भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 88, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 88

ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् । इदंभेदमहंभेदं असदेव हि केवलम् ॥ 16.14॥

वेदभेदं देवभेदं लोकानां भेदमीदृशम् । पञ्चाक्षरमसन्नित्यं असदेव हि केवलम् ॥ 16.15॥

ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्तदा । असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ 16.16॥

असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः । असत्यं पञ्चकोशाख्यं असदेव हि केवलम् ॥ 16.17॥

असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् । असत्यमरिषड्वर्गमसत्यं षडृतस्तदा ॥ 16.18॥

असत्यं द्वादशमासाः असत्यं वत्सरस्तथा । असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ 16.19॥

असत्यमेव षच्छास्त्रं असदेव हि केवलम् । असदेव सदा ज्ञानं असदेव हि केवलम् ॥ 16.20॥

अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् । असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ 16.21॥

भूयः शृणु त्वं योगीन्द्र साक्षान्मोक्षं ब्रवीम्यहम् । सन्मात्रमहमेवात्मा सच्चिदानन्द केवलम् ॥ 16.22॥

सन्मयानन्दभूतात्मा चिन्मयानन्दसद्घनः । चिन्मयानन्दसन्दोहचिदानन्दो हि केवलम् ॥ 16.23॥

चिन्मात्रज्योतिरादर्शश्चिन्मात्रज्योतिविग्रहः । चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ 16.24॥

चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् । चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ 16.25॥

चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च । चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ 16.26॥

चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि । चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ 16.27॥

चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ 16.28॥