ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 139, कुल 249 में से
संदर्भ में पढ़ेंअहमेव हि सर्वात्मा अहमेव सदा प्रियः ।
अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥ २८.१४॥
अहमेवापरिच्छिन्न अहमेव निरन्तरः ।
अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥ २८.१५॥
अहमेव सदा साक्षी अहमेवाहमेव हि ।
नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥ २८.१६॥
नाहं जडो न चिन्मात्रः क्वचित् किञ्चित् तदस्ति हि ।
नाहं प्राणो जडत्वं तदत्यन्तं सर्वदा भ्रमः ॥ २८.१७॥
अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः ।
अहमत्यन्तवेदात्मा अहमत्यन्तशांकरः ॥ २८.१८॥
अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः ।
सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात् ॥ २८.१९॥
परात् परतरं ब्रह्म परात् परतरः पुमान् ।
परात् परतरोऽहं वै सर्वस्मात् परतः परः ॥ २८.२०॥
सर्वदेहविहीनोऽहं सर्वकर्मविवर्जितः ।
सर्वमन्त्रः प्रशान्तात्मा सर्वान्तःकरणात् परः ॥ २८.२१॥
सर्वस्तोत्रविहीनोऽहं सर्वदेवप्रकाशकः ।
सर्वस्नानविहीनात्मा एकमग्नोऽहमद्वयः ॥ २८.२२॥
आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे ।
आत्मैवाहमिति ज्ञात्वा आत्मारामो वसाम्यहं ॥ २८.२३॥
आत्मैव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः ।
आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परमो ह्यहं ॥ २८.२४॥
अहमात्माऽहमात्माहमहमात्मा न लौकिकः ।
सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥ २८.२५॥
एवं नित्यं भावयित्वा सदा भावय सिद्धये ।
सिद्धं तिष्ठति चिन्मात्रो निश्चयं मात्रमेव सा ।
निश्चयं च लयं याति स्वयमेव सुखी भव ॥ २८.२६॥
शाखाभिश्च श्रुतयो ह्यानन्ता-
स्त्वामेकमेव भगवन् बहुधा वदन्ति ।