भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

यत्र साक्षात् स्वयं मात्रं यत्र साक्षात्स्वयं जयं ।
यत्र साक्षान्नहोनात्मा तन्मयो भव सर्वदा ॥ २९.५९॥

यत्र साक्षात् परं तत्त्वं यत्र साक्षात् स्वयं महत् ।
यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ २९.६०॥

यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलं ।
यत्र साक्षात् सदाशुद्धं तन्मयो भव सर्वदा ॥ २९.६१॥

यत्र साक्षान्नहोनात्मा यत्र साक्षात् सुखात् सुखं ।
यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ २९.६२॥

यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयं ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.६३॥

एवं तन्मयभावोक्तं एवं नित्यशनित्यशः ।
ब्रह्मोऽहं सच्चिदानन्दं अखण्डोऽहं सदा सुखं ॥ २९.६४॥

विज्ञानं ब्रह्ममात्रोऽहं स शान्तं परमोऽस्म्यहं ।
चिदहं चित्कहीनोऽहं नाहं सोऽहं भवाम्यहं ॥ २९.६५॥

तदहं चिदहं सोऽहं निर्मलोऽहमहं परं ।
परोऽहं परमोऽहं वै सर्वं त्यज्य सुखीभव ॥ २९.६६॥

इदं सर्वं चित्तशेषं शुद्धत्वकमलीकृतं ।
एवं सर्वं परित्यज्य विस्मृत्या शुद्धकाष्ठवत् ॥ २९.६७॥

प्रेतवद्देहं संत्यज्य काष्ठवल्लोष्टवत् सदा ।
स्मरणं च परित्यज्य ब्रह्ममात्रपरो भव ॥ २९.६८॥

एतत् प्रकरणं यस्तु शृणोति सकृदस्ति वा ।
महापातकयुक्तोऽपि सर्वं त्यक्त्वा परं गतः ॥ २९.६९॥

अङ्गावबद्धाभरुपासनाभि-
र्मदन्ति वेदाः किल त्वामसङ्गं ।
समस्तहृत्कोशविशेषसङ्गं
भूमानमात्मानमखण्डरूपं ॥ २९.७०॥

इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ॥

॥ त्रिंशोऽध्यायः ॥

ऋभुः –

वक्ष्ये परं ब्रह्ममात्रं जगत्संत्यागपूर्वकम् ।
सकृच्छ्रवणमात्रेण ब्रह्मभावं परं लभेत् ॥ ३०.१॥

ब्रह्म ब्रह्मपरं मात्रं निर्गुणं नित्यनिर्मलम् ।
शाश्वतं सममत्यन्तं ब्रह्मणोऽन्यन्न विद्यते ॥ ३०.२॥

अहं सत्यः परानन्दः शुद्धो नित्यो निरञ्जनः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्मोऽहं न संशयः ॥ ३०.३॥

अखण्डैकरसैवास्मि परिपूर्णोऽस्मि सर्वदा ।
ब्रह्मैव सर्वं नान्योऽस्ति सर्वं ब्रह्म न संशयः ॥ ३०.४॥

सर्वदा केवलात्माऽहं सर्वं ब्रह्मेति नित्यशः ।
आनन्दरूपमेवाहं नान्यत् किञ्चिन्न शाश्वतम् ॥ ३०.५॥

शुद्धानन्दस्वरूपोऽहं शुद्धविज्ञानमात्मनः ।
एकाकारस्वरूपोऽहं नैकसत्ताविवर्जितः ॥ ३०.६॥

अन्तरज्ञानशुद्धोऽहमहमेव परायणम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्मोऽहं न संशयः ॥ ३०.७॥

अनेकत्वविहीनोऽहं एकत्वं च न विद्यते ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्मोऽहं न संशयः ॥ ३०.८॥

सर्वप्रकाररूपोऽस्मि सर्वं इत्यपि वर्जितः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्मोऽहं न संशयः ॥ ३०.९॥

निर्मलज्ञानरूपोऽहमहमेव न विद्यते ।
शुद्धब्रह्मस्वरूपोऽहं विशुद्धपदवर्जितः ॥ ३०.१०॥

नित्यानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
सूक्ष्मात् सूक्ष्मतरोऽहं वै सूक्ष्म इत्यादिवर्जितः ॥ ३०.११॥

अखण्डानन्दमात्रोऽहं अखण्डानन्दविग्रहः ।
सदाऽमृतस्वरूपोऽहं सदा कैवल्यविग्रहः ॥ ३०.१२॥

ब्रह्मानन्दमिदं सर्वं नास्ति नास्ति कदाचन ।
जीवत्वधर्महीनोऽहमीश्वरत्वविवर्जितः ॥ ३०.१३॥

वेदशास्त्रस्वरूपोऽहं शास्त्रस्मरणकारणम् । जगत्कारणकार्यं च ब्रह्मविष्णुमहेश्वराः ॥ ३०.१४॥

वाच्यवाचकभेदं च स्थूलसूक्ष्मशरीरकम् । जाग्रत्स्वप्नसुषुप्त्याद्यप्राज्ञतैजसविश्वकाः ॥ ३०.१५॥

सर्वशास्त्रस्वरूपोऽहं सर्वानन्दमहं सदा । अतीतनामरूपार्थ अतीततः सर्वकल्पनात् ॥ ३०.१६॥

द्वैताद्वैतं सुखं दुःखं लाभालाभौ जयाजयौ । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.१७॥

सात्त्विकं राजसं भेदं संशयं हृदयं फलम् । दृक् दृष्टं सर्वद्रष्टा च भूतभौतिकदैवतम् ॥ ३०.१८॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । तुर्यरूपमहं साक्षात् ज्ञानरूपमहं सदा ॥ ३०.१९॥

अज्ञानं चैव नास्त्येव तत्कार्यं कुत्र विद्यते । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२०॥

चित्तवृत्तिविलासं च बुद्धीनामपि नास्ति हि । देहसंकल्पहीनोऽहं बुद्धिसंकल्पकल्पना ॥ ३०.२१॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । बुद्धीनिश्चयरूपोऽहं निश्चयं च गलत्यहो ॥ ३०.२२॥

अहंकारं बहुविधं देहोऽहमिति भावनम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२३॥

ब्रह्माहमपि काणोऽहं बधिरोऽहं परोऽस्म्यहम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२४॥

देहोऽहमिति तादात्म्यं देहस्य परमात्मनः । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२५॥

सर्वोऽहमिति तादात्म्यं सर्वस्य परमात्मनः । इति भावय यत्नेन ब्रह्मैवाहमिति प्रभो ॥ ३०.२६॥

दृढनिश्चयमेवेदं सत्यं सत्यमहं परम् । दृढनिश्चयमेवात्र सद्गुरोर्वाक्यनिश्चयम् ॥ ३०.२७॥

दृढनिश्चयसाम्राज्ये तिष्ठ तिष्ठ सदा परः । अहमेव परं ब्रह्म आत्मानन्दप्रकाशकः ॥ ३०.२८॥

शिवपूजा शिवश्चाहं विष्णुर्विष्णुप्रपूजनम् । यद्यत् संवेद्यते किञ्चित् यद्यन्निश्चीयते क्वचित् ॥ ३०.२९॥

तदेव त्वं त्वमेवाहं इत्येवं नास्ति किञ्चन । इदं चित्तमिदं दृश्यं इत्येवमिति नास्ति हि ॥ ३०.३०॥

सदसद्भावशेषोऽपि तत्त्वद्भेदं न विद्यते । सुखरूपमिदं सर्वं सुखरूपमिदं न च ॥ ३०.३१॥

लक्षभेदं सकृद्भेदं सर्वभेदं न विद्यते । ब्रह्मानन्दो न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.३२॥

ब्रह्मभेदं तुर्यभेदं जीवभेदमभेदकम् । इदमेव हि नोत्पन्नं सर्वदा नास्ति किञ्चन ॥ ३०.३३॥

स देवमिति निर्देशो नास्ति नास्त्येव सर्वदा । अस्ति चेत् किल वक्तव्यं नास्ति चेत् कथमुच्यते ॥ ३०.३४॥

परं विशेषमेवेति नास्ति किञ्चित् सदा मयि । चञ्चलं मनश्चैव नास्ति नास्ति न संशयः ॥ ३०.३५॥

एवमेव सदा पूर्णो निरीहस्तिष्ठ शान्तधीः । सर्वं ब्रह्मास्मि पूर्णोऽस्मि एवं च न कदाचन ॥ ३०.३६॥

आनन्दोऽहं वरिष्ठोऽहं ब्रह्मास्मीत्यपि नास्ति हि । ब्रह्मानन्दमहानन्दमात्मानन्दमखण्डितम् ॥ ३०.३७॥

इदं परमहन्ता च सर्वदा नास्ति किञ्चन । इदं सर्वमिति ख्याति आनन्दं नेति नो भ्रमः ॥ ३०.३८॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । लक्ष्यलक्षणभावं च दृश्यदर्शनदृश्यता ॥ ३०.३९॥

अत्यन्ताभावमेवेति सर्वदानुभवं महत् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.४०॥

गुह्यं मन्त्रं गुणं शास्त्रं सत्यं श्रोत्रं कलेवरम् । मरणं जननं कार्यं कारणं पावनं शुभम् ॥ ३०.४१॥

कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव हि । द्वैतदोषं भयं शोकं सर्वं नास्त्येव सर्वदा ॥ ३०.४२॥

इदं नास्त्येव नास्त्येव नास्त्येव सकलं सुखम् । इदं ब्रह्मेति मननमहं ब्रह्मेति चिन्तनम् ॥ ३०.४३॥

अहं ब्रह्मेति मननं त्वं ब्रह्मत्वविनाशनम् । सत्यत्वं ब्रह्मविज्ञानं असत्यत्वं न बाध्यते ॥ ३०.४४॥

एक एव परो ह्यात्मा एकत्वभ्रान्तिवर्जितः । सर्वं ब्रह्म सदा ब्रह्म तद्ब्रह्माहं न संशयः ॥ ३०.४५॥

जीवरूपा जीवभावा जीवशब्दत्रयं न हि । ईशरूपं चेशभावं ईशशब्दं च कल्पितम् ॥ ३०.४६॥

नाक्षरं न च सर्वं वा न पदं वाच्यवाचकम् । हृदयं मन्त्रतन्त्रं च चित्तं बुद्धिर्न किञ्चन ॥ ३०.४७॥

