ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
॥ चतुर्थोऽध्यायः ॥
स्कन्दः -
हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् । केदारेशं पूजयन्तं शाम्भवं मुनिसत्तमम् । भस्मरुद्राक्षसम्पन्नं निःस्पृहं मुनयोऽब्रुवन् ॥ ४.१॥
मुनयः -
पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते । आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥ ४.२॥
ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये । येन संसारवाराशेः समुत्तीर्णा भवामहे ॥ ४.३॥
सूतः -
ऋभुर्मुनीनां वचसा तुष्टः शिष्यान् समीक्ष्य तान् । अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥ ४.४॥
ऋभुः -
नागोप्यं भवतामस्ति शाम्भवेषु महात्मसु । त्रिनेत्रप्रेमसदनान् युष्मान् प्रेक्ष्य वदामि तत् ॥ ४.५॥
शांकरं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् । शृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४.६॥
येन तीर्णाः स्थ संसारात् शिवभक्त्या जितेन्द्रियाः । नमस्कृत्या महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४.७॥
ऋभुः -
विश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्यमदैकहेतुः । न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥ ४.८॥
सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाः नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी । मौलीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः
योर्ध्वं केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ४.९॥ निदाघमथ संबोध्य ततो ऋभुरुवाच ह । अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ ४.१०॥
शिवोपदिष्टं संक्षिप्य गुह्यात् गुह्यतरं सदा । अनात्मेति प्रसङ्गात्त्वा अनात्मेति मनोऽपि वा । अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ४.११॥
सर्वसंकल्पशून्यत्वात् सर्वाकारविवर्जनात् केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१२॥
चित्ताभावे चिंतनीयो देहाभावे जरा च न । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१३॥ पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया च न । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१४॥ ब्रह्मभावाज्जगन्नास्ति तदभावे हरिर्न च । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१५॥ मृत्युर्नास्ति जराभावे लोकवेददुराधिकं । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१६॥ धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१७॥ अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१८॥ गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१९॥ एकाभावान्न द्वितीयं न द्वितीयान्न चैकता । सत्यत्वमस्ति चेत् किंचिदसत्यं च संभवेत् ॥ ४.२०॥
असत्यत्वं यदि भवेत् सत्यत्वं च घटिष्यति । शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ ४.२१॥
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२२॥ बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ ४.२३॥
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न । इदं यदि तदेवापि तदभावे इदं न च ॥ ४.२४॥
अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किंच न । कार्यं चेत् कारणं किंचित् कार्याभावे न कारणम् ॥ ४.२५॥
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ ४.२६॥
अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च । पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते ॥ ४.२७॥
किंचिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः । यत्किंचित् किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ ४.२८॥
तस्मादेतत् क्वचिन्नास्ति त्वं नाहं वा इमे इदम् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२९॥
नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.३०॥
परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ४.३१॥
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु । इत्यात्मनिर्णयं प्रोक्तं भवते सर्वसंग्रहम् ॥ ४.३२॥
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ॥ ४.३३॥
निदाघः- भगवन् को भवान् को नु वद मे वदतां वर । यच्छ्रुत्वा तत्क्षणान्मुच्येन्यहोसंसारसंकटात् ॥ ४.३४॥
ऋभुः- अहमेव परं ब्रह्म अहमेव परं सुखम् । अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ४.३५॥
अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् । सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३६॥
