भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 159, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 159

आत्मनोऽन्यत् क्वचिन्नास्ति सर्वं मिथ्या न संशयः ।
महतां हृद्यते मन्त्री मेधाशुद्धिशुभाशुभम् ॥ ३२.४४॥

देशभेदं वस्तुभेदं न च चैतन्यभेदकम् ।
आत्मनोऽन्यत् पृथग्भावमात्मनोऽन्यन्निरूपणम् ॥ ३२.४५॥

आत्मनोऽन्यन्नामरूपमात्मनोऽन्यच्छुभाशुभम् ।
आत्मनोऽन्यद्वस्तुसत्ता आत्मनोऽन्यज्जगत्त्रयम् ॥ ३२.४६॥

आत्मनोऽन्यत् सुखं दुःखमात्मनोऽन्यद्विचिन्तनम् ।
आत्मनोऽन्यत्प्रपञ्चं वा आत्मनोऽन्यज्जयाजयौ ॥ ३२.४७॥

आत्मनोऽन्यद्देवपूजा आत्मनोऽन्यच्छिवार्चनम् ।
आत्मनोऽन्यन्महाध्यानमात्मनोऽन्यत् कलाक्रमम् ॥ ३२.४८॥

सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः ।
सर्वमुक्तं भगवता निदिध्यासस्तु सर्वदा ॥ ३२.४९॥

सकृच्छ्रवणमात्रेण हृदयग्रन्थिरन्तिमम् ।
कर्मनाशं च मूढानां महतां मुक्तिरेव हि ॥ ३२.५०॥

अनेककोटिजननपातकं भस्मसाद्भवेत् ।
सत्यं सत्यं पुनः सत्यं सत्यं सर्वं विनश्यति ।
सद्यो मुक्तिर्न सन्देहो नास्ति मङ्गलमङ्गलम् ॥ ३२.५१॥

क्व भेदभावदर्शनं न चैव शोकमोहहृत्
प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनातू ।
यतो भवेज्जगाद तं महेश येन जीवितम्
यदन्तराऽविशत् सदा यथोर्णनाभतन्तुवत् ॥ ३२.५२॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ॥