भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 135, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 135

॥ सप्तविंशोऽध्यायः ॥

ऋभुः -

वक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् । कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥ २७.१॥

अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् । ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥ २७.२॥

विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः । वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥ २७.३॥

जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् । आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥ २७.४॥

कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः । गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥ २७.५॥

गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहोनहम् । ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥ २७.६॥

सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः । लोकानन्दो महानन्दो लोकातीतमहोनयम् ॥ २७.७॥

भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः । क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥ २७.८॥

सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः । सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥ २७.९॥

वाक्यानन्दमहानन्दः शिवानन्दोऽहमद्वयः । शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥ २७.१०॥

अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः । वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥ २७.११॥

कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः । सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥ २७.१२॥

जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् । शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥ २७.१३॥