अहमर्धविहीनोऽस्मि इदमर्धविवर्जितः । सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३७॥
नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः । नित्यानन्दस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३८॥
नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४.३९ ॥
अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः । अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४० ॥
स्वस्यसङ्कल्पहीनोऽहं सर्वाविद्याविवर्जितः । सर्वमस्मि तदेheaderवास्मि/तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४१ ॥
सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः । सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४२ ॥
सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः । सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४३ ॥
सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् । सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४४ ॥
अहमेव सुखं नान्यदहमेव चिदव्ययः । अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४.४५ ॥
केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः । केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४६ ॥
केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् । केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४७ ॥
सत्यरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि । अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४८ ॥
अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् । अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४९ ॥
अरसन्नुतरूपोऽस्मि अनुतापविवर्जितः । अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५० ॥
सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः । सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५१ ॥
अहम्भावविहीनोऽस्मि विहीनोऽस्मीति मे न च । सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५२ ॥
ब्रह्म ब्रह्मादिहीनोऽस्मि केशवात्वादि न क्वचित् । शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५३ ॥
तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् ।
किञ्चिन्नास्ति परो नास्ति किञ्चिदस्मि परोऽस्मि च ॥ ४.५४॥
न शरीरप्रकाशोऽस्मि जगद्व्यासकरो न च ।
चिद्घनोऽस्मि चिदंशोऽस्मि सत्यरूपोऽस्मि सर्वदा ॥ ४.५५॥
मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात्परः ॥ ४.५६॥
न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥ ४.५७॥
यो वा को वा शृणोतीदं ब्रह्मैव भवति स्वयं ॥ ४.५८॥
न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा
भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः ।
उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञ सर्वज्ञता
बुद्ध्या मोहितमायया श्रुतिशतैर्नो जानते शंकरम् ॥ ४.५९॥
॥ इति श्री शिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः ॥
॥ पञ्चमोऽध्यायः ॥
निदाघः –
एवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते ।
तन्मे वद विशेषेण ज्ञानं शंकरवाक्यजम् ॥ ५.१॥
ऋभुः –
त्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः ।
त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२॥
त्वमेव सर्वभावोऽसि त्वमेवार्थश्चमव्ययः ।
त्वं सर्वहीनस्त्यं साक्षी साक्षीहीनोऽसि सर्वदा ॥ ५.३॥
कालस्त्यं सर्वहीनस्त्यं साक्षीहीनोऽसि सर्वदा ।
कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।
सर्वतत्त्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.४॥
सत्योऽसि सिद्धोऽसि सनातनोऽसि
मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि ।
देवोऽसि शान्तोऽसि निरामयोऽसि
ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.५॥
समोऽसि सच्छासि सनातनोऽसि
सत्यादिवाक्यैः प्रतिपादितोऽसि ।
सर्वाङ्गहीनोऽसि सदास्थितोऽसि
ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.६॥
सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि ।
सर्वत्र सङ्कल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.७॥
सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि ।
सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.८॥
चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।
आत्मन्येवावस्थितोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.९॥
आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः ।
