ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 89, कुल 249 में से
संदर्भ में पढ़ेंचिदेव त्वं चिदेवाहम सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ 16.29॥
चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् । चिन्मात्रमेव सङ्कल्पं चिन्मात्रं भुवनत्रयम् ॥ 16.30॥
चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः । चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ 16.31॥
चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् । चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ 16.32॥
चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलं । चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ 16.33॥
चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि । चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ 16.34॥
चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् । चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ 16.35॥
चिदेव देवताकारं चिदेव शिवपूजनम् । चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ 16.36॥
चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् । चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ 16.37॥
चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन । चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ 16.38॥
चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् । चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ 16.39॥
चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् । चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ 16.40॥
चिदेव जगदाकारं चिदेव परमं पदम् । चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ 16.41॥
चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः । चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ 16.42॥
चिदेव हि जडाकारं चिदेव हि निरन्तरम् । चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ 16.43॥