भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 69, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 69

तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः । अशुभाशुभशान्तात्मा विदेहोन्मुक्त एव सः ॥ १२.२९॥

बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः । प्रपञ्चात्मा परो ह्यात्मा विदेहोन्मुक्त एव सः ॥ १२.३०॥

सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः । अन्तरात्मा ह्यनन्तात्मा विदेहोन्मुक्त एव सः ॥ १२.३१॥

अबोधबोधहीनात्मा अजडो जडवर्जितः । अतत्त्वातत्त्वसर्वात्मा विदेहोन्मुक्त एव सः ॥ १२.३२॥

असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः । अभूतो भूत एवात्मा विदेहोन्मुक्त एव सः ॥ १२.३३॥

चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदम्बरः । चिन्मात्ररूप एवात्मा विदेहोन्मुक्त एव सः ॥ १२.३४॥

सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः । सच्चिदानन्दपूर्णात्मा विदेहोन्मुक्त एव सः ॥ १२.३५॥

सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः । सदाऽखण्डैकरूपात्मा विदेहोन्मुक्त एव सः ॥ १२.३६॥

प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः । नित्यज्ञानपरानन्दो विदेहोन्मुक्त एव सः ॥ १२.३७॥

यस्य देहः क्वचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न । सदात्मा ह्यात्मनि स्वस्थो विदेहोन्मुक्त एव सः ॥ १२.३८॥

यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः । योगात्मा योगयुक्तात्मा विदेहोन्मुक्त एव सः ॥ १२.३९॥

चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि । गुणागुणविकारान्तो विदेहोन्मुक्त एव सः ॥ १२.४०॥

कालदेशादि नास्त्यन्तो न ग्राह्यो नास्यतिः परः । निश्चयं च परित्यक्तो विदेहोन्मुक्त एव सः ॥ १२.४१॥

भूमानन्दापरानन्दो भोगानन्दविवर्जितः । साक्षी च साक्षीहीनश्च विदेहोन्मुक्त एव सः ॥ १२.४२॥

सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन । आत्मानात्मा चिदात्मा च चिदचिच्छाहमेव च ॥ १२.४३॥