ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 68, कुल 249 में से
संदर्भ में पढ़ेंकालभेदं देशभेदं वस्तुभेदं स्वभेदकम् । किञ्चिद्भेदं न यस्यास्ति विदेहमुक्त एव सः ॥ १२.१४ ॥
अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते । अत्यन्तसुखमात्रोऽहं विदेहमुक्त एव सः ॥ १२.१५ ॥
निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः । शून्यात्मा सूक्ष्मरूपो यो विदेहमुक्त एव सः ॥ १२.१६ ॥
विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः । देवात्मा देवहीनो यो विदेहमुक्त एव सः ॥ १२.१७ ॥
मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः । केवलात्मा परात्मा च विदेहमुक्त एव सः ॥ १२.१८ ॥
सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वेषामिति युक्तोक्ति विदेहमुक्त एव सः ॥ १२.१९ ॥
सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः । स्थास्यामीति न यस्यान्तो विदेहमुक्त एव सः ॥ १२.२० ॥
सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा । प्रबुद्धो नास्ति यस्यान्तो विदेहमुक्त एव सः ॥ १२.२१ ॥
केवलं परमात्मा यः केवलं ज्ञानविग्रहः । सत्तामात्रस्वरूपो यो विदेहमुक्त एव सः ॥ १२.२२ ॥
जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति । ब्रह्मैवेति न यस्यान्तो विदेहमुक्त एव सः ॥ १२.२३ ॥
ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् । इत्येवं निश्चयो भावः विदेहमुक्त एव सः ॥ १२.२४ ॥
इदं चैतन्यमेवेति अहं चैतन्यमेव हि । इति निश्चयशून्यो यो विदेहमुक्त एव सः ॥ १२.२५ ॥
चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः । सुखमात्रान्तरङ्गो यो विदेहमुक्त एव सः ॥ १२.२६ ॥
अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः । तुर्यातीतः परानन्दो विदेहमुक्त एव सः ॥ १२.२७ ॥
नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः । परब्रह्मस्वरूपात्मा विदेहमुक्त एव सः ॥ १२.२८ ॥