भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 145, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 145

यत्र साक्षात् स्वयं मात्रं यत्र साक्षात्स्वयं जयं ।
यत्र साक्षान्नहोनात्मा तन्मयो भव सर्वदा ॥ २९.५९॥

यत्र साक्षात् परं तत्त्वं यत्र साक्षात् स्वयं महत् ।
यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ २९.६०॥

यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलं ।
यत्र साक्षात् सदाशुद्धं तन्मयो भव सर्वदा ॥ २९.६१॥

यत्र साक्षान्नहोनात्मा यत्र साक्षात् सुखात् सुखं ।
यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ २९.६२॥

यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयं ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.६३॥

एवं तन्मयभावोक्तं एवं नित्यशनित्यशः ।
ब्रह्मोऽहं सच्चिदानन्दं अखण्डोऽहं सदा सुखं ॥ २९.६४॥

विज्ञानं ब्रह्ममात्रोऽहं स शान्तं परमोऽस्म्यहं ।
चिदहं चित्कहीनोऽहं नाहं सोऽहं भवाम्यहं ॥ २९.६५॥

तदहं चिदहं सोऽहं निर्मलोऽहमहं परं ।
परोऽहं परमोऽहं वै सर्वं त्यज्य सुखीभव ॥ २९.६६॥

इदं सर्वं चित्तशेषं शुद्धत्वकमलीकृतं ।
एवं सर्वं परित्यज्य विस्मृत्या शुद्धकाष्ठवत् ॥ २९.६७॥

प्रेतवद्देहं संत्यज्य काष्ठवल्लोष्टवत् सदा ।
स्मरणं च परित्यज्य ब्रह्ममात्रपरो भव ॥ २९.६८॥

एतत् प्रकरणं यस्तु शृणोति सकृदस्ति वा ।
महापातकयुक्तोऽपि सर्वं त्यक्त्वा परं गतः ॥ २९.६९॥

अङ्गावबद्धाभरुपासनाभि-
र्मदन्ति वेदाः किल त्वामसङ्गं ।
समस्तहृत्कोशविशेषसङ्गं
भूमानमात्मानमखण्डरूपं ॥ २९.७०॥

इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ॥