ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 49, कुल 249 में से
संदर्भ में पढ़ेंयत्किंचिदपि संकल्पं सर्वदुःखेति नेतरत् । यत्किंचिदपि संकल्पं जगत्सत्यत्वविभ्रमम् ॥ ८.५९॥
यत्किंचिदपि संकल्पं महादोषं च नेतरत् । यत्किंचिदपि संकल्पं कालत्रयमुदीरितम् ॥ ८.६०॥
यत्किंचिदपि संकल्पं नानारूपमुदीरितम् । यत्र यत्र च संकल्पं तत्र तत्र महज्जगत् ॥ ८.६१॥
यत्र यत्र च संकल्पं तदेवासत्यमेव हि । यत्किंचिदपि संकल्पं तज्जगन्नास्ति संशयः ॥ ८.६२॥
यत्किंचिदपि संकल्पं तत्सर्वं नेति निश्चयः । मन एव जगत्सर्वं मन एव महारिपुः ॥ ८.६३॥
मन एव हि संसारो मन एव जगत्त्रयम् । मन एव महादुःखं मन एव जरादिकम् ॥ ८.६४॥
मन एव हि कालं च मन एव मलं सदा । मन एव हि संकल्पो मन एव हि जीवकः ॥ ८.६५॥
मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् । मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥ ८.६६॥
मन एव सदा नास्ति मन एव जडं सदा । मन एव हि चित्तं च मनोऽहंकारमेव च ॥ ८.६७॥
मन एव महद्बन्धं मनोऽन्तःकरणं क्वचित् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥ ८.६८॥
मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशो मन एव हि शब्दकः ॥ ८.६९॥
मन एव स्पर्शरूपं मन एव हि रूपकम् । मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥ ८.७०॥
अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् । मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥ ८.७१॥
मन एवानन्दकोशं मनो जाग्रदवस्थितम् । मन एव हि स्वप्नं च मन एव सुषुप्तिकम् ॥ ८.७२॥
मन एव हि देवादि मन एव यमादयः । मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥ ८.७३॥