ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 92, कुल 249 में से
संदर्भ में पढ़ें॥ సప్తదశోఽధ్యాయః ॥
॥ सप्तदशोऽध्यायः ॥
ऋभुः –
निदाघ शृणु गुह्यं मे सर्वसिद्धान्तसंग्रहम् ।
द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥ १७.१॥
अहमेव परं ब्रह्म अहमेव परात् परम् ।
द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव केवलम् ॥ १७.२॥
अहमेव हि शान्तात्मा अहमेव हि सर्वगः ।
अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥ १७.३॥
अहमेव हि नानात्मा अहमेव हि निर्गुणः ।
अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥ १७.४॥
अहमेव हि जगत् सर्वं इदं चैवाहमेव हि ।
अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥ १७.५॥
अहमेव हि चैतन्यं अहमेव हि चिन्मयः ।
अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥ १७.६॥
अहमेव हि भूतात्मा भौतिकं त्वहमेव हि ।
अहमेव त्वमेवाहमहमेवाहमेव हि ॥ १७.७॥
जीवात्मा त्वहमेवाहमहमेव परेश्वरः ।
अहमेव विभुर्नित्यमहमेव स्वयं सदा ॥ १७.८॥
अहमेवाक्षरं साक्षात् अहमेव हि मे प्रियम् ।
अहमेव सदा ब्रह्म अहमेव सदाऽव्ययः ॥ १७.९॥
अहमेवाहमेवाग्रे अहमेवान्तरान्तरः ।
अहमेव चिदाकाशमहमेवावभासकः ॥ १७.१०॥
अहमेव सदा स्रष्टा अहमेव हि रक्षकः ।
अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥ १७.११॥
अहमेव सदा साक्षी त्वमेव त्वं पुरातनः ।
त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥ १७.१२॥
अहमेवाहमेवाहमहमेव त्वमेव हि ।
अहमेवाद्वयाकारः अहमेव विदेहकः ॥ १७.१३॥