भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 192, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 192

॥ द्विचत्वारिंशोऽध्यायः ॥

ऋभुः –

श्रुतं किञ्चिन्मया प्रोक्तं ब्रह्मज्ञानं सुदुर्लभम् । मनसा धारितं ब्रह्म चित्तं कीदृक् स्थितं वद ॥ ४२.१॥

निदाघः –

शृणु त्वं सुगुरो ब्रह्मंस्त्वत्प्रसादाद्वदाम्यहम् । ममाज्ञानं महादोषं महाज्ञाननिरोधकम् ॥ ४२.२॥

सदा कर्मणि विश्वासं प्रपञ्चे सत्यभावनम् । नष्टं सर्वं क्षणादेव त्वत्प्रसादान्महाद्वयम् ॥ ४२.३॥

एतावन्तमिमं कालमज्ञाननिपुणा हृतम् । महाद्वयं च नष्टं मे कर्मतत्त्वं च नाशितम् ॥ ४२.४॥

अज्ञानं मनसा पूर्वमिदानीं ब्रह्मतां गतम् । पुराहं चित्तवद्भूतः इदानीं सन्मयोऽभवम् ॥ ४२.५॥

पूर्वमज्ञानवद्भावं इदानीं सन्मयं गतम् । अज्ञानवत् स्थितोऽहं वै ब्रह्मैवाहं परं गतः ॥ ४२.६॥

पुराऽहं चित्तवद्भ्रान्तो ब्रह्मैवाहं परं गतः । सर्वो विगलितो दोषः सर्वो भेदो लयं गतः ॥ ४२.७॥

सर्वः प्रपञ्चो गलितश्चित्तमेव हि सर्वगम् । सर्वान्तःकरणं लीनं ब्रह्मसद्भावभावनातू/त् ॥ ४२.८॥

अहमेव चिदाकाश अहमेव हि चिन्मयः । अहमेव हि पूर्णात्मा अहमेव हि निर्मलः ॥ ४२.९॥

अहमेवाहमेवेति भावनापि विनिर्गता । अहमेव चिदाकाशो ब्राह्मणत्वं न किञ्चन ॥ ४२.१०॥

शूद्रोऽहं श्वपचोऽहं वै वर्णी चापि गृहस्थकः । वानप्रस्थो यतिरहमित्ययं चित्तविभ्रमः ॥ ४२.११॥

तत्तदाश्रमकर्माणि चित्तेन परिकल्पितम् । अहमेव हि लक्ष्यात्मा अहमेव हि पूर्णकः ॥ ४२.१२॥