ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 27, कुल 249 में से
संदर्भ में पढ़ें॥ चतुर्थोऽध्यायः ॥
स्कन्दः -
हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् । केदारेशं पूजयन्तं शाम्भवं मुनिसत्तमम् । भस्मरुद्राक्षसम्पन्नं निःस्पृहं मुनयोऽब्रुवन् ॥ ४.१॥
मुनयः -
पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते । आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥ ४.२॥
ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये । येन संसारवाराशेः समुत्तीर्णा भवामहे ॥ ४.३॥
सूतः -
ऋभुर्मुनीनां वचसा तुष्टः शिष्यान् समीक्ष्य तान् । अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥ ४.४॥
ऋभुः -
नागोप्यं भवतामस्ति शाम्भवेषु महात्मसु । त्रिनेत्रप्रेमसदनान् युष्मान् प्रेक्ष्य वदामि तत् ॥ ४.५॥
शांकरं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् । शृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४.६॥
येन तीर्णाः स्थ संसारात् शिवभक्त्या जितेन्द्रियाः । नमस्कृत्या महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४.७॥
ऋभुः -
विश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्यमदैकहेतुः । न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥ ४.८॥
सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाः नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी । मौलीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः