भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 193, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 193

अहमेवान्तरात्मा हि अहमेव परायणम् ।
अहमेव सदाधार अहमेव सुखात्मकः ॥ ४२.१३॥

त्वत्प्रसादादहं ब्रह्म त्वत्प्रसादाज्जनार्दनः ।
त्वत्प्रसादाच्चिदाकाशः शिवोऽहं नात्र संशयः ॥ ४२.१४॥

त्वत्प्रसादादहं चिद्ये त्वत्प्रसादान्न मे जगत् ।
त्वत्प्रसादाद्विमुक्तोऽस्मि त्वत्प्रसादात् परं गतः ॥ ४२.१५॥

त्वत्प्रसादाद्व्यापकोऽहं त्वत्प्रसादान्निरंकुशः ।
त्वत्प्रसादेन तीर्णोऽहं त्वत्प्रसादान्महत्सुखम् ॥ ४२.१६॥

त्वत्प्रसादादहं ब्रह्म त्वत्प्रसादात् त्वमेव न ।
त्वत्प्रसादादिदं नास्ति त्वत्प्रसादान्न किंचन ॥ ४२.१७॥

त्वत्प्रसादान्न मे किंचित् त्वत्प्रसादान्न मे विपत् ।
त्वत्प्रसादान्न मे भेदस्त्वत्प्रसादान्न मे भयम् ॥ ४२.१८॥

त्वत्प्रसादान्नमे रोगस्त्वत्प्रसादान्न मे क्षतिः ।
यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदङ्घ्र्यर्चना-
दर्च्याऽभूत् कमला विधिप्रभृतयो यदाज्ञावशात् ।
तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततं
सन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥ ४२.१९॥

किं वा धर्मशतायुतार्जितमहत्सौख्यैकसीमायुतं
नाकं पातमहोग्रदुःखनिकरं देवेशु तुष्टिप्रदम् ।
तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदं
भूमानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥ ४२.२०॥

ये शाम्भवाः शिवरताः शिवनाममात्र-
शब्दाक्षरज्ञहृदया भसितत्रिपुण्ड्राः ।
यां प्राप्नुवन्ति गतिमीशपदाम्बुजोद्द्वद्-
ध्यानानुरक्तहृदया न हि योगसांख्यैः ॥ ४२.२१॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः ॥

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध) · पृष्ठ 193, कुल 249 में से · BharatKosha