एक एवाद्वितीयोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१०॥
चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा ।
परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.11॥
तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि ।
चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.12॥
अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि ।
चञ्चलोष्कलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.13॥
सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि ।
कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.14॥
सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि ।
नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.15॥
ईषणात्रयविहीनोऽसि अणुमात्रविवर्जितः ।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ 5.16॥
योऽसि सोऽसि महन्तोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.17॥
लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः ।
अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ 5.18॥
सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः ।
सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.19॥
ब्रह्मैव भेदशून्योऽसि विप्लुत्वादिविवर्जितः ।
शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.20॥
प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ 5.21॥
स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि ।
स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.22॥
स्वात्मराज्ये त्वमेवासि स्वयमात्मानमो ह्यसि ।
स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 5.23॥
स्वस्मिन् सुखे स्वयं चासि स्वस्मात् किञ्चिन्न पश्यसि ।
स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ 5.24॥
स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि ।
स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ 5.25॥
स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृम्भसि ।
स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२६॥
स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि ।
स्वस्मिन् स्वयं स्वयं भुङ्क्ष्वे त्वं ब्रह्मासि न संशयः ॥ ५.२७॥
सूतः –
तदा निदाघवचसा तुष्टो ऋभुरुवाच तं ।
शिवप्रेमरसे पात्रं तं वीक्ष्याब्जजनन्दनः ॥ ५.२८॥
ऋभुः –
कैलासे शंकरः पुत्रं कदाचिदुपदिष्टवान् ।
तदेव ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ ५.२९॥
अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् ।
चित्रप्रपञ्च इत्याहुर्नास्त्येव सर्वदा ॥ ५.३०॥
न प्रपञ्चो न चित्तादि नाहंकारो न जीवकः ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३१॥
मायाकार्यादिकं नास्ति मायाकार्यभयं नहि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३२॥
कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३३॥
एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकं च न ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३४॥
श्रवणं मननं नास्ति निदिध्यासनविभ्रमः ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३५॥
समाधिद्विविधं नास्ति मातृमानादि नास्ति हि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३६॥
अज्ञानं चापि नास्त्येव अविवेककथा न च ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३७॥
अनुबन्धचतुष्कं च सम्बन्धत्रयमेव न ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३८॥
भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३९॥
गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४०॥
न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४१॥
नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४२॥
न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः । नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ५.४३॥
न मोक्षोऽस्ति न बन्धोऽस्ति न वार्त्तावासरोऽस्ति हि । क्वचिद्वा किंचिदेवं वा सदसद्वा सुखानि च ॥ ५.४४॥
द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् । न वृद्धिर्नोदयो म्न्युर्न गमागमविभ्रमः ॥ ५.४५॥
इह नास्ति परं नास्ति न गुरुश्च च शिष्यकः । सदसन्नास्ति भूरास्ति कार्यं नास्ति कृतं च न ॥ ५.४६॥
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकं । शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ५.४७॥
सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि । चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ५.४८॥
अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वथा ॥ ५.४९॥
वाचा यदुच्यते किंचिन्मनसा मनुते च यत् । बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५.५०॥
योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत् कृतं । जाग्रत्स्वप्नसुषुप्तिं च स्वप्नं वा न तुरीयकं ॥ ५.५१॥
सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितं । स्नानाच्छुद्धिर्न हि क्वापि ध्यानात् शुद्धिर्न हि क्वचित् ॥ ५.५२॥
गुणत्रयं नास्ति किंचिद्गुणत्रयमथापि वा । एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५.५३॥
भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु ।
केवलं ब्रह्ममात्रत्वात् न किञ्चिदवशिष्यते ॥ ५.५४॥
इदं शृणोति यः सम्यक् स ब्रह्म भवति स्वयं ॥ ५.५५॥
ईश्वरः -
वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा-
कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः ।
भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं
सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५.५६॥
हरं विज्ञातारं निखिलतनुकारेषु करणं
न जानन्ते मोहाद्व्यमितकरणा अप्रतितरां ।
उमानाथाकारं हृदयदहरान्तर्गतसरा
पयोजाते भास्वद्वपुभुजगनाशाण्डजवरं ॥ ५.५७॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ॥
॥ षष्ठोऽध्यायः ॥
ईश्वरः -
व्रतानि मिथ्या भुवनानि मिथ्या भावादि मिथ्या भवनानि मिथ्या । भयं च मिथ्या भरणादि मिथ्या भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ 6.1॥
वेदाश्च मिथ्या वचनानि मिथ्या वाक्यानि मिथ्या विविधानि मिथ्या । वित्तानि मिथ्या वियदादि मिथ्या विधुश्च मिथ्या विषयादि मिथ्या ॥ 6.2॥
गुरुश्च मिथ्या गुणदोषमिथ्या गुह्यं च मिथ्या गणना च मिथ्या । गतिश्च मिथ्या गमनं च मिथ्या सर्वं च मिथ्या गदितं च मिथ्या ॥ 6.3॥
वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ 6.4॥
बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ॥ 6.5॥
वाचा वदति यत्किञ्चित् सर्वं मिथ्या न संशयः । संकल्पात् कल्प्यते यद्यत् मनसा चिन्त्यते च यत् ॥ 6.6॥
बुद्ध्या निश्चीयते किञ्चित् चित्तेन नीयते क्वचित् । प्रपञ्चे पञ्चते यद्यत् सर्वं मिथ्येति निश्चयः ॥ 6.7॥
श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते । नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ 6.8॥
इदमित्येव निर्दिष्टमिदमित्येव कल्पितं । यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ 6.9॥
कोऽहं किंतदिदं सोऽहं अन्यो वाचायते नहि । यद्यत् सम्भाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ 6.10॥
सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः । सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ 6.11॥
सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः । सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६.१२॥
रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् । संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६.१३॥
स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् । मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६.१४॥
सर्वं मिथ्या जगद्विद्या भूतं भव्यं भवत्तथा । नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६.१५॥
चित्तभेदो जगद्भेदः अविद्यायाश्च संभवः । अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१६॥
लोकत्रयेषु सद्भावो गुणदोषादिजृम्भणम् । सर्वदेशिकवारोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१७॥
उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् । ओंकारं चाप्यकारं च सर्वं ब्रह्मेति निश्चिनु ॥ ६.१८॥
यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते । यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ ६.१९॥
येन केनाक्षरेणोक्तं येन केनापि संगतम् । येन केनापि नीतं तत् सर्वं ब्रह्मेति निश्चिनु ॥ ६.२०॥
येन केनापि गदितं येन केनापि मोदितम् । येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२१॥
येन केनापि यद्दत्तं येन केनापि यत् कृतम् । यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२२॥
यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् । यद्यत् करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ ६.२३॥
इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु । यत् किञ्चित् प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ ६.२४॥
