ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 191, कुल 249 में से
संदर्भ में पढ़ेंएवं किञ्चित् क्वचिन्नास्ति सर्वं शान्तं निरामयम् ।
एकमेव द्वयं नास्ति एकत्वमपि नास्ति हि ॥ ४१.४२॥
भिन्नद्वन्द्वं जगद्दोषं संसारद्वैतवृत्तिकम् ।
साक्षिवृत्तिप्रपञ्चं वा अखण्डाकारवृत्तिकम् ॥ ४१.४३॥
अखण्डैकरसो नास्ति गुरुर्वा शिष्य एव वा ।
भवद्दर्शनमात्रेण सर्वमेवं न संशयः ॥ ४१.४४॥
ब्रह्मज्योतिरहं प्राप्तो ज्योतिषां ज्योतिरस्म्यहम् ।
नमस्ते सुगुरो ब्रह्मन् नमस्ते गुरुनन्दन ।
एवं कृत्य नमस्कारं तूष्णीमास्ते सुखी स्वयं ॥ ४१.४५॥
किं चण्डभानुकरमण्डलदण्डितानि
काष्ठामुखेषु गलितानि नमस्ततीति ।
यादृक्च तादृगथ शंकरलिंगसंग-
भङ्गीनि पापकलशैलकुलानि सद्यः ।
श्रीमृत्युंजय रंजय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥ ४१.४६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ग्रन्थप्रशस्त्यनिरूपणं नाम एकचत्वारिंशोऽध्यायः ॥