मूढो ज्ञानी विवेकी वा शुद्ध इत्यपि नास्ति हि । निश्चयं प्रणवं तारं आत्मायं गुरुशिष्यकम् ॥ ३०.४८॥

तूष्णीं तूष्णीं महातूष्णीं मौनं वा मौनभावनम् । प्रकाशनं प्रकाशं च आत्मानात्मविवेचनम् ॥ ३०.४९॥

ध्यानयोगं राजयोगं भोगमष्टाङ्गलक्षणम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.५०॥

अस्तित्वभाषणं चापि नास्तित्वस्य च भाषणम् । पञ्चाशद्वर्णरूपोऽहं चतुःषष्टिकलात्मकः ॥ ३०.५१॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५२॥

शास्त्रज्ञानविदूरोऽहं वेदज्ञानविदूरकः । उक्तं सर्वं परं ब्रह्म नास्ति सन्देहलेशतः ॥ ३०.५३॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५४॥

इत्येवं ब्रह्मतन्मात्रं तत्र तुभ्यं प्रियं ततः । यस्तु बुद्ध्येत सततं सर्वं ब्रह्म न संशयः । नित्यं शृण्वन्ति ये मर्त्यास्ते चिन्मात्रमयामलाः ॥ ३०.५५॥

सन्देहसन्देहकरोऽर्ककास्यैः करादिसन्दोहजगद्विकारिभिः । यो वीतमोहं न करोति दुर्हृदं विदेहमुक्तिं शिवदृक्प्रभावतः ॥ ३०.५६॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः ॥

॥ एकत्रिंशोऽध्यायः ॥

ऋभुः –

वक्ष्ये रहस्यमत्यन्तं साक्षाद्ब्रह्मप्रकाशकम् । सर्वोपनिषदामर्थं सर्वलोकेषु दुर्लभम् ॥ 31.1॥

प्रज्ञानं ब्रह्म निश्चित्य पदद्वयसमन्वितम् । महावाक्यं चतुर्वाक्यं ऋग्यजुःसामसंभवम् ॥ 31.2॥

मम प्रज्ञैव ब्रह्माहं ज्ञानमात्रमिदं जगत् । ज्ञानमेव जगत् सर्वं ज्ञानादन्यन्न विद्यते ॥ 31.3॥

ज्ञानस्यानन्तरं सर्वं दृश्यते ज्ञानरूपतः । ज्ञानस्य ब्रह्मणश्चापि ममैव पृथज् न हि ॥ 31.4॥

जीवः प्रज्ञानशब्दस्य ब्रह्मशब्दस्य चेश्वरः । ऐक्यमस्मीत्यखण्डार्थमखण्डैकरसं ततम् ॥ 31.5॥

अखण्डाकारवृत्तिस्तु जीवन्मुक्तिरितीरितम् । अखण्डैकरसं वस्तु विदेहो मुक्तिरुच्यते ॥ 31.6॥

ब्रह्मैवाहं न संसारी सच्चिदानन्दमस्म्यहम् । निर्गुणोऽहं निरंशोऽहं परमानन्दवानहम् ॥ 31.7॥

नित्योऽहं निर्विकल्पोऽहं चिदहं चिदहं सदा । अखण्डाकारवृत्त्याख्यं चित्तं ब्रह्मात्मना स्थितम् ॥ 31.8॥

लवणं तोयमात्रेण यदैकत्वमखण्डितम् । अखण्डैकरसं वक्ष्ये विदेहो मुक्तिलक्षणम् ॥ 31.9॥

प्रज्ञापदं परित्यज्य ब्रह्मैव पदमेव हि । अहमस्मि महानस्मि सिद्धोऽस्मीति परित्यजन् ॥ 31.10॥

स्मरणं च परित्यज्य भावनं चित्तकर्मकम् । सर्वमन्तः परित्यज्य सर्वशून्यं परिस्थितिः ॥ 31.11॥

तूष्णीं स्थितिं च संत्यज्य ततो मानविकल्पनम् । यत्तच्चित्तं विकल्पांशं मनसा कल्पितं जगत् ॥ 31.12॥

देहोऽहमित्यहंकारं द्वैतवृत्तिरितीरितम् । सर्वं साक्ष्यहं ब्रह्म इत्येवं दृढनिश्चयम् ॥ 31.13॥

प्रथमे निश्चिते द्वैते द्वितीये साक्षिसंशयः ॥ ३१.१५॥

सर्वदाऽसंशयं ब्रह्म साक्षिवृत्तिरीतीरितम् ।
द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकम् ॥ ३१.१४॥

अखण्डैकरसं चेति लोके वृत्तित्रयं भवेत् ।
प्रथमे निश्चिते द्वैते द्वितीये साक्षिसंशयः ॥ ३१.१५॥

तृतीये पदभागे हि दृढनिश्चयमीरितम् ।
एतत्त्रयार्थं संशोध्य तं परित्यज्य निश्चिनु ॥ ३१.१६॥

अखण्डैकरसाकारो नित्यं तन्मयतां व्रज ।
अभ्यासवाक्यमेतत्तु सदाऽभ्यासस्य कारणम् ॥ ३१.१७॥

मननस्य परं वाक्यं योजयं चन्दनवृक्षवत् ।
युक्तिभिश्चिन्तनं वृत्तं पदत्रयमुदाहृतम् ॥ ३१.१८॥