ऋभुः –
पुनर्वक्ष्ये रहस्यानां रहस्यं परमाद्भुतम् । शङ्करेण कुमाराय प्रोक्तं कैलास पर्वते ॥ ६.२५॥
तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा । एकवर्जितचिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२६॥
इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि । आत्माभासं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२७॥
सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि । त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किंचन ॥ ६.२८॥
आकाशो भूर्जलं वायुborder: अग्निर्ब्रह्मो -> वायुर्अग्निर्ब्रह्मो हरिः शिवः । यत्किंचिदन्यत् किंचिच्च सर्वं चिन्मयमेव हि ॥ ६.२९॥
अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३०॥
द्रव्यं कालश्च चिन्मात्रं ज्ञानं चिन्मयमेव च । ज्ञेयं ज्ञानं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३१॥
संभाषणं च चिन्मात्रं वाक् च चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३२॥
आदिरन्तं च चिन्मात्रं अस्ति चेच्चिन्मयं सदा । ब्रह्मो यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥ ६.३३॥
रुद्रोऽपि देवाश्चिन्मात्रं अस्ति नरतिर्यक्सुरासुरम् । गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मात्रमेव हि ॥ ६.३४॥
दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् । सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मात्रमेव हि ॥ ६.३५॥
लिंगं चापि च चिन्मात्रं कारणं कार्यमेव च । मूर्तामूर्तं च चिन्मात्रं पापपुण्यमधापि च ॥ ६.३६॥
द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव च । दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥ ६.३७॥
चिन्मात्रं व्यवहारादि भूतं भव्यं भवत्तथा । चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥ ६.३८॥
चिन्मात्रं प्राण एवेह चिन्मात्रं सर्वमिन्द्रियम् । चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥ ६.३९॥
नित्यानित्यं च चिन्मात्रं सर्वं चिन्मात्रमेव हि । चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥ ६.४०॥
चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल ।
आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥ ६.४१॥
यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ।
यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥ ६.४२॥
यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते ।
यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥ ६.४३॥
चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकं ।
चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥ ६.४४॥
सर्वं वेदत्रयप्रोक्तं सर्वं चिन्मात्रमेव हि ।
शिवप्रोक्तं कुमाराय तदेतत् कथितं त्वयि ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ ६.४५॥
सूतः –
ईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैः
तल्लिङ्गागारमध्यस्थितसुमहदीशान लिङ्गेषु पूजा ।
अक्लेद्ये चाभिषेको ??? ??? ??? दिग्वाससे वासदानं
नो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि ॥ ६.४६॥
स्वभासे दीपदानं ??? सर्वभक्ष्ये महेशे
नैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या ।
कुर्यां केनापि भावैर्नम निगमशिरोभाव एव प्रमाणं ॥ ६.४७॥
अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधिया
भजन्त्यज्ञास्तद्ज्ञाः विधिविहितबुद्ध्यागतधियः ।
तथापीशं भावैर्यजति भजतामात्मपदवीं
ददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥ ६.४८॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चस्य सच्चिन्मयतथकथनं नाम षष्ठोऽध्यायः ॥
॥ सप्तमोऽध्यायः ॥
ऋभुः -
अत्यद्भुतं प्रवक्ष्यामि सर्वलोकेषु दुर्लभं । वेदशास्त्रमहासारं दुर्लभं दुर्लभं सदा ॥ 7.1॥
अखण्डैकरसो मन्त्रमखण्डैकरसं फलं । अखण्डैकरसो जीव अखण्डैकरसा क्रिया ॥ 7.2॥
अखण्डैकरसा भूमिरखण्डैकरसं जलं । अखण्डैकरसो गन्ध अखण्डैकरसं वियत् ॥ 7.3॥
अखण्डैकरसं शास्त्रं अखण्डैकरसं श्रुतिः । अखण्डैकरसं ब्रह्म अखण्डैकरसं व्रतं ॥ 7.4॥
अखण्डैकरसो विष्णुरखण्डैकरसः शिवः । अखण्डैकरसो ब्रह्मो अखण्डैकरसाः सुराः ॥ 7.5॥
अखण्डैकरसं सर्वमखण्डैकरसः स्वयं । अखण्डैकरसश्चात्मा अखण्डैकरसो गुरुः ॥ 7.6॥
अखण्डैकरसं वाच्यमखण्डैकरसं महः । अखण्डैकरसं देह अखण्डैकरसं मनः ॥ 7.7॥
अखण्डैकरसं चित्तं अखण्डैकरसं सुखं । अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ॥ 7.8॥
