भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 143, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 143

न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः ।
ब्रह्माण्डमण्डलं यत्र तन्मयो भव सर्वदा ॥ २९.२९ ॥

न यत्र भूषणं यत्र दूषणं वा न विद्यते ।
न यत्र समता दोषं तन्मयो भव सर्वदा ॥ २९.३० ॥

न यत्र मनसा भावो न यत्र सविकल्पनं ।
न यत्रानुभवं दुःखं तन्मयो भव सर्वदा ॥ २९.३१ ॥

यत्र पापभयं नास्ति पञ्चपापादपि क्वचित् ।
न यत्र सङ्गदोषं वा तन्मयो भव सर्वदा ॥ २९.३२ ॥

यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्वचित् ।
यत्र विश्वविकल्पाख्यं तन्मयो भव सर्वदा ॥ २९.३३ ॥

न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः ।
न यत्र करणाकारं तन्मयो भव सर्वदा ॥ २९.३४ ॥

न यत्र हि मनो राज्यं यत्रैव परमं सुखं ।
यत्र वै शाश्वतं स्थानं तन्मयो भव सर्वदा ॥ २९.३५ ॥

यत्र वै कारणं शान्तं यत्रैव सकलं सुखं ।
यद्गत्वा न निवर्तन्ते तन्मयो भव सर्वदा ॥ २९.३६ ॥

यद् ज्ञात्वा मुच्यते सर्वं यद् ज्ञात्वाऽन्यन्न विद्यते ।
यद् ज्ञात्वा नान्यविज्ञानं तन्मयो भव सर्वदा ॥ २९.३७ ॥

यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः ।
यत्रैव जीवसङ्घातः तन्मयो भव सर्वदा ॥ २९.३८ ॥

यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्ञ्चलं ।
यत्रैव निश्चलं शान्तं तन्मयो भव सर्वदा ॥ २९.३९ ॥

यत्रैव सर्वसौख्यं वा यत्रैव संनिरूपणं ।
यत्रैव निश्चयाकारं तन्मयो भव सर्वदा ॥ २९.४० ॥

न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयं ।
यत्रैव निश्चयं शान्तं तन्मयो भव सर्वदा ॥ २९.४१ ॥

यत्रैव मोदते नित्यं यत्रैव सुखमेधते ।
यत्र दुःखभयं नास्ति तन्मयो भव सर्वदा ॥ २९.४२ ॥

यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः ।
यत्रैव परमं साक्षात् तन्मयो भव सर्वदा ॥ २९.४३ ॥

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध) · पृष्ठ 143, कुल 249 में से · BharatKosha