भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 158, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 158

मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ ३२.२९॥

प्रजापतेर्हृल्लोको गुह्यमानन्दसंयुतम् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ ३२.३०॥

सर्वं मिथ्या न संदेहः सर्वमात्मेति निश्चितम् । तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३२.३१॥

मुमुक्षुत्वं च मोक्षश्च मोक्षार्थे मम जीवने । चतुःसाधनसंपन्नः सोऽधिकारीति निश्चयः ॥ ३२.३२॥

जीवब्रह्मैक्यसद्भावं वियद्ब्रह्मेति निश्चयः । वेदान्तब्रह्मणो बोध्यं बोधकं बन्धमुच्यते ॥ ३२.३३॥

सर्वज्ञाननिवृत्तिश्चेदानन्दावाप्तिकं फलम् । इत्येवमादिभिः शब्दैः प्रोक्तं सर्वमसत् सदा ॥ ३२.३४॥

सर्वशब्दार्थरूपं च निश्चयं भावनं तथा । ब्रह्ममात्रं परं सत्यमन्यत् सर्वमसत् सदा ॥ ३२.३५॥

अनेकशब्दश्रवणमनेकार्थविचारणम् । सर्वं मिथ्या न संदेहो ब्रह्मैवाहं न संशयः ॥ ३२.३६॥

नानुध्यायाद्बहूञ्छब्दान् इत्युक्त्या ह महौनसि । ब्रह्मोपदेशकाले तु सर्वं चोक्तं न संशयः ॥ ३२.३७॥

ब्रह्मैवाहमिदं द्वैतं चित्सत्त्वाविभावनम् । चिन्मात्रोऽहमिदं द्वैतं जीवब्रह्मेति भावनम् ॥ ३२.३८॥

अहं चिन्मात्रमन्त्रं वा कार्यकारणचिन्तनम् । अक्षयानन्दविज्ञानमखण्डैकरसाद्वयम् ॥ ३२.३९॥

परं ब्रह्म इदं ब्रह्म शान्तं ब्रह्म स्वयं जगत् । अन्तरिन्द्रियविज्ञानं बाह्येन्द्रियनिरोधनम् ॥ ३२.४०॥

सर्वोपदेशकालं च साम्यं शेषं महोदयम् । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ३२.४१॥

कारणं कार्यभेदं च शास्त्रमार्गेककल्पनम् । अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मेति शब्दतः ॥ ३२.४२॥

सत्यरूपं क्वचिन्नास्ति सत्यं नाम कदा नहि । संशयं च विपर्यासं संकल्पः कारणं भ्रमः ॥ ३२.४३॥