ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 138, कुल 249 में से
संदर्भ में पढ़ें॥ अष्टाविंशोऽध्यायः ॥
ऋभुः -
ब्रह्मैवाहं चिदेवाहं निर्मलोऽहं निरंतरः । शुद्धस्वरूप एवाहं नित्यरूपः परोऽस्म्यहम् ॥ २८.१॥
नित्यनिर्मलरूपोऽहं नित्यचैतन्यविग्रहः । आद्यन्तरूपहीनोऽहमाद्यन्तद्वैतहीनकः ॥ २८.२॥
अजस्रसुखरूपोऽहं अजस्रानन्दरूपवान् । अहमेवादि निर्मुक्तः अहं कारणवर्जितः ॥ २८.३॥
अहमेव परं ब्रह्म अहमेवाहमेव हि । इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥ २८.४॥
सुखं तिष्ठ सुखं तिष्ठ सुचिरं सुखमावह । सर्ववेदमनन्यस्त्वं सर्वदा नास्ति कल्पनम् ॥ २८.५॥
सर्वदा नास्ति चित्ताख्यं सर्वदा नास्ति संसृतिः । सर्वदा नास्ति नास्त्येव सर्वदा जगदेव न ॥ २८.६॥
जगत्प्रसंगो नास्त्येव देहवार्ता कुतस्ततः । ब्रह्मैव सर्वचिन्मात्रमहमेव हि केवलम् ॥ २८.७॥
चित्तमित्यपि नास्त्येव चित्तमस्ति हि नास्ति हि । अस्तित्वभावना निष्ठा जगदस्तित्ववाङ्मृषा ॥ २८.८॥
अस्तित्ववक्ता वार्ता हि जगदस्तीति भावना । स्वात्मनोऽन्यज्जगद्भक्ता देहोऽहमिति निश्चितः ॥ २८.९॥
महाचण्डाल एवासौ महाविप्रोऽपि निश्चयः । तस्मादिति जगन्नेति चित्तं वा बुद्धिरेव च ॥ २८.१०॥
नास्ति नास्तीति सहसा निश्चयं कुरु निर्मलः । दृश्यं नास्त्येव नास्त्येव नास्ति नास्तीति भावय ॥ २८.११॥
अहमेव परं ब्रह्म अहमेव हि निष्कलः । अहमेव न संदेहः अहमेव सुखात् सुखम् ॥ २८.१२॥
अहमेव हि दिव्यात्मा अहमेव हि केवलः । वाचामगोचरोऽहं वै अहमेव न चापरः ॥ २८.१३॥