भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 94, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 94

अहमेवामृतो मोक्षो अहमेव हि निश्चलः । अहमेव हि नित्यात्मा अहं मुक्तो न संशयः ॥ १७.२९॥

अहमेव सदा शुद्धः अहमेव हि निर्गुणः । अहं प्रपञ्चहीनोऽहं अहं देहविवर्जितः ॥ १७.३०॥

अहं कामविहीनात्मा अहं मायाविवर्जितः । अहं दोषप्रवृत्तात्मा अहं संसारवर्जितः ॥ १७.३१॥

अहं सङ्कल्परहितो विकल्परहितः शिवः । अहमेव हि तुर्यात्मा अहमेव हि निर्मलः ॥ १७.३२॥

अहमेव सदा ज्योतिरहमेव सदा प्रभुः । अहमेव सदा ब्रह्म अहमेव सदा परः ॥ १७.३३॥

अहमेव सदा ज्ञानमहमेव सदा मृदुः । अहमेव हि चित्तं च अहं मानविवर्जितः ॥ १७.३४॥

अहंकारश्च संसारमहंकारमसत्तदा । अहमेव हि चिन्मात्रं मत्तोऽन्यन्नास्ति नास्ति हि ॥ १७.३५॥

अहमेव हि मे सत्यं मत्तोऽन्यन्नास्ति किञ्चन । मत्तोऽन्यत्तत्पदं नास्ति मत्तोऽन्यत् त्वत्पदं नहि ॥ १७.३६॥

पुण्यमित्यपि न क्वापि पापमित्यपि नास्ति हि । इदं भेदमयं भेदं सदसद्भेदमित्यपि ॥ १७.३७॥

नास्ति नास्ति त्वया सत्यं सत्यं सत्यं पुनः पुनः । नास्ति नास्ति सदा नास्ति सर्वं नास्तीति निश्चयः ॥ १७.३८॥

इदमेव परं ब्रह्म अहं ब्रह्मा त्वमेव हि । कालो ब्रह्म कला ब्रह्म कार्यं ब्रह्म क्षणं तदा ॥ १७.३९॥

सर्वं ब्रह्मप्यहं ब्रह्म ब्रह्मास्मीति न संशयः । चित्तं ब्रह्म मनो ब्रह्म सत्यं ब्रह्म सदाऽस्म्यहम् ॥ १७.४०॥

निर्गुणं ब्रह्म नित्यं च निरन्तरमहं परः । आद्यन्तं ब्रह्म एवाहं आद्यन्तं च नहि क्वचित् ॥ १७.४१॥

अहमित्यपि वार्ताऽपि स्मरणं भाषणं न च । सर्वं ब्रह्मैव सन्देहस्त्वमित्यपि न हि क्वचित् ॥ १७.४२॥

वक्ता नास्ति न सन्देहः एषा गीता सुदुर्लभः । सद्यो मोक्षप्रदं ह्येतत् सद्यो मुक्तिं प्रयच्छति ॥ १७.४३॥