अहं पदस्य जीवोऽर्थ ईशो ब्रह्मपदस्य हि ।
अस्मीति पदभागस्य अखण्डाकारवृत्तिकम् ॥ ३१.१९॥

पदत्रयं परित्यज्य विचार्य मनसा सह ।
अखण्डैकरसं प्राप्य विदेहो मुक्तिलक्षणम् ॥ ३१.२०॥

अहं ब्रह्मास्मि चिन्मात्रं सच्चिदानन्दविग्रहः ।
अहं ब्रह्मास्मि वाक्यस्य श्रवणानन्तरं सदा ॥ ३१.२१॥

अहं ब्रह्मास्मि नित्योऽस्मि शान्तोऽस्मि परमोऽस्म्यहम् ।
निर्गुणोऽहं निरीहोऽहं निरंशोऽस्मि सदा स्मृतः ॥ ३१.२२॥

आत्मैवास्मि न सन्देहः अखण्डैकरसोऽस्म्यहम् ।
एवं निरन्तरं तज्ज्ञो भावयेत् परमात्मनि ॥ ३१.२३॥

यथा चानुभवं वाक्यं तस्मादनुभवेत् सदा ।
आरम्भाच्च द्वितीयात्तु स्मृतमभ्यासवाक्यतः ॥ ३१.२४॥

तृतीयान्तत्वमसीति वाक्यसामान्यनिर्णयम् ।
तत्पदं त्वंपदं त्वस्य पदत्रयमुदाहृतम् ॥ ३१.२५॥

तत्पदस्येश्वरो ह्यर्थो जीवोऽर्थस्त्वंपदस्य हि ।
ऐक्यस्यापि पदस्यार्थमखण्डैकरसं पदम् ॥ ३१.२६॥

द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकः ।
अखण्डं सच्चिदानन्दं तत्त्वमेवासि निश्चयः ॥ ३१.२७॥

त्वं ब्रह्मासि न सन्देहस्त्वमेवासि चिदव्ययः ।
त्वमेव सच्चिदानन्दस्त्वमेवाखण्डनिश्चयः ॥ ३१.२८॥

इत्येवमुक्तो गुरुणा स एव परमो गुरुः ।
अहं ब्रह्मेति निश्चित्य सच्छिष्यः परमात्मवान् ॥ ३१.२९॥

नान्यो गुरुर्नान्यशिष्यस्त्वं ब्रह्मासि गुरुः परः ।
सर्वमन्त्रोपदेष्टारो गुरवः स गुरुः परः ॥ ३१.३०॥

त्वं ब्रह्मासीति वक्तारं गुरुरेवेति निश्चिनु ।
तथा तत्त्वमसि ब्रह्म त्वमेवासि च सद्गुरुः ॥ ३१.३१॥

सद्गुरोर्वचने यस्तु निश्चयं तत्त्वनिश्चयं ।
करोति सततं मुक्त्यैर्नात्रा कार्या विचारणा ॥ ३१.३२॥

महावाक्यं गुरोर्वाक्यं तत्त्वमस्यादिवाक्यकं ।
शृणोतु श्रवणं चित्तं नान्यत् श्रवणमुच्यते ॥ ३१.३३॥

सर्ववेदान्तवाक्यानामद्वैते ब्रह्मणि स्थितिः ।
इत्येवं च गुरोर्वक्त्रात् श्रुतं ब्रह्मेति तच्छ्रवः ॥ ३१.३४॥

गुरोर्नान्यो मन्त्रवादी एक एव हि सद्गुरुः ।
त्वं ब्रह्मासीति येनोक्तं एष एव हि सद्गुरुः ॥ ३१.३५॥

वेदान्तश्रवणं चैतन्नान्यच्छ्रवणमीरितं ।
युक्तिभिश् Boasting: युक्तिभिश्चिन्तनं चैव मननं परिकथ्यते ॥ ३१.३६॥

एवं चन्दनवृक्षोऽपि श्रुतोऽपि परिशोध्यते ।
त्वं ब्रह्मासीति चोक्तोऽपि संशयं परिपश्यति ॥ ३१.३७॥

संशोध्य निश्चिनोत्येवमात्मानं परिशोध्यते ।
युक्तिर्नाम वदाम्यत्र देहोऽनाहं विनाशतः ॥ ३१.३८॥

स्थूलदेहं सूक्ष्मदेहं स्थूलसूक्ष्मं च कारणं ।
त्रयं चधुर्धे नास्तीति सर्वं चिन्मात्रमेव हि ॥ ३१.३९॥

एतत्सर्वं जडत्वाच्च दृश्यत्वाद्धटवन्नहि ।
अहं चैतन्यमेवात्र दृग्रूपत्वाल्लयं न हि ॥ ३१.४०॥

सत्यं ज्ञानमनन्तं यदात्मनः सहजा गुणाः ।
अन्ततं जडदुःखादि जगतः प्रथितो गुणः ॥ ३१.४१॥

तस्मादहं ब्रह्म एव इदं सर्वमसत्यकं ।
एवं च मननं नित्यं करोति ब्रह्मवित्तमः ॥ ३१.४२॥

वक्ष्ये निदिध्यासनं च उभयात्मगलक्षणं ।
त्वं ब्रह्मासीति श्रवणं मननं चाहमेव हि ॥ ३१.४३॥

