ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 134, कुल 249 में से
संदर्भ में पढ़ेंसर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् । सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ २६.४४॥
न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् । न सर्ववृत्तिसाक्षित्वं न च ब्रह्मत्वभावनम् ॥ २६.४५॥
न जगन्न मनो नान्तो न कार्यकलनं क्वचित్ । न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ २६.४६॥
न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् । न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ २६.४७॥
ब्रह्मवित्त्वं आत्मसत्यो न परः स्वप्नलक्षणम् । न च वर्षवरो रोधो वरिष्ठो नार्थतत्त्वरः ॥ २६.४८॥
आत्मज्ञानविहीनो यो महापातकिरेव सः । एतावद् ज्ञानहीनो यो महारोगी स एव हि ॥ २६.४९॥
अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः । ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ २६.५०॥
सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः । स एव ज्ञानवान् लोके स एव परमेश्वरः ॥ २६.५१॥
इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् । एतत्प्रकरणं यस्तु शृणुते ब्रह्म एव सः ॥ २६.५२॥
एकत्वं न बहुत्वमप्यणुमहत् कार्यं न वै कारणं विश्वं विश्वपतित्वमप्सरसकं नो गन्धरूपं सदा । बद्धं मुक्तमनुत्तमोत्तममहो नन्धैकमोदं सदा भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६.५३॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ॥