भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 142, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 142

न यत्र सदसद्भेदो न यत्र कलनापदम् ।
न यत्र जीवकलना तन्मयो भव सर्वदा ॥ २९.१४॥

न यत्र शंकरध्यानं न यत्र परमं पदम् ।
न यत्र कलनाकारं तन्मयो भव सर्वदा ॥ २९.१५॥

न यत्राणुरृहत्त्वं च यत्र सन्तोषकल्पनम् ।
यत्र प्रपञ्चमाभासं तन्मयो भव सर्वदा ॥ २९.१६॥

न यत्र देहकलनं न यत्र हि कुतूहलम् ।
न यत्र चित्तकलनं तन्मयो भव सर्वदा ॥ २९.१७॥

न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः ।
न यत्र कामकलनं तन्मयो भव सर्वदा ॥ २९.१८॥

न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्वविग्रहः ।
न यत्र शाश्वतं ज्ञानं तन्मयो भव सर्वदा ॥ २९.१९॥

न यत्र कालकलनं यत्र दुःखत्वभावनम् ।
न यत्र देहकलनं तन्मयो भव सर्वदा ॥ २९.२०॥

न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् ।
यत्राहमहमात्मत्वं तन्मयो भव सर्वदा ॥ २९.२१॥

न यत्र जीवन्मुक्तिर्या यत्र देहविमोचनम् ।
यत्र सङ्कल्पितं कार्यं तन्मयो भव सर्वदा ॥ २९.२२॥

न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् ।
न यत्र जीवभेदो वा तन्मयो भव सर्वदा ॥ २९.२३॥

यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् ।
यत्रानन्दगुणं नित्यं तन्मयो भव सर्वदा ॥ २९.२४॥

न यत्र वस्तुप्रभवं न यत्रापजयौजयः ।
न यत्र वाक्यकथनं तन्मयो भव सर्वदा ॥ २९.२५॥

न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् ।
न यत्र च महानन्दं तन्मयो भव सर्वदा ॥ २९.२६॥

न यत्र हि सजातीयं विजातीयं न यत्र हि ।
न यत्र स्वगतं भेदं तन्मयो भव सर्वदा ॥ २९.२७॥

न यत्र नरको घोरो न यत्र स्वर्गसम्पदः ।
न यत्र ब्रह्मलोको वा तन्मयो भव सर्वदा ॥ २९.२८॥