एतत्त्यागं निदिध्यासं सजातीयत्वभावनम् ।
विजातीयपरित्यागं स्वगतत्वविभावनम् ॥ ३१.४४॥

सर्वत्यागं परित्यज्य तुरीयत्वं च वर्जनम् ।
ब्रह्मचिन्मात्रसारत्वं सात्कारं प्रचक्षते ॥ ३१.४५॥

उपदेशे महावाक्यमस्तित्वमिति निर्णयः ।
तथैवानुभवं वाक्यमहं ब्रह्मास्मि निर्णयः ॥ ३१.४६॥

प्रज्ञानं ब्रह्मवाक्योत्थमभ्यासार्थमितीरितम् ।
अयमात्मेति वाक्योत्थदर्शनं वाक्यमीरितम् ॥ ३१.४७॥

अयमेकपदं चैक आत्मेति ब्रह्म च त्रयम् ।
अयंपदस्य जीवोऽर्थ आत्मनो ईश्वरः परः ॥ ३१.४८॥

तथा ब्रह्मपदस्यार्थ अखण्डाकारवृत्तिकम् ।
अखण्डैकरसं सर्वं पदत्रयलयं गतम् ॥ ३१.४९॥

अखण्डैकरसो ह्यात्मा नित्यशुद्धविमुक्तकः ।
तदेव सर्वमुद्भूतं भविष्यति न संशयः ॥ ३१.५०॥

अखण्डैकरसो देव अयमेकमुदीरितम् ।
आत्मेति पदमेकस्य ब्रह्मेति पदमेककम् ॥ ३१.५१॥

अयं पदस्य जीवोऽर्थ आत्मेतीश्वर ईरितः ।
अस्यार्थोऽस्मीत्यखण्डार्थमखण्डैकरसं पदम् ॥ ३१.५२॥

द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् ।
अखण्डैकरसं पश्चात् सोऽहमस्मीति भावय ॥ ३१.५३॥

इत्येवं च चतुर्वाक्यतात्पर्यार्थं समीरितम् ।
उपाधिसहितं वाक्यं केवलं लक्ष्यमीरितम् ॥ ३१.५४॥

किंचिज्ज्ञत्वादि जीवस्य सर्वज्ञत्वादि चेश्वरः ।
जीवोऽपरो सचैतन्यमीश्वरोऽहं परोक्षकः ॥ ३१.५५॥

सर्वशून्यमिति त्याज्यं ब्रह्मास्मीति विनिश्चयः ।
अहं ब्रह्म न संदेहः सच्चिदानन्दविग्रहः ॥ ३१.५६॥

अहमैक्यं परं गत्वा स्वस्वभावो भवोत्तम ।
एतत्सर्वं महोमिथ्या नास्ति नास्ति न संशयः ॥ ३१.५७॥

सर्वं नास्ति न संदेहः सर्वं ब्रह्म न संशयः ।
एकाकारमखण्डार्थं तदेवाहं न संशयः ।

ब्रह्मेदं वितताकारं तद्ब्रह्माहं न संशयः ॥ ३१.५८॥

सूतः –

भवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुवि
प्रकृष्टरसभावतः प्रथितबोधबुद्धं भव ।
भजन्ति भसिताङ्गका भरितमोदभारादरा
भुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥ ३१.५९॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे महावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः ॥


॥ द्वात्रिंशोऽध्यायः ॥

ऋभुः –

वक्ष्ये पुनरसत्यागं ब्रह्मनिश्चयमेव च ।
यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ ३२.१॥

चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२॥

देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३॥

दृश्यं च दर्शनं दृष्टा कर्ता कारयिता क्रिया ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.४॥

एकं द्वित्वं पृथक्त्वं अस्ति नास्तीति निर्णयः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.५॥

शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनं ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.६॥

जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.७॥

अखण्डाकारवृत्तिश्च अखण्डैकरसं परं ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.८॥

परापरविकल्पश्च पुण्यपापविकल्पनं ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.९॥

कल्पनाकल्पनाद्वैतं मनोकल्पनभावनं ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१०॥

सिद्धं साध्यं साधनं च नाशनं ब्रह्मभावनं ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.११॥

आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१२॥

अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१३॥

शमो दमो मनोधर्मस्तदभावे च तत्कुतः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.14॥

बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.15॥

सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.16॥

ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.17॥

विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.18॥

रुद्रलोकः सदा मिथ्या अहंकारस्वरूपतः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.19॥

चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.20॥

दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.21॥

सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.22॥

वरुणस्य सदा लोको जिह्वारससमन्वितः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.23॥

त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.24॥

अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.25॥

अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.26॥

इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.27॥

उपेन्द्रस्य महर्लोको गमनेन पदं युतम् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ 32.28॥

मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ ३२.२९॥

प्रजापतेर्हृल्लोको गुह्यमानन्दसंयुतम् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ ३२.३०॥

सर्वं मिथ्या न संदेहः सर्वमात्मेति निश्चितम् । तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३२.३१॥

मुमुक्षुत्वं च मोक्षश्च मोक्षार्थे मम जीवने । चतुःसाधनसंपन्नः सोऽधिकारीति निश्चयः ॥ ३२.३२॥