अखण्डैकरसं नित्यमखण्डैकरसः परः । अखण्डैकरसात् किंचिदखण्डैकरसादहं ॥ 7.9॥
अखण्डैकरसं वास्ति अखण्डैकरसं न हि । अखण्डैकरसादन्यत् अखण्डैकरसात् परः ॥ 7.10॥
अखण्डैकरसात् स्थूलं अखण्डैकरसं जनः । अखण्डैकरसं सूक्ष्ममखण्डैकरसं द्वयं ॥ 7.11॥
अखण्डैकरसं नास्ति अखण्डैकरसं बलं । अखण्डैकरसाद्विष्णुरखण्डैकरसादणुः ॥ 7.12॥
अखण्डैकरसं नास्ति अखण्डैकरसाद्भवान् । अखण्डैकरसो ह्येव अखण्डैकरसादितं ॥ 7.13॥
अखण्डितरसाद् ज्ञानं अखण्डितरसाद् स्थितम् ।
अखण्डैकरसा लीला अखण्डैकरसः पिता ॥ 7.14॥
अखण्डैकरसा भक्ता अखण्डैकरसः पतिः ।
अखण्डैकरसा माता अखण्डैकरसो विराट् ॥ 7.15॥
अखण्डैकरसं गात्रं अखण्डैकरसं शिरः ।
अखण्डैकरसं घ्राणं अखण्डैकरसं बहिः ॥ 7.16॥
अखण्डैकरसं पूर्णमखण्डैकरसामृतं ।
अखण्डैकरसं श्रोत्रमखण्डैकरसं गृहं ॥ 7.17॥
अखण्डैकरसं गोप्यमखण्डैकरसः शिवः ।
अखण्डैकरसं नाम अखण्डैकरसो रविः ॥ 7.18॥
अखण्डैकरसः सोमः अखण्डैकरसो गुरुः ।
अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ 7.19॥
अखण्डैकरसो बन्धुरखण्डैकरसोऽस्म्यहं ।
अखण्डैकरसो राजा अखण्डैकरसं पुरं ॥ 7.20॥
अखण्डैकरसैश्वर्यं अखण्डैकरसं प्रभुः ।
अखण्डैकरसो मन्त्र अखण्डैकरसो जपः ॥ 7.21॥
अखण्डैकरसं ध्यानमखण्डैकरसं पदं ।
अखण्डैकरसं ग्राह्यमखण्डैकरसं महान् ॥ 7.22॥
अखण्डैकरसं ज्योतिरखण्डैकरसं परं ।
अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ 7.23॥
अखण्डैकरसो होमः अखण्डैकरसो जयः ।
अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयं ॥ 7.24॥
अखण्डैकरसाकारादन्यन्नास्ति नहि क्वचित् ।
शृणु भूयो महोश्चर्यं नित्यानुभवसंपदं ॥ 7.25॥
दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभं ।
अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहं ॥ 7.26॥
सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहं ।
अहमेवास्मि शुद्धोऽस्मि बुद्धोऽस्मि परमोऽस्म्यहं ॥ 7.27॥
अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहं ।
विज्ञानोऽस्मि विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहं ॥ 7.28॥
शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् । मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥ ७.२९॥
द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् । भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३०॥
शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहम् । तुल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥ ७.३१॥
सदा सर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम् । एकसंख्याविहीनोऽस्मि द्विसंख्या नास्ति नास्म्यहम् ॥ ७.३२॥
सदसद्भेदहीनोऽस्मि सङ्कल्परहितोऽस्म्यहम् । नानात्मभेदहीनोऽस्मि यत् किञ्चिन्नास्ति सोऽस्म्यहम् ॥ ७.३३॥
नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् । आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥ ७.३४॥
बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् । चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥ ७.३५॥
सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् । आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥ ७.३६॥
ध्यानाध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् । पूर्णात् पूर्णोऽस्मि पूर्णोऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥ ७.३७॥
सर्वातीतरूपोऽस्मि परं ब्रह्मोऽस्मि सोऽस्म्यहम् । लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३८॥
मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् । जगत् सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥ ७.३९॥
प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् । सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मरहितोऽस्म्यहम् ॥ ७.४०॥
सर्ववेदान्ततत्त्वोऽस्मि सर्वदा सुलभोऽस्म्यहम् । मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥ ७.४१॥
नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् । यत् किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥ ७.४२॥
हृदयग्रन्थिहीनोऽस्मि हृदयाद्व्यापकोऽस्म्यहम् । षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ॥ ७.४३॥
अरिषड्वर्गमुक्तोऽस्मि अंतरादंतरोऽस्म्यहं ।
देशकालविहीनोऽस्मि दिगंबरमुखोऽस्म्यहं ॥ 7.44॥
नास्ति होस्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहं ।
सर्वचिन्मात्ररूपोऽस्मि सच्चिदानंदमस्म्यहं ॥ 7.45॥
अखंडाकाररूपोऽस्मि अखंडाकारमस्म्यहं ।
