
न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकं । न भूलोकं न पातालं न जयापजयाजयौ ॥ २६.१८॥
न हीनं न च वा भीतिर्न रतिर्न मृतिस्मृरा । अचिन्त्यं नापराध्यात्म निगमागमविभ्रमः ॥ २६.१९॥
न सात्त्विकं राजसं च न तामसगुणाधिकं । न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसं ॥ २६.२०॥
न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणं । न स्त्रीरूपं न पुम्भावः न षण्डो न स्थिरः पदं ॥ २६.२१॥
न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि । न लौकिकं वैदिकं न शास्त्रं न च शासनं ॥ २६.२२॥
न पानं न कृशं नेदं न मोदं न मुदामदं । न भावनमभावो वा न कुलं नामरूपकं ॥ २६.२३॥
नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि । निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ २६.२४॥
न शान्तिकलना नागं न शान्तिर्न शमो दमः । न क्रीडा न च भावाङ्गं न विकारं न दोषकं ॥ २६.२५॥
न यत्किञ्चिन्न यत्राहं न मायाभ्या न मायिका । यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनं ॥ २६.२६॥
न यौवनं न बाल्यं वा न जरामरणादिकं । न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ २६.२७॥
नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः । न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ २६.२८॥