जीवब्रह्मैक्यसद्भावं वियद्ब्रह्मेति निश्चयः । वेदान्तब्रह्मणो बोध्यं बोधकं बन्धमुच्यते ॥ ३२.३३॥

सर्वज्ञाननिवृत्तिश्चेदानन्दावाप्तिकं फलम् । इत्येवमादिभिः शब्दैः प्रोक्तं सर्वमसत् सदा ॥ ३२.३४॥

सर्वशब्दार्थरूपं च निश्चयं भावनं तथा । ब्रह्ममात्रं परं सत्यमन्यत् सर्वमसत् सदा ॥ ३२.३५॥

अनेकशब्दश्रवणमनेकार्थविचारणम् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ ३२.३६॥

नानुध्यायाद्बहूञ्छब्दान् इत्युक्त्या ह महौनसि । ब्रह्मोपदेशकाले तु सर्वं चोक्तं न संशयः ॥ ३२.३७॥

ब्रह्मैवाहमिदं द्वैतं चित्सत्त्वाविभावनम् । चिन्मात्रोऽहमिदं द्वैतं जीवब्रह्मेति भावनम् ॥ ३२.३८॥

अहं चिन्मात्रमन्त्रं वा कार्यकारणचिन्तनम् । अक्षयानन्दविज्ञानमखण्डैकरसाद्वयम् ॥ ३२.३९॥

परं ब्रह्म इदं ब्रह्म शान्तं ब्रह्म स्वयं जगत् । अन्तरिन्द्रियविज्ञानं बाह्येन्द्रियनिरोधनम् ॥ ३२.४०॥

सर्वोपदेशकालं च साम्यं शेषं महोदयम् । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ३२.४१॥

कारणं कार्यभेदं च शास्त्रमार्गेककल्पनम् । अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मेति शब्दतः ॥ ३२.४२॥

सत्यरूपं क्वचिन्नास्ति सत्यं नाम कदा नहि । संशयं च विपर्यासं संकल्पः कारणं भ्रमः ॥ ३२.४३॥

आत्मनोऽन्यत् क्वचिन्नास्ति सर्वं मिथ्या न संशयः ।
महतां हृद्यते मन्त्री मेधाशुद्धिशुभाशुभम् ॥ ३२.४४॥

देशभेदं वस्तुभेदं न च चैतन्यभेदकम् ।
आत्मनोऽन्यत् पृथग्भावमात्मनोऽन्यन्निरूपणम् ॥ ३२.४५॥

आत्मनोऽन्यन्नामरूपमात्मनोऽन्यच्छुभाशुभम् ।
आत्मनोऽन्यद्वस्तुसत्ता आत्मनोऽन्यज्जगत्त्रयम् ॥ ३२.४६॥

आत्मनोऽन्यत् सुखं दुःखमात्मनोऽन्यद्विचिन्तनम् ।
आत्मनोऽन्यत्प्रपञ्चं वा आत्मनोऽन्यज्जयाजयौ ॥ ३२.४७॥

आत्मनोऽन्यद्देवपूजा आत्मनोऽन्यच्छिवार्चनम् ।
आत्मनोऽन्यन्महाध्यानमात्मनोऽन्यत् कलाक्रमम् ॥ ३२.४८॥

सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः ।
सर्वमुक्तं भगवता निदिध्यासस्तु सर्वदा ॥ ३२.४९॥

सकृच्छ्रवणमात्रेण हृदयग्रन्थिरन्तिमम् ।
कर्मनाशं च मूढानां महतां मुक्तिरेव हि ॥ ३२.५०॥

अनेककोटिजननपातकं भस्मसाद्भवेत् ।
सत्यं सत्यं पुनः सत्यं सत्यं सर्वं विनश्यति ।
सद्यो मुक्तिर्न सन्देहो नास्ति मङ्गलमङ्गलम् ॥ ३२.५१॥

क्व भेदभावदर्शनं न चैव शोकमोहहृत्
प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनातू ।
यतो भवेज्जगाद तं महेश येन जीवितम्
यदन्तराऽविशत् सदा यथोर्णनाभतन्तुवत् ॥ ३२.५२॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ॥

॥ त्रयस्त्रिंशोऽध्यायः ॥

ऋभुः -

वक्ष्ये परं ब्रह्ममात्रमनुत्पन्नमिदं जगत् । सत्सदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.१॥

आत्मैवाहं परं ब्रह्म नान्यत् संसारदृष्टयः । सत्सदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२॥

सत्सदानन्दमात्रोऽहं चित्सदानन्दविग्रहम् । अहमेवाहमेवैकमहमेव परात् परः ॥ ३३.३॥

सच्चिदानन्दमेवैकमहं ब्रह्मैव केवलम् । अहमस्मि सदा भामि एवं रूपं कुतोऽप्यसत् ॥ ३३.४॥

त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् । चिदाकारं चिदाकाशं चिदेव परमं सुखम् ॥ ३३.५॥

आत्मैवाहमसन्न्याहं कूटस्थोऽहं गुरुः परः । कालं नास्ति जगन्नास्ति कल्मषत्यानुभावनम् ॥ ३३.६॥

अहमेव परं ब्रह्म अहमेव सदा शिवः । शुद्धचैतन्य एवाहं शुद्धसत्यानुभावनः ॥ ३३.७॥

अद्वयानन्दमात्रोऽहमव्ययोऽहं महानहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव निर्मलः ॥ ३३.८॥

सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव चेतनः । सर्वप्रकाशरूपोऽहं सर्वप्रियमनो ह्यहम् ॥ ३३.९॥

एकान्तैकप्रकाशोऽहं सिद्धासिद्धिविवर्जितः । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणम् ॥ ३३.१०॥

शमो विचारसन्तोषरूपोऽहमिति निश्चयः । परमात्मा परं ज्योतिः परं परविवर्जितः ॥ ३३.११॥

परिपूर्णस्वरूपोऽहं परमात्माऽहमच्युतः । सर्ववेदस्वरूपोऽहं सर्वशास्त्रस्य निर्णयः ॥ ३३.१२॥

लोकानन्दस्वरूपोऽहं मुख्यानन्दस्य निर्णयः । सर्वं ब्रह्मैव भूरास्ति सर्वं ब्रह्मैव कारणम् ॥ ३३.१३॥

सर्वं ब्रह्मैव नाकार्यं सर्वं ब्रह्म स्वयं वरः ।
नित्याक्षरोऽहं नित्योऽहं सर्वकल्याणकारकम् ॥ ३३.१४॥

सत्यज्ञानप्रकाशोऽहं मुख्यविज्ञानविग्रहः ।
तुर्यातुर्यप्रकाशोऽहं सिद्धासिद्धादिवर्जितः ॥ ३३.१५॥

सर्वं ब्रह्मैव सततं सर्वं ब्रह्म निरन्तरम् ।
सर्वं ब्रह्म चिदाकाशं नित्यब्रह्म निरञ्जनम् ॥ ३३.१६॥

सर्वं ब्रह्म गुणातीतं सर्वं ब्रह्मैव केवलम् ।
सर्वं ब्रह्मैव इत्येवं निश्चयं कुरु सर्वदा ॥ ३३.१७॥

ब्रह्मैव सर्वमित्येवं सर्वदा दृढनिश्चयः ।
सर्वं ब्रह्मैव इत्येवं निश्चयित्वा सुखी भव ॥ ३३.१८॥

सर्वं ब्रह्मैव सततं भावाभावौ चिदेव हि ।
द्वैताद्वैतविवादोऽयं नास्ति नास्ति न संशयः ॥ ३३.१९॥

सर्वविज्ञानमात्रोऽहं सर्वं ब्रह्मेति निश्चयः ।
गुह्याद्गुह्यतरं सोऽहं गुणातीतोऽहमद्वयः ॥ ३३.२०॥

अन्वयव्यतिरेकं च कार्याकार्यं विशोधय ।
सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२१॥

ब्रह्मैव सर्वमेवेदं चिदाकाशमिदं जगत् ।
ब्रह्मैव परमानन्दं आकाशसदृशं विभु ॥ ३३.२२॥

ब्रह्मैव सच्चिदानन्दं सदा वाचामगोचरम् ।
ब्रह्मैव सर्वमेवेदमस्ति नास्तीति केचन ॥ ३३.२३॥

आनन्दभावना किञ्चित् सदसन्मात्र एव हि ।
ब्रह्मैव सर्वमेवेदं सदा सन्मात्रमेव हि ॥ ३३.२४॥

ब्रह्मैव सर्वमेवदं चिद्घनानन्दविग्रहम् ।
ब्रह्मैव सच्च सत्यं च सनातनमहं महत् ॥ ३३.२५॥

ब्रह्मैव सच्चिदानन्दम् ओतप्रोतेव तिष्ठति ।
ब्रह्मैव सच्चिदानन्दं सर्वाकारं सनातनम् ॥ ३३.२६॥

ब्रह्मैव सच्चिदानन्दं परमानन्दमव्ययम् ।
ब्रह्मैव सच्चिदानन्दं मायातीतं निरञ्जनम् ॥ ३३.२७॥

ब्रह्मैव सच्चिदानन्दं सन्मात्रं सुखात् सुखम् ।
ब्रह्मैव सच्चिदानन्दं चिन्मात्रैकस्वरूपकम् ॥ ३३.२८॥

ब्रह्मैव सच्चिदानन्दं सर्वभेदविवर्जितम् । सच्चिदानन्दं ब्रह्मैव नानाकारमिव स्थितम् ॥ 33.29॥

ब्रह्मैव सच्चिदानन्दं कर्ता चावसरोऽस्ति हि । सच्चिदानन्दं ब्रह्मैव परं ज्योतिः स्वरूपकम् ॥ 33.30॥

ब्रह्मैव सच्चिदानन्दं नित्यनिश्चलमव्ययम् । ब्रह्मैव सच्चिदानन्दं वाचावधिरसावयम् ॥ 33.31॥

ब्रह्मैव सच्चिदानन्दं स्वयमेव स्वयं सदा । ब्रह्मैव सच्चिदानन्दं न करोति न तिष्ठति ॥ 33.32॥

ब्रह्मैव सच्चिदानन्दं न गच्छति न तिष्ठति । ब्रह्मैव सच्चिदानन्दं ब्रह्मणोऽन्यन्न किञ्चन ॥ 33.33॥

