ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 50, कुल 249 में से
संदर्भ में पढ़ेंमनोमयमिदं विश्वं मनोमयमिदं पुरम् । मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥ ८.७४ ॥
मनोमयमीयं जातिर्मनोमयमिदं गुणः । मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥ ८.७५ ॥
मनोमयमिदं यद्यन्मनो जीव इति स्थितम् । सङ्कल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥ ८.७६ ॥
सङ्कल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि । सङ्कल्पमात्रकालं च देशं सङ्कल्पमेव हि ॥ ८.७७ ॥
सङ्कल्पमात्रो देहश्च प्राणः सङ्कल्पमात्रकः । सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥ ८.७८ ॥
सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्ग इत्यपि । सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मचिन्तनम् ॥ ८.७९ ॥
सङ्कल्पं वा मनाक्त्यक्तं ब्रह्मसङ्कल्पमेव हि । सङ्कल्प एव यत्किञ्चित् तन्नास्त्येव कदाचन ॥ ८.८० ॥
नास्ति नास्त्येव सङ्कल्पं नास्ति नास्ति जगत्त्रयम् । नास्ति नास्ति गुरुर्नास्ति नास्ति शिष्योऽपि वस्तुतः ॥ ८.८१ ॥
नास्ति नास्ति शरीरं च नास्ति नास्ति मनः क्वचित् । नास्ति नास्त्येव किञ्चिद्वा नास्ति नास्त्यखिलं जगत् ॥ ८.८२ ॥
नास्ति नास्त्येव भूतं वा सर्वं नास्ति न संशयः । "सर्वं नास्तीति" प्रकरणं मयोक्तं च निदाघ ते । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ८.८३ ॥
वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा- दारोदारकुमारदारनिकरैः प्राणैर्गृहैरुज्झितः । त्यागाद्यो मनसा सकृत् शिवपदध्यानेन यत्प्राप्यते तन्नैवाप्यति शब्दतर्कनिवहैः शान्तं मनस्तद्भवेत् ॥ ८.८४ ॥
अशेषदृश्योज्झितदृग्जयानां सङ्कल्पवर्जेन सदास्थितानाम् । न जाग्रतः स्वप्नसुषुप्तिभावो न जीवनं नो मरणं च चित्रम् ॥ ८.८५ ॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चशून्यत्व- सर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ॥