ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 93, कुल 249 में से
संदर्भ में पढ़ेंअहमेव ममाधारः अहमेव सदात्मकः ।
अहमेवोपशान्तात्मा अहमेव तितिक्षकः ॥ १७.१४ ॥
अहमेव समाधानं श्रद्धा चाप्यहमेव हि ।
अहमेव महाव्योम अहमेव कलात्मकः ॥ १७.१५ ॥
अहमेव हि कामान्तः अहमेव सदान्तरः ।
अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥ १७.१६ ॥
अहमेव हि विश्वात्मा अहमेव हि केवलम् ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १७.१७ ॥
अहमेव चिदानन्दः अहमेव सुखासुखम् ।
अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥ १७.१८ ॥
अहमेव हि वेदान्तः अहमेव हि चिन्तनः ।
देहोऽहं शुद्धचैतन्यः अहं संशयवर्जितः ॥ १७.१९ ॥
अहमेव परं ज्योतिरहमेव परं पदम् ।
अहमेवाविनाशात्मा अहमेव पुरातनः ॥ १७.२० ॥
अहं ब्रह्म न सन्देहः अहमेव हि निश्चलः ।
अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥ १७.२१ ॥
अहमित्यपि हीनोऽहमहं भावनवर्जितः ।
अहमेव हि भावान्ता अहमेव हि शोभनम् ॥ १७.२२ ॥
अहमेव क्षणातीतः अहमेव हि मङ्गलम् ।
अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥ १७.२३ ॥
अहमेवाप्रमेयात्मा अहं सङ्कल्पवर्जितः ।
अहं बुद्धः परंधाम अहं बुद्धिविवर्जितः ॥ १७.२४ ॥
अहमेव सदा सत्यं अहमेव सदासुखम् ।
अहमेव सदा लभ्यं अहं सुलभकारणम् ॥ १७.२५ ॥
अहं सुलभविज्ञानं दुर्लभो ज्ञानिनां सदा ।
अहं चिन्मात्र एवात्मा अहमेव हि चिद्घनः ॥ १७.२६ ॥
अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः ।
अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥ १७.२७ ॥
अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः ।
अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥ १७.२८ ॥