ब्रह्मैव सच्चिदानन्दं न शुक्लं न च कृष्णकम् । ब्रह्मैव सच्चिदानन्दं सर्वाधिष्ठानमव्ययम् ॥ 33.34॥

ब्रह्मैव सच्चिदानन्दं न तूष्णीं न विभाषणम् । ब्रह्मैव सच्चिदानन्दं सत्यं नाहं न किञ्चन ॥ 33.35॥

ब्रह्मैव सच्चिदानन्दं परात्परमनुद्भवम् । ब्रह्मैव सच्चिदानन्दं तत्त्वातीतं महोत्स्वम् ॥ 33.36॥

ब्रह्मैव सच्चिदानन्दं परमाकाशमाततम् । ब्रह्मैव सच्चिदानन्दं सर्वदा गुरुरूपकम् ॥ 33.37॥

ब्रह्मैव सच्चिदानन्दं सदा निर्मलविग्रहम् । ब्रह्मैव सच्चिदानन्दं शुद्धचैतन्यमाततम् ॥ 33.38॥

ब्रह्मैव सच्चिदानन्दं स्वप्रकाशात्मरूपकम् । ब्रह्मैव सच्चिदानन्दं निश्चयं चात्मकारणम् ॥ 33.39॥

ब्रह्मैव सच्चिदानन्दं स्वयमेव प्रकाशते । ब्रह्मैव सच्चिदानन्दं नानाकार इति स्थितम् ॥ 33.40॥

ब्रह्मैव सच्चिदाकारं भ्रान्ताधिष्ठानरूपकम् । ब्रह्मैव सच्चिदानन्दं सर्वं नास्ति न मे स्थितम् ॥ 33.41॥

वाचामगोचरं ब्रह्म सच्चिदानन्दविग्रहम् । सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥ 33.42॥

ब्रह्मैवेदं सदा सत्यं नित्यमुक्तं निरञ्जनम् । सच्चिदानन्दं ब्रह्मैव एकमेव सदा सुखम् ॥ 33.43॥

सच्चिदानन्दं ब्रह्मैव पूर्णात् पूर्णतरं महत् । सच्चिदानन्दं ब्रह्मैव सर्वव्यापकमीश्वरम् ॥ ३३.४४॥

सच्चिदानन्दं ब्रह्मैव नामरूपप्रभास्वरम् । सच्चिदानन्दं ब्रह्मैव अनन्तानन्दनिर्मलम् ॥ ३३.४५॥

सच्चिदानन्दं ब्रह्मैव परमानन्ददायकम् । सच्चिदानन्दं ब्रह्मैव सन्मात्रं सदसत्परम् ॥ ३३.४६॥

सच्चिदानन्दं ब्रह्मैव सर्वेषां परमव्ययम् । सच्चिदानन्दं ब्रह्मैव मोक्षरूपं शुभाशुभम् ॥ ३३.४७॥

सच्चिदानन्दं ब्रह्मैव परिच्छिन्नं न हि क्वचित् । ब्रह्मैव सर्वमेवेदं शुद्धबुद्धमलेपकम् ॥ ३३.४८॥

सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् । एतत् प्रकरणं सत्यं सद्योमुक्तिप्रदायकम् ॥ ३३.४९॥

सर्वदुःखक्षयकरं सर्वविज्ञानदायकम् । नित्यानन्दकरं सत्यं शान्तिदान्तिप्रदायकम् ॥ ३३.५०॥

यस्त्वन्तकान्तकमहेश्वरपादपद्म- लोलम्बसद्भृहृदा परिशीलकश्च । वृन्दारवृन्दविनतामलदिव्यपादो भावो भवोद्भवकृपावशतो भवेच्च ॥ ३३.५१॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सच्चिदानन्दरूपताप्रकरणं नाम त्रयस्त्रिंशोऽध्यायः ॥

॥ चतुस्त्रिंशोऽध्यायः ॥

ऋभुः -

शृणुष्व ब्रह्म विज्ञानमद्भुतं त्वतिदुर्लभम् । एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥ ३४.१॥

सत्यं सत्यं जगन्नास्ति संकल्पकलनादिकम् । नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयं ॥ ३४.२॥

आनन्दमव्ययं शान्तमेकरूपमनामयम् । चित्प्रपञ्चं नैवास्ति नास्ति कार्यं च तत्त्वतः ॥ ३४.३॥

प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन । असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥ ३४.४॥

सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः । वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥ ३४.५॥

गन्धर्वनगरे शृङ्गे मदग्रे दृश्यते जगत् । मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्तिदं जगत् ॥ ३४.६॥

नगे शृङ्गे न बाणेन नष्टं पुरुषमस्तिदम् । गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥ ३४.७॥

गगने नीलमासिन्धौ जगत् सत्यं भविष्यति । शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥ ३४.८॥

रज्जुसर्पेण नष्टश्चेत् नरो भवति संसृतिः । जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥ ३४.९॥

रम्भास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयं ॥ ३४.१०॥

सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयं ॥ ३४.११॥

मित्याटव्यां वायसान्नं अस्ति चेज्जगदुद्भवम् । मूला रोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥ ३४.१२॥

मासात् पूर्वं मृतो मर्त्य आगतश्चेज्जगद् भवेत् । तक्रं क्षीरस्वरूपं चेत् किञ्चित् किञ्चिज्जगद्भवेत् ॥ ३४.१३॥