प्रपंचचित्ररूपोऽस्मि प्रपंचरहितोऽस्म्यहं ॥ 7.46॥
सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहं ।
कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहं ॥ 7.47॥
कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहं ।
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ 7.48॥
सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहं ।
गंतव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहं ॥ 7.49॥
सर्वदा स्वरूपोऽस्मि शांतोऽस्मि सुहितोऽस्म्यहं ।
एवं स्वानुभवं प्रोक्तं एतत् प्रकरणं महत् ॥ 7.50॥
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ।
पिंडांडसंभवजगद्गतखंडनोद्य-
द्वेतंडशुंडनिभपीवरबाहुदंड ।
ब्रह्मोुरुमुंडकलितांडजवाहबाण
कोदंडभूधरधरं भजतामखंडं ॥ 7.51॥
विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे
नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवंत्यात्मभावं ।
अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः
तांताः शांतिविवर्जिता विषयिणो दुःखं भजंत्यन्वहं ॥ 7.52॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥
॥ अष्टमोऽध्यायः ॥
ऋभुः –
वक्ष्ये प्रपञ्चशून्यत्वं शशशृङ्गेण संमितम् ।
दुर्लभं सर्वलोकेषु सावधानमनाः शृणु ॥ 8.1॥
इदं प्रपञ्चं यत् किञ्चिद्यः शृणोति च पश्यति ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ 8.2॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कारश्च तेजश्च सर्वं शशविषाणवत् ॥ 8.3॥
नाश जन्म च सत्यं च लोकं भुवनमण्डलं ।
पुण्यं पापं जयो मोहः सर्वं शशविषाणवत् ॥ 8.4॥
कामक्रोधौ लोभमोहौ मदमोहौ रतिर्धृतिः ।
गुरुशिष्योपदेशादि सर्वं शशविषाणवत् ॥ 8.5॥
अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् ।
भूतं भव्यं वर्तमानं सर्वं शशविषाणवत् ॥ 8.6॥
स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमव्ययम् ।
दृश्यं च दर्शनं किञ्चित् सर्वं शशविषाणवत् ॥ 8.7॥
भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् ।
शमो विचारः सन्तोषः सर्वं शशविषाणवत् ॥ 8.8॥
यमं च नियमं चैव प्राणायामादिभाषणम् ।
गमनं चलनं चित्तं सर्वं शशविषाणवत् ॥ 8.9॥
श्रोत्रं नेत्रं गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः ।
आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत् ॥ 8.10॥
ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत् ।
जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत् ॥ 8.11॥
चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।
सजातीयं विजातीयं सर्वं शशविषाणवत् ॥ 8.12॥
सर्वलोकं सर्वभूतं सर्वधर्मं सतत्त्वकम् ।
सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत् ॥ 8.13॥
सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् ।
सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत् ॥ 8.14॥
सर्वबन्धं सर्वमोक्षं सर्वविज्ञानमीश्वरः ।
सर्वकालं सर्वबोध सर्वं शशविषाणवत् ॥ 8.15॥
सर्वास्तित्वं सर्वकर्म सर्वसङ्गयुतिर्महान् ।
सर्वद्वैतमसद्भावं सर्वं शशविषाणवत् ॥ 8.16॥
सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः ।
सर्वजीवत्वसद्भावं सर्वं शशविषाणवत् ॥ 8.17॥
यद्यत् संवेद्यते किञ्चित् यद्यज्जगति दृश्यते ।
यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत् ॥ 8.18॥
यद्यद्ध्यायति चित्ते च यद्यत् सङ्कल्प्यते क्वचित् ।
बुद्ध्या निश्चीयते यच्च सर्वं शशविषाणवत् ॥ 8.19॥
यद्यद् वाचा व्याकरोति यद्याचा चार्थभाषणम् ।
यद्यत् सर्वेन्द्रियैर्ग्राह्यं सर्वं शशविषाणवत् ॥ 8.20॥
यद्यत् सन्त्यज्यते वस्तु यच्छृणोति च पश्यति ।
स्वकीयमन्यदीयं च सर्वं शशविषाणवत् ॥ 8.21॥
सत्यत्वेन च यद्ध्याति वस्तुत्वेन रसेन च ।
यद्यत् सङ्कल्प्यते चित्ते सर्वं शशविषाणवत् ॥ 8.22॥
यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः ।
यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत् ॥ 8.23॥
शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् ।
स्रष्टा सृजति लोकान् वै सर्वं शशविषाणवत् ॥ 8.24॥
जीव इत्यपि यद्यस्ति भाष्यत्यपि भाषणम् ।
संसार इति या वार्ता सर्वं शशविषाणवत् ॥ 8.25॥
यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः ।
सर्वोपनिषदां भावं सर्वं शशविषाणवत् ॥ 8.26॥
शशशृङ्गवदेवेदमुक्तं प्रकरणं तव ।
यः शृणोति रहस्यं वै ब्रह्मैव भवति स्वयं ॥ 8.27॥
भूयः शृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् ।
सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ 8.28॥