ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 87, कुल 249 में से
संदर्भ में पढ़ें॥ षोडशोऽध्यायः ॥
ऋभुः -
अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु । शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६.१॥
यत्किञ्चिद् दृश्यते लोके यत्किञ्चिद्भाष्यते सदा । यत्किञ्चिद् भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६.२॥
यद्यत् किञ्चिज्जपं वापि स्नानं वा जलमेव वा । आत्मनोऽन्यत् परं यद्यत् असत् सर्वं न संशयः ॥ १६.३॥
चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि । आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.४॥
अहन्तायाः परं रूपं इदन्त्यं सत्यमित्यपि । आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.५॥
नानात्वमेव रूपत्वं व्यवहारः क्वचित् क्वचित् । आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६.६॥
तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् । इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६.७॥
द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् । अहंभेदमिदंभेदमसदेव हि केवलम् ॥ १६.८॥
स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् । कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् । लिङ्गभेदमिदंभेदमसदेव हि केवलम् ॥ १६.९॥
आत्मभेदमसद्भेदं सद्भेदमसदण्वपि । अत्यन्ताभावसद्भेदं असदेव हि केवलम् ॥ १६.१०॥
अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः । भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६.११॥
पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् । पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६.१२॥
सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् । ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६.१३॥