ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 144, कुल 249 में से
संदर्भ में पढ़ेंयत्रैव स्वयमेवात्र स्वयमेव तदेव हि ।
स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो भव सर्वदा ॥ २९.४४॥
यत्रैव परमानन्दं स्वयमेव सुखं परं ।
यत्रैवाभेदकलनं तन्मयो भव सर्वदा ॥ २९.४५॥
न यत्र चाणुमात्रं वा न यत्र मनसो मलं ।
न यत्र च ददाम्येव तन्मयो भव सर्वदा ॥ २९.४६॥
यत्र चित्तं मृतं देहं मनो मरणमात्मनः ।
यत्र स्मृतिर्लयं याति तन्मयो भव सर्वदा ॥ २९.४७॥
यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.४८॥
यत्र देवास्त्रयो लीनं यत्र देहादयो मृताः ।
न यत्र व्यवहारोऽस्ति तन्मयो भव सर्वदा ॥ २९.४९॥
यत्र मग्नो निरायासो यत्र मग्नो न पश्यति ।
यत्र मग्नो न जन्मादिस्तन्मयो भव सर्वदा ॥ २९.५०॥
यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते ।
यत्रैव मोहमरणं तन्मयो भव सर्वदा ॥ २९.५१॥
यत्रैव कालमरणं यत्र योगी लयं गतः ।
यत्र सत्संगतिर्नष्टा तन्मयो भव सर्वदा ॥ २९.५२॥
यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकं ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५३॥
यत्र विश्वं क्वचिन्नास्ति यत्र नास्ति ततो जगत् ।
यत्रान्तःकरणं नास्ति तन्मयो भव सर्वदा ॥ २९.५४॥
यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकं ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५५॥
यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकं ।
यत्रानन्दमयं भाति तन्मयो भव सर्वदा ॥ २९.५६॥
यत्र साक्षात् परं ब्रह्म यत्र साक्षात् स्वयं परं ।
यत्र शान्तं परं लक्ष्यं तन्मयो भव सर्वदा ॥ २९.५७॥
यत्र साक्षादखण्डार्थं यत्र साक्षात् परायणं ।
यत्र नाशादिकं नास्ति तन्मयो भव सर्वदा ॥ २९.५८॥